भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 72

72.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । या बन्धुमतो राज्ञो ऽग्रमहिषी वृद्धीभूता, तया विचित्राण्य् आभरणानि शरीराद् अवमुच्य तत्र स्तूपे दत्तानि । ततः पादयोर् निपत्य प्रणिधानं कृतवती: अनेन कुशलमूलेम चित्तोत्पादेन देयधर्मपरित्यागेन चार्हत्वं प्राप्नुयाम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो या सा तेन कालेन तेन समयेन राज्ञो बन्धुमतो अग्रमहिषी आसीत्*, इयं सा सुप्रभा । यद् अनया विपश्यिनः स्तूपे विचित्राण्य् आभरणानि समारोपितानि, तेनाभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता संवृत्ता । यत् प्रणिधानं कृतम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_72 सुप्रिया । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन अनाथपिण्डदस्य गृहपतेः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता श्रावस्त्यधिवासिनो जनकायस्यातीव प्रिया । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं प्रिया सर्वजनस्य, तस्माद् भवतु दारिकायाः सुप्रियेति नामेति । जातिस्मरा जातमात्रा गाथां भाषते:
-------------------- वैद्य, प्. 178 --------------------
दत्तं हि दानं बहु वाल्पकं वा
विस्तीर्यते क्षेत्रविशेषयोगात्* ।
तस्माद् धि देयं विदुषा प्रयत्नात्*
बुद्धाय लोकेन्द्रसुरेश्वराय

72.2

आथास्या मातापितराव् अन्ये च गृहवासिनस् तं वाक्यव्याहारं श्रुत्वा भीतास् त्रस्ताः संविग्ना आकृष्टरोमकूपाः (स्पेयेर्: आहृष्टरोमकूपाः) कथयन्ति: पिशाचीव सेयं दारिकेति । सा कथयति: अम्ब नाहं पिशाची नापि राक्षसी, किं तर्हि दारिका । इच्छामि दानानि दातुम् इति । ततो ऽस्या मात्रा अनाथपिण्डदस्य गृहपतेर् निवेदितम्*: एवम् एषा दारिका ब्रूत इति । ततस् तेन गृहपतिना हृष्टतुष्टप्रमुदितेन भगवान् अन्तर्गृहे सभिक्षुसंघो भोजितः, तस्याश् च नाम्ना दक्षिणादेशनं कारितम्* ॥
यावद् असौ दारिका क्रमेण सप्तवर्षा संवृत्ता, मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । सा सर्वासां भिक्षुणीनाम् इष्टा कान्ता प्रिया मनापा । यावत् तत्र कालेन महादुर्भिक्षं प्रादुर्भूतं दुर्भिक्षान्तरकल्पसदृशम्*, यत्रानेकानि प्राणिशतसहस्राणि अन्नपानवियोगात् कालं कुर्वन्ति । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: गच्छ आनन्द, मद्वचनात् सुप्रियां वद: चतस्रस् ते पर्षदस् त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति । तत आयुष्मान् आनन्दः सुप्रियां गत्वोवाच: भगवान् आह: चतस्रस् ते परिषदस् त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति । ततः सुप्रिया कृतकरपुटा भगवत आज्ञां शिरसि कृत्वा कथयति: एवम् अस्त्व् इति ॥
सुप्रिया श्रावस्तीम् अभिसंप्रस्थिता गोचरव्यवलोकनार्थम्* । यावद् एषा प्रवृत्तिर् अनाथपिण्डदेन श्रुता । स त्वरितं सुप्रियाया अग्रतो भूतः कथयति: सुप्रिये क्व गच्छसीति । सा कथयति: भगवान् आह त्रैमास्यं वैयावृत्यकर्मणि नियुक्तेति । अनाथपिण्डद उवाच: अल्पोत्सुका भव, अहं त्वां सर्वेण प्रवारयामीति । सुप्रिया कथयति: किम् अत्राश्चर्यं यदि तातो दृष्टसत्यः प्रवारयति समन्ततो ऽन्तर्हितानि निधानान्य् अभिसमीक्ष्य । अहं तु दरिद्रजनस्यानुग्रहं करोमीति । तथा पञ्चभिर् उपासकशतैर् अल्पोत्सुका क्रियते । मालिकया देव्या, वर्षाकारया क्षत्रियया, ऋषिदत्तपुराणाभ्यां स्थपतिभ्यां, विशाखया मृगारमात्रा, राज्ञा प्रसेनजिता । अटवीगता तत्राप्य् अमनुष्यैर् मनुष्यवेषधारिभिः प्रवार्यते । तया एवं प्रवार्यमाणया भगवान् सश्रावकसंघस् त्रैमास्यम् उपस्थितश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । तत्रैव च त्रैमास्ये युज्यमानघटमानव्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥
-------------------- वैद्य, प्. 179 --------------------
अथ भगवांस् त्रैमास्यात्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं श्रावस्त्या राजगृहं संप्रस्थितः सार्धं श्रावकसंघेन । ततः सुप्रियया भगवान् अन्तर्मार्गे अल्पोत्सुकः कृतः । यावद् असौ ### {अल्पो}दिकाम् अटवीम् अनुप्राप्तः, गण्डीदेशकालो जातः, पथ्यदनं च नास्ति । तया भगवान् सश्रावकसंघ उपनिवेशितः । ततः पात्रं वामे पाणौ प्रतिष्ठाप्योवाच, प्रव्याहृतवती: यदि पुण्यानाम् अस्ति विपाकः, पात्रम् एवंविधभक्ष्यभोज्यादिना परिपूर्येतेति । ततो देवतया दिव्यया सुधया परिपूरितम्* । ततः सुप्रियया अनुपरिपाटिकया सर्वस्य भिक्षुसंघस्य पात्राणि पूरितानि । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षूणीनां मम श्राविकाणां कृतपुण्यानां यदुत सुप्रिया भिक्षुणी ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुप्रियया दारिकया कर्माणि कृतान्य्, येनाढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुप्रिययैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुप्रियया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc