भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 71

71.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो
-------------------- वैद्य, प्. 174 --------------------
भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यत्र अनेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् राज्ञा बन्धुमता स्तूपमहः कारितः । तत्र च स्तूपमहे वर्तमाने मल्लानां मध्ये पताका उच्छ्रापिता । यावद् राजमल्लेन राजमल्लो निहतः । ततस् तेन मल्लपताका आसादिता । स ताम् आदाय अनेकप्राणिशतसहस्रपरिवृतो नानाविचित्रैर् वाद्यैर् वाद्यमानैर् येन विपश्यिनः स्तूपस् तेनोपसंक्रान्तः । उपसंक्रम्य तथागतगुणानाम् अनुस्मरणं कृत्वा तां पताकां स्तूपयष्ट्यां बद्ध्वा प्रणिधानं कृतवान्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मल्ल आसीत्*, अयं स विदितयशाः । यद् अनेन विपश्यिनः स्तूपे काराः कृतास् तेन संसारे ऽनन्तं सुखम् अनुभूतवान्* । तेनैव हेतुना इदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 175 --------------------
अष्टमो वर्गः ।
तस्योद्दानम्*:
सुप्रभा सुप्रिया चैव शुक्ला सोमा तथापरा ।
कुवलया सुन्दरी यैव मुक्ता चैव कचङ्गला ।
क्षेमा विरूपा + + वर्गो भवति समुद्धितः ॥
अव्श्_71 सुप्रभा । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका दिव्यालंकारभूषिता मणिरत्नेन कण्ठे आबद्धेन । तस्माच् च प्रभा निर्गच्छति, यया सर्वा श्रावस्ती अवभासते । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् अनया जातमात्रया मणिरत्नावभासेन सर्वा श्रावस्ती अवभासिता, तस्माद् भवतु दारिकायाः सुप्रभेति नामेति । सा सुप्रभा दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा अष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । सा दारिका श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना । तस्या ये ये याचनका आगच्छन्ति, तेभ्यस् तेभ्यः कण्ठाद् अलंकारम् अवमुच्य प्रयच्छति । दत्ते च पुनर् अलंकारः प्रादुर्भवति ॥
यावद् असौ दारिका क्रमेण महती संवृत्ता, तदा तस्या बहवो याचनका आगच्छन्ति, राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश् च । तैर् उपद्रूयमाणः पिता चास्याः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यद्य् एकस्मै दास्यामि, अन्ये मे अमित्रा भविष्यन्तीति । यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच: तात किम् असि चिन्तापर इति । तेन सो ऽर्थो विस्तरेण समाख्यातः । दारिका कथयति: तात न ते शोकः कर्तव्यः । स्वयम् एवाहं सप्तमे दिवसे स्वयंवरम् अवतरिष्यामीति । ततः श्रेष्ठी राज्ञः प्रसेनजितो निवेद्य श्रावस्त्यां घण्टावघोषणं कारयामास: सप्तमे दिवसे सुप्रभा दारिका स्वयंवरम् अवतरिष्यति, येन वो यत् करणीयं स तत् करोत्व् इति ॥
-------------------- वैद्य, प्. 176 --------------------

ततः सप्तमे दिवसे सुप्रभा दारिका रथाभिरूढा काषायं ध्वजम् उच्छ्राप्य बुद्धं भगवन्तं चित्रपटे लेखयित्वा अभिष्टुवती वीथीम् अवतीर्णा । सा तत्र राजपुत्रैर् अमात्यपुत्रैः श्रेष्ठिपुत्रैश् च सोत्कण्ठ्क्‍ह्द्वीक्ष्यमाणा विचित्राभिः कथाभिः संज्ञप्योवाच: सर्वथाहं न केनचिद् अंशेन भवतां परिभवं करोमि । केवलं तु नाहं कामेनार्थिनी । बुद्धं शरणं गतास्मि । तस्य सकाशे प्रव्रजिष्यामीति । ततस् ते निर्भर्त्सिताः प्रतिनिवृत्ताः । सुप्रभापि दारिका भगवत्सकाशम् उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । तस्या भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुप्रभया दारिकया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्*, अभिनिर्हारश् च कृतः । अथ सुप्रभा दारिका उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवान् संलक्षयति: अनया अस्माच् छासने (स्पेयेर्: अस्मच्छासने) महद्विनेयाकर्षणं कर्तव्यम् इति । ततो भगवतोक्ता: गच्छ दारिके पर्षदम् अवलोकयेति । ततः सुप्रभा दारिका जेतवनान् निर्गत्य तत्रागता । तत्रैकैकस्यैवं भवति: बलेनैनां हराम इति । ते ताम् आक्रमितुम् आरब्धाः । ततः सुप्रभा दारिका तैर् उपक्रम्यमाणा विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि दर्शयितुम् आरब्धा । आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी । ततस् ते तद् अत्यद्भूतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा उद्दण्डरोमाणो मूलनिकृत्त इव द्रुमाः पादयोर् निपत्य विज्ञापयितुम् आरब्धाः: अवतर अवतर भगिनि, ययैते त्वया धर्माः साक्षात्कृताः । अस्थानम् एतद् यत् त्वं कामान् परिभुञ्जीथा इति । ततः सुप्रभा दारिका गगनतलाद् (स्पेयेर्: गगणतलाद्) अवतीर्य जनकायस्य पुरस्तात् स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्*
। ततो भगवता महाप्रजापत्याः संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुप्रभया दारिकया कर्माणि कृतान्य्, येनाभिरूपा दर्शनीया प्रासादिका, मणिरत्नं च कण्ठे प्रादुर्भूतम्*, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुप्रभयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि {लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुप्रभया दारिकया कर्माणि कृतान्य् उपचितानि} । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि
-------------------- वैद्य, प्. 177 --------------------
कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc