अवदानशतक · अध्याय 59
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति
-------------------- वैद्य, प्. 150 --------------------
ऋषिपतने मृगदावे । तत्र च काले भिक्षूणां विनिश्चये वर्तमाने त्रिपिटो भिक्षुः पञ्चशतपरिवारो विनिश्चये ऽअवस्थितः । तत्र च भिक्षवः शैक्षाशैक्षाः । ते त्रिपिटं प्रश्नं पृच्छन्ति । स न शक्नोति व्याकर्तुम्* । तेन कुपितेन खरं वाक्कर्म निश्चारितम्*: इमे च महिषा किं प्रजानन्तीति । शिष्यैर् अप्य् अस्योक्तम्: इमे महिषीपालाः किं प्रजानन्तीति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ महिषः, अयम् असौ त्रिपिटः । ये ते शिष्याः, इमे ते महिषीपालाः । तेन कर्मणा पञ्च जन्मशतानि महिषेषूपपन्नाः । इमानि च पञ्च महिषीपालशतानि संवृत्तानि । यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः, सत्यदर्शनं च कृतम्* । तस्मात् तर्हि भिक्षव वाग्दुश्चरितप्रहाणाय व्यायन्तव्यं यथा एते दोषा न भविष्यन्ति ये महिषस्य महिषीपालाणां च । एष एव गुणगणो भविष्यति यस् तस्यैव देवपुत्रभूतस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_59 उपोषधः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु पुनः समयेन देवानां त्रायस्त्रिंशानाम् उपोषधो नाम देवपुत्रो ऽसकृदसकृद् भगवत्सकाशम् उपसंक्रामति धर्मश्रवणाय । यावद् अपरेण समयेन उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णो धर्मश्रवणाय । अथ भगवान् उपोषधस्य देवपुत्रस्य आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा उपोषधेन देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः
-------------------- वैद्य, प्. 151 --------------------
त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः)
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि
नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयम्* ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*
अवनम्य ततः प्रलम्बहारश्
चरणौ द्वाव् अभिवन्द्य जातहर्षः ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखो दिवं जगाम
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0