भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 60

60.1

ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संविग्ना भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु देवेषु त्रायस्त्रिंशेषु उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो मां दर्शनायोपसंक्रान्तः । तस्य मया धर्मो देशितः । दृष्टसत्यश् च स्वभवनं गत इति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुतो भदन्त उपोषधस्य देवपुत्रस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं हिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अपरेण समयेन कृकी राजा भगवन्तं दर्शनायोपसंक्रामति पर्युपासनाय । यावद् द्वौ ब्राह्मणाउ ऋषिपतनं गतौ केनचित् करणीयेन । ताभ्यां राजा द्र्ष्टो महत्या राजऋद्ध्या महता राजानुभावेन । तयो राज्याभिलाषो जातः । ताभ्याम् अन्यतम उपासकः पृष्टः: भो बुद्धोपासक, किं कर्म कृत्वा यच् चिन्तयति यत् प्रार्थयते तद् अस्य सर्वं समृध्यतीति । उपासकेनोक्तम्*: य परिशुद्धम् अष्टाङ्गसमन्वागतम् उपवासम् उपवसति, यच् चिन्तयति यत् प्रार्थयते तद् अस्य सर्वं समृध्यतीति । ततस् तौ ब्राह्मणौ आषाढस्य गृहपतेः सकाशाद् अष्टाङ्गसमन्वागतम् उपवासम् उपलभ्योपोषितौ । तदैकेन परिशुद्धो रक्षितः । स कालं कृत्वा राज्ञः कृकेः पुत्रत्वम् अभ्युपगतः । तस्य सुजात इति नामधेयं व्यवस्थापितम्* । स पितुर् अत्ययाद् राज्ये प्रतिष्ठापितः ॥
द्वितीयेनोपवासः खण्डितः । स कालं कृत्वा नागेषूपपन्नः । तस्योपरि दिवसे दिवसे सप्तकृत्वः तप्तवालुका निपतति यया सो ऽस्थिशेषः क्रियते । तस्यैतद् अभवत्*: कस्येदं कर्मणः फलं कस्यायं कर्मणः फलविपाको येनाहम् ईदृशं दुःखम् अनुभवामीति । स पश्यति: अष्टाङ्गसमन्वागतं मे उपवासं समादाय शिक्षाशैथिल्यं कृतं येनाहम् ईदृशं महद्दुःखं प्रत्यनुभवामि । येन पुनः समादाय रक्षितं तेन राज्यं प्रतिलब्धम् इति । तस्यैतद् अभवत्: यन्व् अहम् इदानीम् अपि
-------------------- वैद्य, प्. 152 --------------------
तावद् अष्टाङ्गसमन्वागत्म् उपवासम् उपवसेयम्* । अप्य् एव नाम नागयोनेर् मोक्षः स्याद् इति । ततो नागवर्णम् अन्तर्धाप्य ब्राह्मणवर्णम् आत्मानम् अभिनिर्माय राज्ञः सकाशम् उपसंक्रान्तः । उपसंक्रम्य जयेनायुषा च वर्धयित्वोवाच: अष्टाङ्गसमन्वागतेन मे महाराज उपवासेन प्रयोजनम्* । तद् अर्हति देवो ऽष्टाङ्गसमन्वागतम् उपवासं पर्येषितुम्* । अथ न पर्येषसे, नियतं देवस्य सप्तधा मूर्धानं स्फालयामि । इत्य् उक्त्वा तत्रैवान्तर्हितः । ततो राजा भीतस् त्रस्तः संविग्न आहृष्टरोमकूपो हिरण्यपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारयामास: यो मे ऽष्टाङ्गसमन्वागतम् उपवासं देशयिष्यति, तस्यैतं हिरण्यपिटकं दास्यामि, महता सत्कारेण सत्करिष्यामीति । यावद् अन्यतमा वृद्धा स्त्री पलगण्डदुहिता । तया राज्ञः स्तम्भो दर्शितः: अत्र मे स्तम्भे पिता असकृद्गन्धधूपपुष्पार्चनं कृतवान्* । तम् उत्पाट्य प्रत्यवेक्षस्वेति । ततो राज्ञा पौरुषेयाणाम् आज्ञा दत्ता: अयं स्तम्भ उत्पाट्यताम् इति । ततो राजपुरुषैः स्तम्भ उत्पाटितः । तस्याधस्तात् सुवर्णपत्राभिलिखितो ऽष्टाङ्गसमन्वागत उपवासो लब्धः । सह पञ्च चोपासकशिक्षापदानि सप्तत्रिंशच् च बोधिपक्ष्या धर्माः । ततो राज्ञा तस्य नागस्याष्टाङ्गसमन्वागत उपवासो लिखित्वा दत्तः । ऋषिपतननिवासिभिश् च द्वादशभिर् ऋषिसहस्रैः सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यक्षीकृताः । स च नागो ऽष्टाङ्गसमन्वागतम् उपवासम् उपोष्य स्थलम् उद्गम्योत्सृष्टकायो ऽवस्थितः । सो ऽनाहारतां प्रतिपण्णः कालं कृत्वा पञ्चशतपरिवारः प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्नः । अतो भिक्षवो उपोषधस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_60 हंसाः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां राजा प्रसेनजित् कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । यावद् अपरेण समयेन राजा प्रसेनजित् कौशलो जेतवनं निर्गतो भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय । राज्ञा च पञ्चालेन राज्ञः प्रसेनजित् कौशलस्य प्राभृतं पञ्च हंसशतानि प्रेषितानि । यदा राजा जेतवनं निर्गतस् तदा तानि पञ्च हंसशतान्य् उपनामितानि । ततो राज्ञा प्रसेनजिता तेषाम् अभयप्रदानं दत्वा तत्रैव जेतवनए समुत्सृष्टाणि । यदा भगवान् महाश्रावकपरिवृतो ऽजिने (स्पेयेर्: ऽशन) उपनिषीदति, तदा ते हंसा भगवत्सकाशम् उपसंक्रामन्ति । भगवान् अपि तेभ्य आलोपम् अनुप्रयच्छन्ति महाश्रावकाश् च ।
-------------------- वैद्य, प्. 153 --------------------
ते मुक्त्वा तृप्ताः प्रणीतेन्द्रियास् तिष्ठन्ति । यदा भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां धर्मं देशयति, तदा ते हंसा भगवत्सकाशं गत्वा धर्मं शृण्वन्ति । ते चाल्पायुष्काः कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः ॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । पश्यन्ति हंसेभ्यश् च्युताः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ हंसपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रचूडाः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् हंसपूर्विणां देवपुत्राणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा हंसपूर्विभिर् देवपुत्रैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* । ते दृष्टसत्या वणिग् इव लब्धलाभाः, सस्यसंपन्ना इव कर्षकाः शूरा इव विजितसंग्रामाः, सर्वरोगपरिमुक्ता इवातुराः यया विभूत्या भगवत्सकाशम् आगतास् तयैव विभूत्या स्वभवनं गताः ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टास् ते युष्माभिर् भिक्षवस् तानि पञ्च हंसशतानि राज्ञा प्रसेनजिता कौशलेन इहोत्सृष्टानि? एवं भदन्त । तानि ममान्तिके चित्तम् अभिप्रसाद्य कालगतानि, प्रणीतेषु देवेषूपपन्नानि । तान्य् अस्यां रात्रौ मत्सकाशम् उपसंक्रान्तानि । तेषां मया धर्मो देशितः । दृष्टसत्यानि च स्वभवनं गतानि ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हंसपूर्वकैर् देवपुत्रैः कर्माणि कृतानि येन हंसेषूपपन्नाः, कानि कर्माणि कृतानि येन देवेषूपपन्नाः सत्यदर्शनं च कृतम् इति? भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिः कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc