अवदानशतक · अध्याय 58
-------------------- वैद्य, प्. 147 --------------------
अथ दूतपूर्वी देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥
ततो राजा प्रसेनजिद् उपरिप्रासादतलगतस् तम् उदारम् अवभासं दृष्ट्वा प्रभातायां रजन्यां भगवन्तं पप्रछ: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न महाराज ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः, अपि तु तावको दूतः स ममान्तिके चित्तम् अभिप्रसाद्य कालगतः प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्नः । स इमां रात्रिं मत्सकाशम् आगतः । तस्य मया धर्मो देशितः । स दृष्टसत्यः स्वभवनं गत इति । ततो राजा विस्मयजातः कथयति: अहो बुद्धो अहो धर्मः अहो संघो यत्र नाम परीत्तं कर्म कृत्वा महान् विपाक इति । अथ राजा प्रसेनजित् कौशलो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥
तत्र भगवान् भिक्षून् आमन्त्रयते स्म: तिस्र इमा भिक्षवो ऽग्रप्रज्ञप्तयः । कतमास् तिस्रः? बुद्धे अग्रप्रज्ञप्तिर् धर्मे संघे ऽग्रप्रज्ञप्तिः । बुद्धे ऽग्रप्रज्ञप्तिः कतमा? ये केचिद् सत्वा अपदा वा द्विपदा वा बहुपदा वा रूपिणो वा अरूपिणो व संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनः, तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषाम् अग्र आख्यातः । ये केचिद् बुद्धे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते बुद्धे ऽग्रप्रज्ञप्तिः । धर्मे ऽग्रप्रज्ञप्तिः कतमा? ये केचिद् धर्माः संस्कृता वा असंस्कृता वा, विरागो धर्मस् तेषाम् अग्र आख्यातः । ये केचिद् धर्मे ऽभिप्रसन्ना, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते धर्मे अग्रप्रज्ञप्तिः । संघे ऽग्रप्रज्ञप्तिः कतमा? ये केचित् संघा वा गणा वा पूगा वा परिषदो वा, तथागतश्रावकसंघस् तेषाम् अग्र आख्यातः । ये केचित् संघे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते संघे अग्रप्रज्ञप्तिः ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_58 महिषः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां
-------------------- वैद्य, प्. 148 --------------------
सश्रावकसंघः कोशलेषु जनपदेषु चारिकां चरन्न् अन्यतमवनषण्डम् अनुप्राप्तः । तत्र च वनषण्डे महान् महिषीयूथः प्रतिवसति, पञ्चमात्राणि च महिषीपालशतानि । यावत् तत्रान्यतमो महिषो बलवान् परमेण बलेन समन्वागतः । स परमनुष्याणां गन्धम् आघ्राय पृष्ठतो ऽनुधावति । भगवांश् च तं प्रदेशम् अनुप्रापत्ः । ततो महिषीपालैर् भगवान् सश्रावकसंघो दूरत एव दृष्टः । ततस् तैर् उच्चैः शब्दैर् उक्तः: भगवन्, इमं मार्गं वर्जय, दुष्टमहिषो ऽत्र प्रतिवसतीति । भगवान् आह: अल्पोत्सुका भवन्तु भवन्तः । वयम् अत्र कालज्ञा भविष्याम इति । अथासौ दुष्टमहिषो भगवन्तं दूरत एव दृष्ट्वा लाङ्गूलम् उन्नाम्य येन भगवांस् तेन प्रधावितः । ततो भगवता पुरस्तात् पञ्च केसरिणः सटाधारिणः (स्पेयेर्: केशरिणः सटधारिणः) सिंहा निर्मिताः, वामे दक्षिणे च पार्श्वे द्वाव् अग्निस्कन्धौ, उपरिष्टान् महत्ययोमयी शिला । ततः स महिषः समन्ततो महाभयं दृष्ट्वा भगवतः पादौ निश्रित्य दीनवदनश् च भगवन्तं प्रेक्ष्यते (स्पेयेर्: प्रेक्षते) । ततो ऽस्य भगवता तन्मय्या गत्यास् तन्मय्या योन्यास् त्रिभिः पादैर् धर्मो देशितः: इति हि भद्रमुख सर्वसंस्कारा अनित्याः, सर्वधर्मा अनात्मानः, शान्तं निर्वाणम् इति । जातिश् च स्मारिता । स श्रुत्वा रोदितुं प्रवृत्तः । अथ भगवांस् तस्यां वेलायां गाथे भाषते:
इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते ।
अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्*
साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने ।
तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि
इति ॥
अथासौ दुष्टमहिषः स्वाश्रयं जुगुप्समानो ऽनाहारतां प्रतिपन्नः । दीप्ताग्नयस् तिर्यग्योनिगताः प्राणिनः । स आशु कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: तिर्यग्भ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ महिषपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ महिषपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं तं वनषण्डम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् महिषपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा महिषपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न
-------------------- वैद्य, प्. 149 --------------------
देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः
त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः)
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि
नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयम्* ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*
अवनम्य ततः प्रलम्बहारश्
चरणौ द्वाव् अभिवन्द्य जातहर्षः ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखो दिवं जगाम
अथ तैर् महिषीपालैः स उदारो ऽवभासो दृष्टः, यं दृष्ट्वा कुतूहलजाता भगवन्तं पप्रछुः: क एष भगवन्*, रात्रौ दिव्यम् अवभासं कृत्वा भगवत्सकाशम् अनुप्राप्त इति । भगवान् आह: स एष भवन्तो महिषो ममान्तिके चित्तम् अभिप्रसाद्य कालगतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । सो ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः । स दृष्टसत्यः स्वभवनं गतः । ततस् ते महिषीपालाः परं विस्मयम् आपन्नाः: आश्चर्यं यन् नाम अयं तिर्यग्योनिगतो भूत्वा भगवन्तं कल्याणमित्रम् आसाद्य देवेषूपपन्नः, सत्यदर्शनं च कृतम्* । कथं नाम वयं मनुष्यभूता विशेषं नाधिगच्छेमेति? ततस् ते बुद्धं भगवन्तं सश्रावकसंघं प्रणीतेनाहारेण संतर्प्य भगवतो ऽन्तिके प्रव्रजिताः । तैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त महिषपूर्विकेण देवपुत्रेण कर्माणि कृतानि येन महिषेषूपपन्नः? एभिश् च महिषीपालैः किं कर्म कृतं येनाहर्त्वं साक्षात्कृतम्*? भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिः कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0