भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 57

57.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति स्म । तस्यान्यतम उपासकः । तेन शिक्षाशैथिल्यं कृतम्* । तस्य कर्मणो विपाकाच् छुकेषूपपन्नः । यन् मयान्तिके चित्तं प्रसादितम्*, तेन देवेषूपपन्नः । यत् तेन परिषिष्टानि शिक्षापदानि रक्षितानि, तेन सत्यदर्शनं कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 145 --------------------
अव्श्_57 दूतः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे । अथ अनाथपिण्डदो गृहपतिर् येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं जयेनायुषा च वर्धयित्वा विज्ञापयति: यत् खलु देव जानीयाश् चिरदृष्टो ऽस्माभिर् भगवान्* । परितृषिताः स्मो भगवतो दर्शनाय । इच्छामो वयं भगवन्तं द्रष्टुम् इति । ततो राजा अनाथपिण्डदं गृहपतिम् उवाच: कच्चित् ते गृहपते श्रुतं कुत्र भगवान् एतर्हि वर्षा उपगत इति? अनाथपिण्डद उवाच: श्रुतं मे देव भगवान् राजगृहे वर्षा उपगत इति ॥
ततो राज्ञा प्रसेनजिता कौशलेन अनाथपिण्डदाद्यैश् च पौरजानपदामात्यैर् अन्यतमः पुरुषो दूत्येनाहूयोक्तः: एहि त्वं भो पुरुष, येन भगवांस् तेनोपसंक्राम । उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च पृच्छ अल्पातङ्कं च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं च वद: राजा भदन्त कौशलः श्रावस्तीनिवासिनश् च पौरा आकाङ्क्षन्ति भगवतो दर्शनम्* । एवं चाहुः: चिरदृष्टो ऽस्माभिर् भगवान्* । परितृषिताः स्मो भगवतो दर्शनाय । इछामो वयं भगवन्तं द्रष्टुम्* । साधु भगवाञ् छ्रावस्तीम् आगच्छेद् अनुकम्पाम् उपादायेति । एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य सामात्यपौरजानपदस्य प्रतिश्रुत्य श्रावस्तीतो ऽनुपूर्वेण चञ्चूर्यमाणो राजगृहं नगरम् अनुप्राप्तः । ततः पूर्वं राजगृहं नगरम् अवलोक्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णः स पुरुषो भगवन्तम् इदम् अवोचत्*: राजा भदन्त प्रसेनजित् कौशलः श्रावस्तीनिवासिनश् च पौरा भगवतः पादौ शिरसा वन्दित्वा अल्पाबाधतां पृच्छन्ति, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं चाहुः: चिरदृष्टो ऽस्माभिर् भगवान्* । परितृषिताः स्मो भगवतो दर्शनाय । इछामो वयं भगवन्तं द्रष्टुम्* । साधु भगवाञ् छ्रावस्तीम् आगच्छेद् अनुकम्पाम् उपादायेति । भगवान् आह: सचेन् मे भोः पुरुष राजा बिम्बिसारो ऽनुज्ञास्यति; गमिष्यामीति । ततः स दूतो राजानं बिम्बिसारम् अनुज्ञाप्य भगवन्तम् इदम् अवोचत्*: अनुज्ञातो ऽसि भगवन् राज्ञा बिम्बिसारेण गमनाय, यस्येदानीं भगवान् कालं मन्यत इति । अधिवासयति भगवांस् तस्य पुरुषस्य तूष्णीभावेन ॥
अथ भगवांस् त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं महता परिवारेण श्रावस्त्यभिमुखो ऽभिजगाम । दूतो ऽपि रथाभिरूढः संप्रस्थितः । अथासौ ददर्श बुद्धं भगवन्तं पद्भ्यां संप्रस्थितम्* । ततो रथाद् अवतीर्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्*: प्रतिगृह्यतां भगवन्न् अस्माकीनो रथो ऽनुकम्पाम् उपादायेति ॥
-------------------- वैद्य, प्. 146 --------------------
भगवान् आह:
ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्तिना ।
विचरामि महीं कृत्स्नाम् अक्षतः क्लेशकण्ठकैः

57.2

इति ॥
दूतः प्राह: यद्य् अपि भगवान् ऋद्धिपादयानयायी; तथापि तु क्रियतां ममानुग्रहार्थम् अनुकम्पेति । अथ भगवान् दूतस्यानुग्रहार्थम् ऋद्ध्या रथस्योपरि स्थितः । ततो भगवान् रथाभिरूढः श्रावस्तीम् अनुप्राप्तः । दूतेन च राज्ञे निवेदितम्* । अथ राजा सामात्यः सपौरजानपदो भगवन्तं प्रत्युद्गतः । तत्रैव च जेतवने रात्रिंवासम् उपगतो धर्मश्रवणाय । स च दूतो ऽल्पायुष्को धर्मं श्रुत्वा तस्याम् एव रात्रौ कालगतः । स कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ दूतपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ दूतपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् दूतपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा दूतपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः

57.3

त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः)
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि

57.4

नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*

57.5

अवनम्य ततः प्रलम्बहारश्
चरणौ द्वाव् अभिवन्द्य जातहर्षः ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखो दिवं जगाम

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc