भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 56

56.1

अथ पटप्रदायिका देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । या दरिद्रदारिका अनाथपिण्डदस्य गृहपतेश् छन्दकभिक्षणं कुर्वाणस्य पटं दत्वा कालगता, प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना, सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः । सा प्रसादजाता प्रक्रान्ता, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धधर्मसंघेषु कारान् करिष्यामो नापकारान्* । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_56 शुकः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय
-------------------- वैद्य, प्. 142 --------------------
आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । यावद् असौ भगवद्दर्शनोत्कण्ठितः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । ततो ऽमात्यर् उक्तः: किमर्थं देव शोकः क्रियत इति । राजोवाच: चिरदृष्टो मे सुगतः । सो ऽहम् आकाङ्क्षामि भगवतो दर्शनम् इति । अश्रौषीद् भगवान् दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण राजा बिम्बिसार उत्कण्ठित इति । अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्त्{अक्}आनाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः, कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्

56.2

ततो भगवान् राज्ञो बिम्बिसारस्यानुग्रहार्थं त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ट्ःइतचीवरः समादाय पात्रचीवरम् जनपदचारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन्न् अन्यतमं वनषण्डम् अनुप्राप्तः । तत्र च वनषण्डे मनुष्यप्रलापी शुकः प्रतिवसति । तेन भगवान् दूरत दृष्टः । ततस् त्वरितत्वरितं भगवन्तम् उवाच: एतु भगवान्, स्वागतं भगवते, क्रियताम् अस्माकम् अनुग्रहः, इहैव वनषण्डे एकां रात्रिं प्रतिवसेति । ततो भगवाञ् छुकस्यानुग्रहार्थं यत्र व्क्षे शुकस्यालयस् तत्र तृणसंस्तरं संस्तीर्य पर्यङ्केण निषण्णः, अन्यवृक्षेषु महाश्रावकाः, ततः शुकः कृत्स्नां रात्रिम् इतस् ततस् तं वनषण्डं पर्यटति, मा हैव कश्चिद् भगवन्तं सश्रावकसंघं विहेठयिष्यतीति मनुष्यो वा अमनुष्यो वा यक्षो वा राक्षसो वा श्वापदश् चण्डशृङ्गो वेति । ततः प्रभातायां रजन्यां भगवन्तं त्रिःप्रदक्षीणीकृत्य क्षमयितुम् आरब्धः । क्षमस्व भगवंस् तिर्यग्योनिगतो ऽहम्*, नास्ति मे विभवो येन भगवन्तम् अभ्यर्चयेयम्*, अपि त्व् अहम् अग्रतो गच्छामि । राज्ञो बिम्बिसारस्य भगवत आगमनं निवेदयामीति । एवम् अस्त्व् इति । यावद् असौ राज्ञः सकाशं संप्रस्थितः । अनुपूर्वेण राज्ञः सकाशम् अनुप्राप्तम्* । तस्मिंश् च समये राजा उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति । ततः शुको मानुषप्रलापी राजानम् उवाच । भो राजन्*, विदितं ते भवतु: भगवान् सश्रावकसंघस्
-------------------- वैद्य, प्. 143 --------------------
तव विजितम् अनुप्राप्तः । तद् अर्हति देवो भक्तं सज्जीकर्तुम् इति । ततो राजा त्वरितत्वरितं प्रासादाद् अवतीर्यामात्यगणपरिवृतो भगवतो ऽर्थेन आसनकानि प्रज्ञप्य छत्रध्वजपताकाभिर् विचित्रैश् च गन्धपुष्पधूपैर् भगवन्तं प्रत्युद्गतः । ततो राज्ञा भगवान् सश्रावकसंघो महता सत्कारेण प्रवेशितः, प्रणीतेन चाहारेण संतर्पितः ॥
अथ शुकस्यैतद् अभवत्*: यद् भगवान् सश्रावकसंघ एवंविभूतिस् तत् सर्वं मामागम्य । इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो राज्ञः पुरस्ताद् इतश् चामुतश् च पर्यटन्* श्येनकेनापहृत्य पञ्चत्वम् आपादितः । भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: तिर्यग्भ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ शुकपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ शुकपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवांश् छुकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा शुकपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः

56.3

त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः)
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि

56.4

नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*

56.5

अवनम्य ततः प्रलम्बहारश्
चरणौ द्वाव् अभिवन्द्य जातहर्षः ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखो दिवं जगाम

56.6

-------------------- वैद्य, प्. 144 --------------------
अथ शुकपूर्वी देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टः स युष्माभिः शुको येन वयं तस्मिन् वनषण्डे रात्रिं वस्तुम् उपनिमिन्त्रिता इति? भिक्षव ऊचुः: एवं भदन्तेति । भगवान् आह: स एष भिक्षवः कालं कृत्वा, प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्न इति । भिक्षव ऊचुः: कानि भदन्त शुकपूर्वकेण देवपुत्रेण कर्माणि कृतानि येन शुकेषूपपन्नः, कानि कर्माणि कृतानि येन देवेषूपपन्नः, सत्यदर्शनं च कृतम् इति । भगवान् आह: शुकपूर्वकेणैव भिक्षवो देवपुत्रेण पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शुकपूर्वकेण देवपुत्रेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc