अवदानशतक · अध्याय 55
अथ श्रीमती देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव {वि}जितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥
-------------------- वैद्य, प्. 139 --------------------
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु राज्ञो बिम्बिसारस्य श्रीमती नामान्तःपुरिका स्वजीवितम् अगणयित्वा बुद्धगुणांश् चानुस्मृत्य तथागतस्य केशनखस्तूपे दीपमालां कृतवती । ततो राज्ञा अजातशत्रुणा कुपितेन जीविताद् व्यवरोपिता । सा ममान्तिके चित्तं प्रसाद्य कालगता प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना । सा अस्यां रात्रौ मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_55 वस्त्रम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा अनाथपिण्डदेन गृहपतिना बुद्धप्रमुखाय भिक्षुसंघाय जेतवनं निर्यातितम्*, क्रमेण {च} कोटिशतं भगवच्छासने दत्तम्*, तदा तस्य बुद्धिर् अभवत्*: किम् अत्राश्चर्यं यद् अहं दानानि ददामि, पुण्यानि वा करोमि, यन्व् अहं दरिद्रजनानुग्रहार्थ्ं श्रावस्तीनिवासिनो जनकायाच् छन्दकभिक्षणं कृत्वा भगवन्तं सश्रावकसंघम् उपतिष्ठेयम्* । एवं मे महाजनानुग्रहः कृतो भविष्यति, बहु चानेन पुण्यं प्रसूतं भविष्यतीति । ततो ऽनाथपिण्डदेन गृहपतिना एष वृत्तान्तो राज्ञे निवेदितः । राज्ञा सर्वस्यां श्रावस्त्यां घण्टाघोषणं कारितम्*: शृण्वन्तु भवन्तः श्रावस्तीनिवासिनः पौराः । अद्य सप्तमे दिवसे अनाथपिण्डदो गृहपतिर् हस्तिस्कन्धाभिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दकभिक्षणं कर्तुकामः । यस्य वो यन् मात्रं परित्यक्तं तद् अनुप्रदातव्यम् इति । यावत् सप्तमे दिवसे अनाथपिण्डदो गृहपतिर् हस्तिस्कन्धाधिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय छन्दकभिक्षणं कर्तुं प्रवृत्तम्* । तत्र येषां यन् मात्रो विभवस् ते तन् मात्रं दातुं प्रवृत्ताः । केचिद् धारं प्रयच्छन्ति, केचित् कटकम्*, केचित् केयूरम्*, केचिज् जातरूपमालाम्*,
-------------------- वैद्य, प्. 140 --------------------
केचिद् अङ्गुलिमुद्राम्*, केचिन् मुक्ताहारम्*, केचिद् धिरण्यम्*, केचित् सुवर्णम्*, केचिद् अन्तशः कार्षापणम्* । गृहपतिर् अपि परानुग्रहार्थं प्रतिगृह्णाति ॥
यावद् अन्यतमा स्त्री परमदरिद्रा । तया त्रिभिर् मासैः कृच्छ्रेण पटक उपार्जितः । सा तं पटकं प्रावृत्य वीथीम् अवतीर्णा । अनाथपिण्डदश् च तया दूरत एवागच्छन्*, शङ्खपटहैर् वाद्यमानैर् अवलोकितः । तयान्यतम उपासकः पृष्टः: यदि तावद् अयं गृहपतिर् आढ्यो महाधनो महाभोहो ऽन्तर्भूमौ निगूढान्य् अपि निधानानि पश्यति, कस्माद् अयं परकुलेभ्यो भैक्ष्यम् अटतीति । सा उपासकेनोक्ता: परानुग्रहार्थम्* । ये ऽसममर्था भगवन्तं सश्रावकसंघं भोजयितुम्*, तेषाम् अर्थे ऽनुग्रहं करोति । कथं बहवः समेता भगवन्तं प्रतिपादयेयुर् इति । ततस् तया दारिकाया बुद्धिर् उत्पन्ना: अहं तावद् अकृतपुण्या, न मे शक्तिर् अस्ति, यद् अहम् एकाकिनी भगवन्तं सश्रावकसंघं भोजनेन प्रतिपादयेयम्* । यन्व् अहम् अत्र किंचिद् अनुप्रदद्याम् इति । सा स्वकं विभवम् अवलोकयन्ती न किंचित् पश्यति ऋते पटकात्* । सा चिन्तयितुं प्रवृत्ता: यद्य् अहम् इहस्थैव पटकं प्रदास्यामि, नग्ना भविष्यामि । यन्व् अहं शरणपृष्ठम् अभिरुह्य पटकं क्षिपेयम् इति । ततः सा शरणपृष्ठम् अभिरुह्य स्वशरीरात् पटकम् अवनीय अनाथपिण्डदस्योपरि क्षिप्तवती । सा गृहपतिना संलक्षिता: नूनम् अस्या एष एव विभवो यद् अनया शरणसंस्थया क्षिप्तम् इति । तेन स्वपौरुषेयाणाम् आज्ञानुप्रदत्ता । गच्छन्तु भवन्तः, अवलोकयन्तु केनायं पटकः क्षिप्त इति । तैर् अवलोकिता यावद् उत्कुटुका निषण्णा । ततस् तैः पृष्टा । तया चोक्तम्*: यो मे विभव आसीत् स मे भगवद्गुणानुकीर्तनं प्रतिश्रुत्य दारिद्र्यभयभीतया (स्पेयेर्: दारिद्रभयभीतया) तथागतप्रमुखे भिक्षुसंघे दत्त इति । ततस् तैर् अनाथपिण्डदाय निवेदितम्* । ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेना सा दारिका विचित्रैर् वस्त्रैर् आभरणैश् चाच्छादिता । सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना । उपपन्नमात्रायास् तस्यास् तथाविधानि वस्त्राणि प्रादुर्भूतानि, न कस्यचिद् अन्यस्य देवपुत्रस्य वा देवकन्याया वा ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतः पटकप्रदानाद् इति । ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् पटकप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा पटकप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं
-------------------- वैद्य, प्. 141 --------------------
कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः
त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्:सुविशुद्ध चक्षुः)
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णा च दुःखार्णवपारम् अस्मि
नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*
अवनम्य ततः प्रलम्बहारा
चरणौ द्वाव् अभिवन्द्य जातहर्षा ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखी दिवं जगाम
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0