अवदानशतक · अध्याय 54
अथासौ देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥
-------------------- वैद्य, प्. 136 --------------------
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः, यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भदन्त इमां रात्रिं ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टा युष्माभिः सा दारिका, यया अहम् अन्तर्मार्गो सालपुष्पैर् अवकीर्णः? एवं भदन्त । सैषा ममान्तिके चित्तम् अभिप्रसाद्य कालगता प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना । सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_54 श्रीमती । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम् एकपुत्रम् इव राज्यं पालयति । यदा राज्ञा बिम्बिसारेण भगवतः सकाशात् सत्यानि दृष्टानि, तदा रात्रिं भगवन्तम् उपसंक्रामति सार्धम् अन्तःपुरेण । अथ राजा बिम्बिसारो ऽपरेण समयेन संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहान्तःपुरपरिवृत उद्यानभूमिं निर्गतः । तत्र चान्तःपुरिकाभी राजा विज्ञप्तः: देव वयं न शक्नुमो ऽहन्यहनि भगवन्तम् उपसंक्रमितुम्* । तत् साधु देवो ऽस्मिन्न् अन्तःपुरे तथागतस्य केशनखस्तूपं प्रतिष्ठापयेद्* यत्र वयम् असकृत्पुष्पैर् गन्धैर् माल्यैर् विलेपनैश् छत्रैर् ध्वजैः पताकाभिः पूजां कुर्यामेति । यावद् राज्ञा बिम्बिसारेण भगवान् विज्ञप्तः: दीयताम् अस्मभ्यं केशनखं येन वयं तथागतस्तूपम् अन्तःपुरमध्ये प्रतिष्ठापयाम इति । यावद् भगवता केशनखं दत्तम्* । राज्ञा बिम्बिसारेण महता सत्कारेणान्तःपुरसहायेन तथागतस्य केशनखस्तूपो ऽन्तःपुरमध्ये प्रतिष्ठापितः । तत्र चान्तःपुरे ऽन्तःपुरिका दीपधूपपुष्पगन्धमाल्यविलेपनैर् अभ्यर्चनं कुर्वन्ति ॥
यदा पुना राज्ञा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयं च राज्यं प्रतिपन्नः, तदा भगवच्छासने सर्वेदेयधर्माः समुच्छिन्नाः ।
-------------------- वैद्य, प्. 137 --------------------
क्रियाकारश् च कारितो न केनचित् तथागतस्तूपे काराः कर्तव्या इति । यदा पञ्चदश्यां प्रवारणा संवृत्ता, तदा तत्र केशनखस्तूपे न कश्चित् संमार्जनं दीपधूपपुष्पदानं वा कुरुते । ततो ऽन्तःपुरिका केशनखस्तूपं तथाविधं राजानं च बिम्बिसारम् अनुस्मृत्य करुणकरुणं रोदितुम् आरब्धाः: हा कष्टं धर्मराजवियोगाद् वयं पुण्यात् प्रहीणा इति । तत्र च श्रीमती नामान्तःपुरिका । सा स्वकं जीवितम् अगणयित्वा बुद्धगुणांश् चानुस्मृत्य केशनखस्तूपं संमृज्य दीपमालाम् अकार्षीत्* । यावद् अजातशत्रुर् उपरिप्रसादतलगतः तम् उदारम् अवभासं दृष्ट्वा पप्रच्छ किम् इदम् इति । यावद् अन्यया कथितम्*: श्रीमत्या केशनखस्तूपे दीपमाला कृतेति । ततः श्रीमतीम् आहूय कथयति: किम् अर्थं राजशासनम् अतिक्रमसीति । सा कथयति: यद्य् अपि मया तव शासनम् अतिक्रान्तम्*, किं तु धर्मराजस्य मया बिम्बिसारस्य शासनं नातिक्रान्तम् इति । ततस् तेन कुपितेन चक्रं क्षिप्त्वा जीविताद् व्यवरोपिता । सा भगवति प्रसन्नचित्ता कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना ॥
तत्र काले देवसमितिर् उपस्थिता । अथ श्रीमती देवकन्या समन्तयोजनं दिव्यप्रभामण्डलावभासिता देवसमितिम् उपसंक्रान्ता । ततः शक्रो देवेन्द्रस् तम् उदारम् अवभासं दिव्यां च प्रभां समन्तयोजनं दृष्ट्वा पप्रच्छ:
गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव
गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता ।
वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव
ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते
देवता प्राह:
त्रैलोक्यनाथं जगतः प्रदीपं निरीक्ष्य बुद्धं वरलक्षणाढ्यम्* ।
चकार दीपं वदतां वरस्य तमोनुदं क्लेशतमोनुदस्य
दृष्ट्वा प्रभां चन्द्रमरीचिवर्णां चकार भावेन मुनौ प्रसादम्* ।
प्रभां च हर्षात् समुदीक्ष्य शास्तुश् चक्रे प्रणामं वदतां वरस्य
तत्कर्मणा श्रिया देहं राजते ऽभ्यधिकं मम ।
जलजेन्दुविशुद्धाभं वदनं कान्तदर्शनम्*
शक्रः प्राह:
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* ।
यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये
-------------------- वैद्य, प्. 138 --------------------
को नार्चयेत् प्रवरकाञ्चनराशिगौरं
बुद्धं विशुद्धकमलायतपत्रनेत्रम्* ।
यत्राधिकारजनितानि वराङ्गनानां
रेजुर् मुखानि कमलायतलोचननि
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतो ऽन्तिके चित्तं प्रसाद्येति । अथ श्रीमत्या देवकन्याया एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ श्रीमती देवकन्या दिव्यप्रभावभासपरिवेष्टिता दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् उत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवाञ् छ्रीमत्या देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा स्रीमत्या देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* । सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः
त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः)
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णा च दुःखार्णवपारम् अस्मि
नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*
अवनम्य ततः प्रलम्बहारा
चरणौ द्वाव् अभिवन्द्य जातहर्षा ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखी दिवं जगाम
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0