भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 53

53.1

इति ॥
ततस् तस्य ब्राह्मणस्य भूतम् ऋषिवचनम् अवगत्य प्रसादो जातः । प्रसादजातश् चाह: कस् त्वम् इति । तत ऋषिस् तं वेषम् अन्तर्धाप्य स्ववेषेण स्थित्वा पितरम् आह: अहं ते स एकपुत्रको भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । तव शोकविनोदनार्थम् इहागतः । एहि त्वं तात बुद्धं भगवन्तं शरणं गच्छ, अप्य् एव त्वम् अपि संसारसमतिक्रामं कुर्या इति ॥
अथ स ब्राह्मणो मृतशरीरम् अपहाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन ब्राह्मणेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् प्राप्तम्* । स लब्धोदयो लब्धलाभो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य प्रक्रान्तः ॥
ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भगवन्, यावद् अनेन देवपुत्रेणायं पिता शोकं विनोद्य सत्यदर्शने प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् अनेनैतर्हि दृष्टसत्येन पिता परित्रातः । यत् त्व् अनेन अतीते ऽध्वनि पृथग्जनेन सता यावत् त्रिर् अपि पिता जीविताद् व्यवरोप्यमाणः परित्रातः । तच् छ्रुणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः पारदारिकः । तस्य पुत्रो भद्रः कल्याणाशयो ऽतीव लोकस्याभिमतः । यावद् अस्य पित्रा चौर्यं कृतम्* । ततो राज्ञा वध्यताम् इत्य् आज्ञप्तम्* । ततः पुत्रेण यावत् त्रिर् अपि राजानं विज्ञाप्य इष्टेन जीवितेनाच्छादितः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पारदारिक आसीत्*, अयं स ब्राह्मणः । पारदारिकपुत्रो ऽयम् एव ब्राह्मणदारकः ॥
भिक्षव ऊचुः: किं कर्म कृतं येन पितापुत्राभ्यां सत्यदर्शनं कृतम् इति । भगवान् आह: काश्यपे सम्यक्संबुद्धे उपासकभूताभ्यां शरणगमनशिक्षापदग्रहणं कृतम्* । तेनेदानीं सत्यदर्शनं कृतम्* । तस्मात् तर्हि भिक्षवः सर्वसंस्कारा अनित्याः, सर्वधर्मा अनात्मानः, शान्तं निर्वाणम् इति निर्वाणे यत्नः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 134 --------------------
अव्श्_53 सालः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु पुनः समयेन श्रावस्त्यां सालभञ्जिका नाम पर्व प्रत्युपस्थितम्* । तत्रानेकानि प्राणिशतसहस्राणि संनिपत्य सालपुष्पाण्य् आदाय क्रीडन्ति रमन्ते परिचारयन्ति । यावद् अन्यतरा श्रेष्ठिदारिका सालपुष्पाण्य् आदाय श्रावस्तीं प्रविशति । भगवांश् च भिक्षुगणपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति । ददर्श सा दारिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः प्रसादजातया भगवान् सालपुष्पैर् अवकीर्णः । ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता: भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति । यावद् असौ सालवृक्षम् अधिरूढा पतिता । भगवतः कृतोपस्थाना कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना यावत् सालपुष्पविमानालंकृता देवसमितिम् उपसंक्रान्ता ॥
तस्मिंश् च काले शक्रो देवेन्द्रः सुधर्मायां देवसभायां देवगणस्य मध्ये बुद्धस्य वर्णं भाषते, धर्मस्य संघस्य च वर्णं भाषते । ददर्श शक्रो देवेन्द्रस् तां देवकन्यां सालपुष्पविमानालंकृताम् उत्तप्तकुशलमूलाम्* । दृष्ट्वा च गाथया प्रत्यभाषत:
गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव
गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता ।
वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव
ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते

53.2

देवता प्राह:
सश्रावको नरादित्य आकीर्णो वरलक्षणैः ।
तत् कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम ।
जलजेन्दुविशुद्धाभं वदनं कान्तदर्शनम्*

53.3

शक्रः प्राह:
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* ।
यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये

53.4

-------------------- वैद्य, प्. 135 --------------------
को नार्चयेत् प्रवरकाञ्चनराशिगौरं
बुद्धं विशुद्धकमलायतपत्रनेत्रम्* ।
यत्राधिकारजनितानि वराङ्गनानां
रेजुर् मुखानि कमलायतलोचननि

53.5

धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतो ऽन्तिके चित्तं प्रसाद्येति । अथ तस्या देवकन्याया एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ सा देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री अनेकदेवताशतसहस्रपरिवृता तेनैव सालपुष्पविमानेन सह भगवत्सकाशम् उपसंक्रान्ता । भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवांस् तस्या देवताया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा तया देवकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न देवताभिर् न राज्ञा नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः

53.6

त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः)
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णा च दुःखार्णवपारम् अस्मि

53.7

नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*

53.8

इति
अवनम्य ततः प्रलम्बहारा
चरणौ द्वाव् अभिवन्द्य जातहर्षा ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखी दिवं जगाम

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc