भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 52

52.1

अथाशीविषपूर्वको देवपुत्रो वणिग् इव लब्धलाभः, संपन्नसस्य इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपगतस् तयैव विभूत्या तस्याम् एव रात्रौ राज्ञो बिम्बिसारस्य सकाशम् उपसंक्रम्य सर्वं राजकुलम् उदारेणावभासेनावभास्य राजानं प्रबोध्य एतद् उवाच: महाराज उत्तिष्ठ उत्तिष्ठ, किं स्वपिषीति । अथ राजा प्रबुद्धः पश्यति तम् उदारम् अवभासं तं च देवपुत्रम्* । दृष्ट्वा प्रीतमनास् तं पप्रच्छ कस् त्वम् इति । स कथयति: अहं स दृष्ट्याशीविषो भगवता तत्रोद्याने विनीतः, कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । भगवन्तं च मे पर्युपास्य सत्यदर्शनं कृतम्* । स इदानीं प्रबोधयामि । गत्वा तद् उद्यानम् अमुकस्मात् प्रदेशान् महानिधानम् उत्पाट्य मम नाम्ना भगवन्तं सश्रावकसंघं भोजय, दक्षिणादेशनां च कारयेति । अधिवासयति राजा बिम्बिसारो देवपुत्रस्य तूष्णीभावेन । अथाशीविषपूर्वको देवपुत्रो राज्ञस् तूष्णीभावेनाधिवासनां विदित्वा तत्रैवान्तर्हितः ॥
अथ स राजा बिम्बिसारस् तस्याम् एव रात्रौ मागधानां पौरजानपदानां निवेद्य तद् उद्यानं गत्वा निधानम् उत्पाट्य भगवन्तं सश्रावकसंघं त्रैमास्यं भोजयित्वा भगवन्तं पप्रच्छ: कानि भगवन्न् अशीविषपूर्वकेण देवपुत्रेण कर्माणि कृतानि, येनाशीविषेषूपपन्नः: कानि कर्माणि कृतानि येन देवेषूपपन्नः, सत्यदर्शनं च कृतम् इति? भगवान् आह: यत् तेनातिमात्रो लोभ उत्पादितः, श्रमणब्राह्मणवनीपकानां चान्तिके चित्तं प्रदुषितम्*, तेनाशीविषेषूपपन्नः । यन् ममान्तिके चित्तं प्रसादितम्*, तेन देवेषूपपन्नः । काश्यपे च सम्य्कसंबुद्धे उपासकभूतेन शरणगमनशिक्षापदग्रहणं कृतम्*, तेन सत्यदर्शनं कृतम् इति । तस्मात् तर्हि महाराज मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति ये आशीविषस्य । एष एव गुणगणो भविष्यति, यस् तस्यैव देवपुत्रस्येत्य् एवं ते महाराज शिक्षितव्यम्* । अथ राजा बिम्बिसारो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 131 --------------------
अव्श्_52 चन्द्रः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः कर्षको ब्राह्मणः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वजनमनोनयनप्रह्लादनकरः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जातौ सर्वलोकानां नयनप्रह्लादनम्*, तस्माद् भवतु अस्य दारकस्य चन्द्र इति नामेति । स च तेन ब्राह्मणेन कृच्छ्रेण लब्धः । न चास्यान्यः पुत्रो न दुहिता ॥
स उन्नीतो वर्धितो महान् संवृत्तः । स सर्वलोकप्रह्लादनकरत्वाद् ब्राह्मणगृहपतिभिः कृत्स्नं नगरम् अन्वाहिण्ड्यत इति । स ब्राह्मणस् तस्मिन् भूयस्या मात्रयाध्यवसितो नित्यम् एव क्रमस्थानशय्यासु संरक्षणपरो ऽवतिष्ठिते । तस्य च ब्राह्मणस्यानाथपिण्डदसमीपे गृहम्* । अथ स ब्राह्मणदारको ऽनाथपिण्डदसंसर्गाज् जेतवनं गत्वा बुद्धवचनं शृणोति । तेन भगवच्छासने प्रसादः प्रतिलब्धः । स चाल्पायुष्कः कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नश् च केन कर्मणेति । पश्यति मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति । अथ ब्राह्मणपूर्विणो देवपुत्रस्यैतद् अभवत्: न मम प्रतिरूपं स्यात्*, यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ ब्राह्मणपूर्वको देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् ब्राह्मणपूर्वकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा ब्राह्मणपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् प्राप्तम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
-------------------- वैद्य, प्. 132 --------------------
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः

52.2

त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः ।
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि

52.3

नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*

52.4

इति
अवनम्य ततः प्रलम्बहारश्
चरणौ द्वाव् अभिनन्द्य जातहर्षः ।
परिगम्य च दक्षिणं जितारिं
सुरलोकाभिमुखो दिवं जगाम

52.5

अथ ब्राह्मणपूर्वको देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव {वि}जितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्र्यां भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः, अपि यो ऽसाव् एकपुत्रो ऽस्य ब्राह्मणस्य पुत्रो ऽल्पायुष्कः कालगतः, स ममान्तिके चित्तम् अभिप्रसाद्य प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, सो ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः, दृष्टसत्यश् च स्वभवनं गतः ॥
अत्र चान्तरे स ब्राह्मणस् तम् एकपुत्रकम् इष्टं कान्तं प्रियं मनापं क्षान्तम् अप्रतिकूलं श्मशाने निर्हृत्योत्सङ्गे कृत्वा करुणकरुणं विलपन्* कथयति: हा पुत्रक हा एकपुत्रकेति । ज्ञातयः सुबह्व् अपि शोकविनोदनं कुर्वणा न शक्नुवन्त्य् उत्थापयितुम्* । स काककुररश्वशृगालगृध्रपरिवृतः प्रकीर्णकेशीभिः स्त्रीभिर् अनुगतो महाजनकायेन चोद्वीक्ष्यमाणस् तिष्ठति । ततो ऽस्य पुत्रो देवभूतः पितरं परिदेवमानं दृष्ट्वा कारुण्याद् आकम्पितहृदयः पितुः शोकविनोदनार्थम् ऋषिवेषधारिणम् आत्मानम् अभिनिर्माय श्मशानसमीपे पञ्चतपावस्थितः । अथ स ब्राह्मणस् तम् ऋषिं पप्रच्छ: भो महर्षे अनेन तपसा किं प्रार्थयस इति । ऋषिर् आह: राज्यं प्रार्थये, सौवर्णश् च मे रथः स्यान् नानारत्नविचित्रः, सूर्याचन्द्रमसौ रथचक्रे स्याताम्*, चत्वारश् च लोकपालाः पुरस्तान् नमेयुः । सो ऽहं तं रथम् अभिरुह्येमां महापृथिवीम् अन्वाहिण्डेयेति । ब्राह्मणः कथयति:
यदि वर्षशतं पूर्णं तपिष्यसि निरन्तरम्* ।
न लप्स्यसे ऽपि तत् स्थानं परमतपसापि हि

52.6

इति ॥
ऋषिः कथयति: त्वं च पुनर् अनेन मृतकुणपेनाशुचिना परमदुर्गन्धेन शवेन काष्ठभूतेन किं प्रार्थयस इति । ब्राह्मणः प्राह: प्रियो मे एकपुत्रकः कालगतः, तं प्रार्थय इति । ऋषिर् आह:
-------------------- वैद्य, प्. 133 --------------------
यदि वर्षशतं पूर्णं रोदिष्यसि निरन्तरम्* ।
न लप्स्यसे ऽपि तं पुत्रं रुदितेन हि किं तव

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc