अवदानशतक · अध्याय 51
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । तस्यां च राजधान्याम् अन्यतमेन गृहपतिना विहारः कारितो यत्र नानादिग्देशवासिनो भिक्षव आगन्तव्यं गन्तव्यं वस्तव्यं च मन्यन्ते । तस्मिंश् च विहारे पृथग्जनो भिक्षुर् नैवासिकः । स चातीवातिवामत्सरी (स्पेयेर्: चातीवावासमत्सरी) । आगन्तुकान् भिक्षून् दृष्ट्वा ऽभिषज्यते कुप्यति व्यापद्यते मद्गुः प्रतितिष्ठति कोपं संजनयति । ये तु तस्माद् विहाराद् भिक्षवः प्रक्रामन्ति, तान् दृष्ट्वा प्रीतिप्रामोद्यबहलः प्रत्युद्गम्याभाषते च । यावद् अपरेण समयेन जनपदाद् अर्हद्भिक्षुर् आगतः । स च विहारस्वाम्य् अनागामी । तेनासाव् ईर्यापथेन संलक्षितो ऽर्हन्न् इति । ततः प्रसादजातेन श्वो भक्तेन जेन्ताकस्नात्रेण चोपनिमन्त्रितः सार्धं भिक्षुसंघेन । स चावासिको भिक्षुस् तत्र नासीत्* । यावद् द्वितीये दिवसे जेन्ताकस्नात्रे प्रतिपादिते भक्ते सज्जीकृते आवासिको भिक्षुर् आगतः । सो ऽपि जेन्ताकस्नात्रं प्रविष्टः । पश्यति विहारस्वामिनम् एकशाटकनिवसितम् आगन्तुकस्य भिक्षोः परिकर्म कुर्वाणम्* । ततो ऽस्य मात्सर्यम् उत्पन्नम्* । तेन प्रदुष्टचित्तेन खरं
-------------------- वैद्य, प्. 127 --------------------
वाक्कर्म निश्चारितम्*: वरं खलु ते भिक्षो अमेध्येन शरीरम् उपलिप्तम्*, न तु एवंविधस्य दानपतेः सकाशाद् उपस्थानं स्वीकृतम् इति । ततस् तेनार्हता तूष्णीभावेनाधिवासितम्*: मा हैवायं तपस्वी गाढतरस्य कर्मणो भागी भविष्यतीति । यावत् सामग्रीदेशकाले संप्राप्ते नैवासिकेन भिक्षुणा श्रुतम्*: अर्हतो ऽन्तिके त्वया चित्तं प्रदूषितम् इति । श्रुत्वा चास्य विप्रतिसारो जातः । ततो ऽर्हतो भिक्षोः पादयोर् निपत्याह: क्षमस्व आर्य यन् मया त्वयि परुषा वाग् निश्चारितेति । ततो ऽर्हंस् तस्य प्रसादाभिवृद्ध्यर्थं गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततो ऽस्य भूयसा विप्रतिसारः समुत्पन्नः । तेन तस्य पुरस्तात् तत् कर्म अत्ययेनादेशितं प्रकाशितम् उत्तानीकृतम्*, च न चानेन शकितं नैष्ठिकं ज्ञानम् उत्पादयितुम्* । यावन् मरणकालसमये प्रणिधिं कर्तुम् आरब्धः: यन् मयार्हतो ऽन्तिके चित्तं प्रदूषितम्*, खरं च वाक्कर्म निश्चरितम्*, मा अस्य कर्मणो विपाकं प्रतिसंवेदयेयम्* । यत् तु मया पठितं स्वाध्यायितं दानप्रदानानि दत्तानि संघस्य चोपस्थानाम् कृतम्*, तस्य कर्मणो विपाकेन अनागतान् सम्यक्संबुद्धान् आरागयेयं मा विरागयेयम् इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेनावासिको भिक्षुः, अयम् एवासौ जाम्बालः । यद् अनेनार्हतो ऽन्तिके खरं वाक्कर्म निश्चारितम्*, अस्य कर्मणो विपाकेनानन्तं संसारे दुःखम् अनुभूतम्* । तेनैव च कर्मावशेषेण एतर्हि पश्चिमे भवे एवं दुर्गन्धः परमदुर्गन्धो ऽमेध्यावस्करस्थाननिवासाभिप्रायः संवृत्तः । यत् पुनर् अनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यन् मात्सर्यप्रहाणाय व्यायन्तव्यम् * । तत् कस्य हेतोः? एते दोषा न भविष्यन्ति, ये जाम्बालस्य पृथग्जनभूतस्य । एष एव गुणगणो भविष्यति, यो ऽसौ तस्यैवार्हत्वप्राप्तस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 128 --------------------
षष्ठो वर्गः ।
तस्योद्दानम्*:
कृष्णसर्पश् च चन्द्रश् च सालः श्रीमतिर् एव च ।
वस्त्रं शुकश् च दूतश् च महिषः पोषधश् च वै ।
x x x x x हंसो भवति पश्चिमः ॥
अव्श्_51 कृष्णसर्पः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे नगरद्वारे ऽन्यतरो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च मत्सरी कुटुकुञ्चक आगृहीतपरिष्कारः काकायापि बलिं न प्रदातुं व्यवस्यति । स श्रमणब्राह्मणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । स्वके चोद्याने महान् हिरण्यसुवर्णस्य राशिः स्थापितः । स तत्र गृद्धो ऽध्यवसितः कालगतः ॥
स कालं कृत्वा तस्यैवोपरि आशीविष उतपन्नो महान् कृष्णसर्पो दृष्टिविषः । अथ ये तद् उद्यानं जनकायाः प्रविशन्ति, तान् प्रेक्षितमात्रेण जीविताद् व्यपरोपयति । एष च शब्दो राजगृहे नगरे समन्ततो विसृतः: ये अमुकम् उद्यानं प्रविशन्ति, सर्वे ते निधनम् उपयान्तीति । जनकायेन च राज्ञे बिम्बिसाराय निवेदितम्* ॥
अथ राज्ञो बिम्बिसारस्यैतद् अभवत्*: कस् तं शक्यति विनेतुम् अन्यत्र बुद्धाद् भगवत इति । अथ राजा बिम्बिसारो महाजनकायपरिवृतो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णं राजानं बिम्बिसारं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* । अथ राजा बिम्बिसार उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्*: इह भगवन् राजगृहे नगरे ऽमुष्मिन्न् उद्याने महानाशीविषः कृष्णसर्पो दृष्टिविषः प्रतिवसति, महाजनविप्रघातं करोति । साधु भगवांस् तम् विनयेद् अनुकम्पाम् उपादायेति । अधिवासयति भगवान् राज्ञो बिम्बिसारस्य तूष्णीभावेन । अथ राजा बिम्बिसारो भगवतस् तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥
अथ भगवांस् तस्या एव रात्रेर् अत्ययात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय येन तद् उद्यानं तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टाः,
-------------------- वैद्य, प्. 129 --------------------
यैस् तद् उद्यानं सर्वम् अवभासितम्* । कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* । अथ स आशीविष इतश् चामुतश् च प्रेक्षितुम् आरब्धः: कस्य प्रभावान् मम शरीरं प्रह्लादितम् इति । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चितं प्रसादितं* । प्रस्सन्नचित्तस्य च भगवता तन् मय्या गत्यास् तन् मय्या योन्या धर्मो देशितः: भद्रमुख त्वयैवैतद् द्रव्यम् उपार्जितम्* । येन त्वम् आशीविषगतिम् उपपादितः । साधु ममान्तिके चित्तं प्रसाद्य, अस्माच् च निधानाच् चित्तं विरागय । मा हैव इतः कालं कृत्वा नरकेषूपपत्स्यस इति । यदास्य भगवता जातिः स्मारिता, तदा रोदितुं प्रवृत्तः । अथ भगवांस् तस्यां वेलायां गाथे भाषते:
इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते ।
अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्*
साधु प्रसाद्यतां चित्तं महाकारुणिके जिने ।
तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि
इति ॥
यावद् भगवता पात्रे प्रक्षिप्य वेणुवनं नीतः । अत्रान्तरे राज्ञा मागधेन जनकायेन च श्रुतं यथासाव् आशीविषो भगवता विनीत इति ॥
अथासाव् आशीविषः स्वाश्रयं जुगुप्समानो ऽनाहारता प्रतिपन्नः । भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ।
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । पश्यति: आशीविषेभ्यश् च्युतः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तं प्रसाद्येति ॥ अथाशीविषपूर्वकस्य देवपुत्रस्यैतद् अभवत्: न मम प्रतिरूपं स्यात्*, यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन् नु अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथाशीविषपूर्वको देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवासम् उदारेणावभासेनावभासयन् भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् आशीविषपूर्विकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा आशीविषपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
-------------------- वैद्य, प्. 130 --------------------
तवानुभावात् पिहितः सुघोरो
ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या
निर्वाणमार्गश् च मयोपलब्धः
त्वदाश्रयाच् चाप्तम् अपेतदोषं
मयाद्य शुद्धं सुविशुद्धचक्षुः ।
प्राप्तं च शान्तं पदम् आर्यकान्तं
तीर्णश् च दुःखार्णवपारम् अस्मि
नरवरेन्द्र नरामरपूजित
विगतजन्मजरामरणामयं ।
भवसहस्रसुदुर्लभदर्शन
सफलम् अद्य मुने तव दर्शनम्*
इति
अवनम्य ततः प्रलम्बहारः
चरणौ द्वाव् अभिवन्द्य जातहर्षः ।
परिगम्य च दक्षिणं जितारीं
सुरलोकाभिमुखो दिवं जगाम
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0