भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 50

50.1

इति
भगवान् आह: पापकारी नालद सा प्रेती । इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि नालद शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं नालद अतीते ऽध्वनि वाराणस्यां नगर्याम् ऽन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो नैव पुत्रो न दुहिता । स करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* । न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते स्म । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणां स्थानानाम्*? मातापितराउ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । तस्य देवताराधने ऽपि सति न पुत्रो न दुहिता ॥
तस्यैवं बुद्धिर् उत्पन्ना: द्वितीयां भार्याम् अनयामि । कदाचित् सा सत्ववती स्याद् इति । तेन सदृशात् कुलाद् द्वितीया भार्या आनीता । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण सा आपन्नसत्वा संवृत्ता । तया हृष्टतुष्टप्रमुदितया स्वामिने निवेदितम्: दिष्ट्या आर्य्पुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदनयति: अप्य् एवाहं चिरकालाभिलषितं
-------------------- वैद्य, प्. 123 --------------------
पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यते: इदं तयोर् यत्रयत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविराजितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय ॥
ततस् तस्याः पूर्विकायाः प्रजापत्याः प्रथमपत्न्यास् तां बहुमानाल् लालितां (स्पेयेर्: लडितं) दृष्ट्वा ईर्ष्या समुत्पन्ना । चिन्तयन्ति: यद्य् एषा पुत्रं जनयिष्यति, नियतं मां बाधयिष्यति । सर्वथोपायसंविधानं कर्तव्यम् इति । कामान् खलु प्रतिसेव्यमानस्य (स्पेयेर्: प्रतिसेवमानस्य) नास्ति किंचित् पापं कर्माचरणीयम् इति । तया अनिष्टगतिप्रपातनमुग्धया विस्रम्भम् उत्पाद्य तथाविधं गर्भशातनं द्रव्यं दत्तं येन पीतमात्रेणैव तस्यास् तपस्विन्याः स्रस्तो गर्भः । ततस् तया द्वितीयपत्न्या सर्वज्ञातीन् संनिपात्य सा प्रथमा पत्नी समनुयुज्यते: त्वया मे विस्रम्भम् उत्पाद्य शातनं द्रव्यं दत्तम्*, येन मे स्रस्तो गर्भ इति । ततो ऽसौ प्रथमपत्नी ज्ञातिमध्ये शपथं कर्तुं प्रवृत्ता: यदि मया गर्भशातनं द्रव्यम् अनुप्रदत्तं स्यात्*, अहं प्रेती भूत्वा जाताञ् जातान् पुत्रान् भक्षयेयम् इति ॥
किं मन्यसे नालद यासौ श्रेष्ठिभार्या, इयं सा प्रेती । यत् तया ईर्ष्याप्रकृतया गर्भशातनं दत्तं तेन प्रेतेषूपपन्ना । यत् तया मृषावादेन शपथः कृतः, तस्य कर्मणो विपाकेन रात्रिंदिवेन पञ्च पुत्रान् प्रसूय तान् एव भक्षयति । तस्मात् तर्हि ते नालद वाग्दुश्चरितप्रहाणाय व्यायन्तव्यं यथा एवंविधा दोषा न स्युर् ये तस्याः प्रेत्याः । इत्य् एवं ते नालद शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् नालदो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_50 जाम्बालः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशालीम् उपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्* । तेन खलु समयेन वैशाल्याम् अन्यतरस्यां नगरपरिखायां पञ्च प्रेतशतानि प्रतिवसन्ति वान्ताशान्य् उज्झिताशानि खेटमूत्रोपजीवीनि पूयशोणितविष्ठाहाराणि घोराणि प्रकृतिदुःखितानि च । आह च:
-------------------- वैद्य, प्. 124 --------------------
वान्ताशा उज्झिताशाश् च खेटमूत्रोपजीवितः ।
पूयशोणितविष्ठाशा घोराः प्रकृतिदुःखिताः

50.2

इति ॥
तस्यां च वैशाल्याम् अन्यतरो ब्राह्मणः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । दौर्गन्धं चास्याः काये संवृत्तम्* । ततस् तेन ब्राह्मणेन नैमित्तिका आहूय पृष्टाः । ते कथयन्ति: यो ऽयम् उदरस्थो दारकस् तस्यायं प्रभाव इति । यावद् असौ नवानां मासानाम् अत्ययात् प्रसूता । दारको जातो दुर्वर्णो दुर्दर्शनो अवकोटिमको ऽमेध्यम्रक्षितगात्रो दुर्गन्धश् च । तथाप्य् असौ स्नेहपाशानुबद्धाभ्यां परमबीभत्सो ऽपि मातृपितृभ्यां संवर्धितः । सो ऽमेध्यस्थानेष्व् एवाभिरमते संकारकूटे जम्बाले, केशांल् लुञ्चति, अमेध्यं मुखे प्रक्षिपति । तस्य बालो जाम्बाल इति संज्ञा संवृत्ता ॥
यावद् असाव् इतश् चामुतश् च परिभ्रमन् पूरणेन काश्यपेन दृष्टः । तस्यैतद् अभवत्: यादृशेषु स्थानेष्व् अयम् अभिरमते, नूनम् अयं सिद्धपुरुषः । यन्व् अहम् एनं प्रव्राजयेयम् इति । स तेन प्रव्राजितो नग्नः पर्यटति सत्क्रियासु च वर्तते । ततस् तेन पर्यटता वैशालीपरिखायां पञ्च प्रेतशतानि दृष्टानि । स पूर्वकर्मविपाकसंबन्धात् तां नगरपरिखाम् अवतीर्य तैः सार्धं संगम्य समागम्य संमोदते, सखित्वं चाभ्युपगतः । यावद् अपरेण समयेन जाम्बालो दारकः क्वचित् प्रयोजनेन व्याक्षिप्तो वैशालीं प्रविष्टः । भगवांश् च तां नगरपरिखाम् अनुप्राप्तः । ददृशुस् ते प्रेता बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य भगवतः पादयोर् निपतिताः । भगवता उक्ताः: किं भवतां बाधत इति । ते ऊचुः: पिपासिताः स्मो भगवन्न् इति । ततो भगवता पञ्चभ्यो ऽङ्गुलिभ्यो ऽष्टाङ्गोपेतस्य पानीयस्य पञ्च धारा उत्सृष्टाः, येन तानि पञ्च प्रेतशतानि संतर्पितानि । ततस् ते भगवतो ऽन्तिके चित्तं प्रसाद्य कालगताः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । ते पश्यन्ति प्रेतेभ्यश् च्युताः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति ॥ अथ प्रेतपूर्विणां देवपुत्राणाम् एतद् अभवत्: नास्माकं प्रतिरूपं स्यात्, यद् वयं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेम । यन् नु वयम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेमेति । अथ प्रेतपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वां कूटागारशालां उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् प्रेतपूर्विणां देवपुत्राणाम् आशयानुशयं
-------------------- वैद्य, प्. 125 --------------------
धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा पञ्चभिर् देवपुत्रशतैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् अनुप्राप्तम्* । स दृष्टसत्या लब्धलाभा इव वणिजः, संपन्नसस्या इव कर्षकाः, शूरा इव विजितसंग्रामाः, सर्वरोगपरिमुक्ता इवातुरा यया विभूत्या भगवत्सकाशम् आगतास् तयैव विभूत्या भगवन्तं त्रिः प्रदक्षिणीकृत्य स्वभवनं गताः ॥
अथ जाम्बालो नगरपरिखाम् आगतस् तान् प्रेतान् नाद्राक्षीत्* । ततः समन्वेषितुम् आरब्धः । स च तान् परिमार्गमाणः खेदम् आपन्नो न च तान् आसादयति ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्

50.3

ततो भगवाञ् जाम्बालस्य कुलपुत्रस्यानुग्रहार्थं पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वैशालीं पिण्डाय प्राविक्षत्* । यावद् अनुपूर्वेण पिण्डपातम् अटन् वीथीम् अवतीर्णः । जाम्बालश् च इतस् ततो ऽन्वाहिण्डमानो भगवतो ऽग्रतः स्थितः । अथ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चितं प्रसादितं* । स प्रसादजातो भगवतः पादयोर् निपत्य कृतकरपुट उवाच: यदि भगवन् मादृशानां सत्वानाम् अस्मिन् धर्मविनये प्रव्रज्यास्ति; लभेयं स्वाख्याते धर्मविनये प्रव्रज्याम् इति । ततो भगवान् महाकरुणापरिगतहृदयः सत्वानाम् आशयानुशयज्ञस् तं भव्यरूपं विदित्वा रजभुजसदृशं सुवर्णवर्णबाहुम् अभिप्रसार्येदम् अवोचत्*: एहि भिक्षोर् चर ब्रह्मचर्यम्* । इत्य् उक्तमात्रे भगवता सप्ताहावरोपितैर् इव केशैर् द्वादशवर्षोपसंपन्नस्येव भिक्षोर् ईर्यापथेन पात्रकरकव्यग्रहस्तो ऽवस्थितः । आह च:
-------------------- वैद्य, प्. 126 --------------------
एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः ।
सद्यः प्रशान्तेन्द्रिय एव तस्थाव् एवं स्थितो बुद्धमनोरथेन

50.4

ततो ऽस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽपि लूहेनाभिरमते । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां लूहाधिमुक्तानाम्*, यदुत जाम्बालो भिक्षुर् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त जाम्बालेन स्थविरेण कर्म कृतं येनैवंविधं दुःखम् अनुभवतीति । भगवान् आह: जाम्बलेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । जाम्बालेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc