अवदानशतक · अध्याय 49
इति ॥
ततः स प्रेतो भगवति चित्तं प्रसाद्य कालगतः प्रेतमर्द्धिकेषूपपन्नः । ततः प्रेतमहर्द्धिकश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रमौलिः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्
-------------------- वैद्य, प्. 121 --------------------
तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । भगवता तथाविधा धर्मदेशना कृता, यां श्रुत्वा प्रसादजातः प्रक्रान्तः ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः, यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन् अस्याम् रात्रौ ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि स प्रेतः कालं कृत्वा प्रेतमहर्द्धिकेषूपपन्नः । स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः । स प्रसादजातः प्रक्रान्तः । तस्मात् तर्हि भिक्षवो मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति, ये तस्य श्रेष्ठिनः प्रेतभूतस्य । इत्य् एवं भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_49 पुत्राः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । अथायुष्मान् नालदः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां प्रक्रान्तः ॥
स गृध्रकूटपर्वतसामन्तके प्रेतीं ददर्श यमराक्षससदृशीं रुधिरबिन्दुचिताम् अस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितम्* । रात्रिंदिवेन पञ्च पुत्रान् प्रसूय तादृशं दुःखम् अनुभूय पुत्रस्नेहे सत्य् अपि क्षुत्क्षामतया पुत्रांस् तान् भक्षयन्तीम्* । ततः स्थविरो नालदस् तां पृष्टवान्: किं त्वया प्रकृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं परिपृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् कर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् नालदो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं
-------------------- वैद्य, प्. 122 --------------------
शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं नालदम् इदम् अवोचत्*: एहि नालद, स्वागतं ते, कुतस् त्वं नालद एतर्ह्य् आगच्छसीति । नालद आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं यमराक्षससदृशीं रुधिरबिन्दुचिताम् अस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितम्* । आह च:
पञ्च पुत्रान् अहं रात्रौ दिवा पञ्च तथापरान्* ।
भक्षयामि जनित्वा तान् नास्ति तृप्तस् तथापि मे
इति
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* ।
येन एवंविधं दुःखम् अनुभवति भयानकम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0