भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 46

46.1

इति ॥
-------------------- वैद्य, प्. 115 --------------------
यावद् भगवता तद् अधिष्ठाना तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैर् प्राणिशतसहस्रैर् मात्सर्यमलं प्रहाय सत्यदर्शनं कृतम्* । ते च प्रेता भगवति चित्तम् अभिप्रसाद्य कालगताः, प्रणीतेषु त्रायस्त्रिंशेषूपपन्नाः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । पश्यन्ति प्रेतेभ्यश् च्युताः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति । अथ प्रेतपूर्विणां देवपुत्राणाम् एतद् अभवत्: नास्माकं प्रतिरूपं स्यात्, यद् वयं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेम । यन् नु वयम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेमेति । अथ प्रेतपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मपुण्डरीकमन्दारवादीनां पुष्पाणाम् उत्सङ्गं पूरयित्वा समन्ततो वेनुवं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् आकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् प्रेतपूर्विणां देवपुत्राणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं धर्मदेशनां कृतवान्, यां श्रुत्वा प्रेतपूर्विकैर् देवपुत्रैर् महान् विशेषो ऽधिगतः । ते लब्धलाभा इव वणिजो भगवन्तं त्रिः प्रदक्षिणीकृत्य तत्रैवान्तर्हिताः ॥
तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते । साधु साधु महामौद्गल्यायन । सफलं ते वैयावृत्यं संवृत्तम्* । यत् ते # # # प्रेता देवेषु प्रतिष्ठापिताः । ते ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्ताः । तेषां मया धर्मो देशितः । ते लब्धोदया लब्धलाभाः प्रक्रान्ता इति ॥
तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातीनाम् आरोचितम्* । ते श्रुत्वा परं विस्मयम् उपगता भगवतो ऽन्तिके चित्तं प्रसादयामासुर् भूयश् च सत्कारं प्रचक्रुर् इति । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भवन्ति ये तेषां प्रेतानाम् इति ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_46 उत्तरः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति
-------------------- वैद्य, प्. 116 --------------------
रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् उत्तरे नक्षत्रे जातस् तस्माद् भवतूत्तर इति नाम । उत्तरो दारको उन्नीतो वर्धितो महान् संवृतः । पिता चास्य कालगतः । उत्तरश् च गृहे स्वामी संवृत्तः । तेनापणः स्थापितः । क्रीणाति विक्रीणीते क्रयविक्रयेण जीविकां कल्पयति । स दिवसानुदिवसं भगवत्सकाशम् उपसंक्रामति । तस्य भगवत्संदर्शनात् सद्धर्मश्रवणाच् च भगवच्छासने प्रसादो जातः । तस्य प्रव्रज्याचित्तम् उत्पन्नम्* । स मातरं विज्ञापयामास: अम्ब अनुजानीहि मां भगवच्छासनेषु प्रव्रजिष्यामीति । ततो माता कथयति: पुत्र त्वम् एकपुत्रकः । यावद् अहं जीवामि, तावन् न प्रव्रजितव्यम्* । मृतायां मयि यथाकरणीयं करिष्यसीति । स चोत्तरो यत् किंचिद् उपार्जयति तत् सर्वं मात्रे ऽनुप्रयच्छति: अनेन अम्ब श्रमणब्राह्मणकृपणवनीपकान् प्रतिपादयस्वेति । सा चास्य माता लुब्धा कुटुकुञ्चिका मत्सरिणी आगृहीतपरिष्कारा तान् कार्षापणान् गोपयित्वा ये श्रमणब्राह्मणाः पिण्डार्थिनस् तद् गृहं प्रविशन्ति, तान् परिभाषते: प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्षम् अटथेति । सा च पुत्रं विसंवादयति: अहम् अद्य इयतां भिक्षूणां भोजनं प्रयच्छामीति ॥
यावद् असौ कालं कृत्वा प्रेतेषूपपन्ना । उत्तरश् च मातृवियोगाद् दानानि दत्वा पुण्यानि कृत्वा भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
स गङ्गातीरे पर्णकुटिं कृत्वा ध्यायति । सा चास्य माता प्रेतलोकोपपन्ना नग्ना दग्धस्थूणासदृशी स्वकेशरोमसंछन्ना सूचीछिद्रोपममुखी पर्वतोपमकुक्षिर् आदीप्ता संप्रज्वलिता एकज्वालीभूता आर्तस्वरं क्रदन्ती आयुष्मन्तम् उत्तरम् उपसंक्रान्ता । यावद् आयुष्मता उत्तरेण सा प्रेती दृष्ट्वा पृष्टा च: का त्वम् एवंविधेति । प्रेती आह:
अहं ते जननी स्निग्धा यया जातो ऽसि पुत्रक ।
अन्नपानवियुक्तेषु प्रेतेषु समुपागता

46.2

पञ्चविंशति वर्षाणि यतः कालगता ह्य् अहम्* ।
नाभिजानामि पानीयं कुतो भक्तस्य दर्शनम्*

46.3

सफलान् वृक्षान् गच्छामि निष्फला मे भवन्ति ते ।
पूर्णानि सरांसि गच्छामि तानि शुष्काणि सन्ति मे

46.4

-------------------- वैद्य, प्. 117 --------------------
सुखं भदन्तस्य हि वृक्षमूलं उदकं भजते शीतल भाजनेस्मिम्* ।
कृपा जनयित्वा {जनेत्वा} कृपणायै मह्यं ददस्व तोयं तृषार्तितायै

46.5

तत उत्तरो मातरम् उवाच: अम्ब ननु पुरा त्वं मया मनुष्यभूता दानानि दापिता, पुण्यानि कारितेति । प्रेती आह: न मया पुत्रक मात्सर्याभिभूतया दानानि दत्तानि, पुण्यानि वा कृतानि । सर्वं तदर्थजातं पापचित्तया अग्निखदायां निखातम्* । तद् इदानीं पुत्रक ज्ञातिगृहं गत्वा छन्दनभिक्षं कृत्वा मम नाम्ना बुद्धप्रमुखं भिक्षुसंघं भोजय, दक्षिणाम् आदेशय, देशनां च कारय । एवं प्रेतयोनेर् मम मोक्षः स्याद् इति । उत्तर आह: एवम् अस्तु अम्ब । किं तु त्वया बुद्धान्ते स्थातव्यम् इति । प्रेती आह: पुत्रका, अपत्रपे नग्ना ह्रियान्वितेति । उत्तर आह: अम्ब यदा पापं करोषि, तदा नापत्रपिता । इदानीं किमर्थं फलकाले व्यपत्रपस इति । प्रेती आह: एवं भवतु, आगमिष्यामीति ॥
तत उत्तरेण ज्ञातिगृहेभ्यश् छन्दनभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसंघः श्वो भक्तेनोपनिमन्त्रितः । गण्डीकाले च बुद्धप्रमुखो भिक्षुसंघः सम्निपतितः । सा च प्रेती बुधान्ते स्थिता । प्रेतीदिदृक्षुकान्य् अनेकानि प्राणिशतसहस्राणि संनिपतितानि । ते तां प्रेतीं विकृताश्रयां दृष्ट्वा परं संवेगम् उपगताः भगवतो ऽन्तिके चित्तं प्रसादयामासुः । ततः आयुष्मान् उत्तरो बुद्धप्रमुखं भिक्षुसंघं प्रणीतेनाहारेण संतर्प्य प्रेत्या नाम्ना दक्षिणादेशनां कारयामास । भगवांश् च पञ्चाङ्गोपेतेन स्वरेण स्वयम् एव दक्षिणादेशनाम् आदिशति:
इतो दानाद् धि यत् पुन्यं तत् प्रेतीम् अनुगच्छतु ।
उत्तिष्ठतां क्षिप्रम् इयं प्रेतलोकात् सुदारुणात्

46.6

इति ॥
यावद् भगवता तद् अधिष्ठानं तस्याः प्रेत्या महतश् च जनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकप्राणिशतसहस्रैर् सत्यदर्शनं कृतम्* । सा च प्रसन्नचित्ता कालगता प्रेतमहर्द्धिकेषूपपन्ना ॥ आयुष्मतोत्तरेण समन्वाहृता प्रेतमहर्द्धिकेषूपपन्ना । तत आयुष्मता उत्तरेणोक्तम्*: अम्ब अस्ति ते शक्तिः । क्रियतां दानोत्सर्ग इति । प्रेतमहर्द्धिकोवाच: पुत्र न शक्यामि । नास्ति मे दाने ऽभिलाष इति । तत आयुष्मान् उत्तरः प्रेतमहर्द्धिकाम् उवाच:
अद्यापि ते तिष्ठति तच् छरीरं विवृद्धनिर्मांसत्वगस्थिचर्मम्* ।
लोभान्धकारावृतलोचनाया निवर्तितं यत् त्वया प्रेतलोके

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc