भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 47

47.1

इति ॥
यावद् आयुष्मता उत्तरेण सुबहु परिभाष्य एका यमली लब्धा । ततः सा संघाय दत्ता । येन च भिक्षुणा संघमध्यात् सा यमली क्रीता, तेन मानवके स्थापिता । ततस् तया प्रेत्या रात्राव् उपागत्यापहृता । ततस् तेन भिक्षुणा आयुष्मत उत्तराय निवेदितम्* । उत्तरेण गत्वा प्रेतीं परिभाष्य पुनर् अप्य् आनीय दत्ता । एवं यावत् त्रिर् अपि तस्य भिक्षोः सकाशाद् अपहृता, आयुष्मता चोत्तरेणानीय दत्ता । भिक्षुणा च सा पाटयित्वा चातुर्दिशाय भिक्षुसंघाय विलेपनिकायां
-------------------- वैद्य, प्. 118 --------------------
सीविता । ततस् तया न पुनर् अपहृता । अत एव मात्सर्यं सत्वानां विडम्बनकरं दृष्ट्वा मात्सर्यप्रहाणाय ध्यायितव्यम्* । तथा एवंविधा दोषा न स्युर् यथा तस्याः प्रेत्या इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_47 जात्यन्धा । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथायुष्मान् नन्दकः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां चरति स्म । अद्राक्षीद् आयुष्मान् नन्दकः प्रेतीं दग्धस्थूणासदृशीं जात्यन्धां स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर् गृध्रैः श्वभिः शृगालैश् चाभिद्रुताम्* । ये ऽस्याः समन्तत उत्पाट्योत्पाट्य मांसं भक्षयन्ति । सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयन्ति । आयुष्मान् नन्दकः संविग्नः पृछति: किं त्वया भगिनि प्रकृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् प्रतिविरंस्यन्तीति । अथायुष्मान् नन्दको येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं नन्दकम् इदम् अवोचत्*: एहि ननदक, स्वागतं ते, कुतस् त्वं नन्दक एतर्ह्य् आगच्छसीति । नन्दक आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर् गृध्रैः श्वभिः शृगालैश् चाभिद्रुताम्*, ये ऽस्याः समन्तत उत्पाट्योत्पाट्य मांसं भक्षयन्ति । सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । आह च:
विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचर्विताश्रया ।
स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा

47.2

-------------------- वैद्य, प्. 119 --------------------
नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता ।
कपालपाणिनी घोरा क्रन्दन्ती परिधावते

47.3

बुभुक्षया पिपासया क्लान्ता व्यसनपीडिता ।
आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्*

47.4

किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* ।
येन एवंविधं दुःखम् अनुभवति भयानकम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc