अवदानशतक · अध्याय 44
इति
भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन अतीते ऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तस्यां च वाराणस्याम् अन्यतमा गृहपतिपत्नी मत्सरिणी कुटुकुञ्चिका आगृहीतपरिष्कारा काकायापि बलिं न प्रदातुं व्यवस्यति, प्राग् एवान्येषां याचकानाम्* । सा श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । यावद् अन्यतरः पिण्डपातिकस् तस्या गृहं प्रविष्टः । तस्यास् तं दृष्ट्वा मात्सर्यम् उत्पन्नम्* । चित्तं च प्रदूष्य इमां चिन्ताम् आपेदे: यद्य् अहम् अस्य सत्कारं करिष्यामि, पुनर् अप्य् एष आगमिष्यतीति । ततस् तया पापकारिण्या अनिष्टं परलोकभयम् अविगणय्य स भिक्षुर् उपनिमन्त्र्य द्वारं बद्ध्वा भक्तच्छेदं कारितः । बहु च परिभाष्योक्तः: इयं ते भिक्षो सत्क्रिया । मा पुनर् इदं गृहं प्रवेक्ष्यसीति ॥
सा तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन प्रेतेषूपपन्ना । एवंविधानि दुःखानि प्रत्यनुभवति । तस्मात् तर्हि मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति, ते तस्याः प्रेत्या इति ॥
इदम् अवोचद् भगवान् । आत्तमनस आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगा भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_43 पानीयम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । आयुष्मान् महामौद्गल्यायनः प्रेतचारिकां चरन् प्रेतीम् अद्राक्षीद् दग्धस्थूणासदृशीं स्वकेशसंछन्नां
-------------------- वैद्य, प्. 111 --------------------
सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति, तदा तस्या उपरि सविस्फुलिङ्गाङ्गारवर्षं पतति । दृष्ट्वा ताम् आयुष्मान् महामौद्गल्यायन आह: किं त्वया कृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: पापकारिण्य् अहं भदन्त महामौद्गल्यायन । एतम् आर्थं भगवन्तं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं कथयिष्यति, यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् कर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिन एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । महामौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीम् आर्तस्वरं क्रदन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति तदा अस्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति । भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन अतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतमो भिक्षुर् अध्वानं प्रतिपन्नः । स तृषार्तः कूपम् उपसृप्तः । तत्रान्यतरा दारिका पानीयघटं पूरयित्वा स्थिताभूत्* । सा भिक्षुणोक्ता: तृषार्तो ऽहं भगिनि, पानीयम् अनुप्रयच्छेति । तस्या मात्सर्यम् उत्पन्नम्* । सा आगृहीतपरिष्कारा भिक्षुम् उवाच: भिक्षो यदि म्रियसे, न ते ददामि पानीयम्*, घटो मे ऊनो भविष्यतीति । ततो ऽसौ भिक्षुस् तृषार्तो निराशः प्रक्रान्तः । ततो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना । एवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयते । तस्मात् तर्हि मौद्गल्यायन एवं शिक्षितव्यं यन् मात्सर्यप्रहाणाय व्यायंस्यामहे । इत्य् एवं ते मौद्गल्यायन शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 112 --------------------
अव्श्_44 वर्चघटः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । अथायुष्मान् महामौद्गल्यायनः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य येन गृध्रकूटः पर्वतस् तेनोपसंक्रान्तः । उपसंक्रम्य गृध्रकूटं पर्वतम् अवगाह्यान्यतरद् वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय । अथायुष्मान् महामौद्गल्यायनः प्रेतीम् आद्रक्षीद् दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीम् आर्तस्वरं क्रदन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दुर्गन्धां परमदुर्गन्धां वर्चःसदृशीं वर्चोहारां तद् अपि कृच्छ्रेणासादयन्तीम्* । दृष्ट्वा च पुनर् आयुष्मान् महामौद्गल्यायनः संविग्नः । प्रेतीं च पप्रच्छ:
किं त्वया प्रकृतं पापं यस्य ते ईदृशं फलम् इति ।
प्रेती आह: पापकारिण्य् <म्स्: प्रागपकारिण्य्> अहं भदन्त महामौद्गल्यायन । एतम् आर्थं बुद्धं भगवन्तं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यति (स्पेयेर्: श्ष्यतीति) । यां श्रुत्वान्ये ऽपि सत्वाः पापकर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् {मधुर}मधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूताम् आर्तस्वरं क्रन्दन्तीं दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति, तदा तस्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति, दुर्गन्धां परमदुर्गन्धां वर्चःसदृशां च वर्चाहारां तद् अपि कृच्छ्रेणासादयन्तीम्* । आह च:
{नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता ।}
आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्*
-------------------- वैद्य, प्. 113 --------------------
येन हि वर्चधानानि तेन धावति दुःखिता ।
वर्चः पास्यामि भोक्ष्ये च तच् च दुःखेन लभ्यते
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* ।
येन एवंविधं दुःखम् अनुभवति भयानकम्*
भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन वाराणस्यां नगर्याम् अन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पी प्रान्तशयनासनसेवी च । स व्याधितो वाराणसीं पिण्डाय प्राविशति । यावद् अस्य वैद्येन सांप्रेयं भोजनम् उपदिष्टम्* । स येनान्यतमस्य श्रेष्ठिनो निवेशनं तेनोपसंक्रान्तः । तेन च श्रेष्ठिना दृष्टः पृष्टश् च: केन ते आर्य प्रयोजनम् इति । तेनोक्तं कुलसांप्रेयेण भोजनेनेति । ततः श्रेष्ठिना वध्वा आज्ञा दत्ता: आर्याय सांप्रेयं भोजनं दातव्यम् इति । अथ तस्या वध्वा मात्सर्यम् उत्पन्नम्*: यद्य् अहम् अस्मै अद्य भोजनं प्रदास्यामि, श्वो भूय आगमिष्यतीति । तया एकान्तम् अपसृत्य वर्चसः पात्रं पूरयित्वा उपरि भक्तेन प्रच्छाद्य तस्मै प्रत्येकबुद्धाय दत्तम्* । असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते । तेन प्रतिगृहीतम्* । प्रतिगृह्य संलक्षितं यथैतद् दुर्गन्धम्* । नूनम् अनया अमेध्यस्य पूरितम् इति । ततो ऽसौ महात्मा तदेकान्ते छोरयित्वा प्रक्रान्तः ॥
भगवान् आह: किं मन्यसे मौद्गल्यायन यासौ तेन कालेन तेन समयेन श्रेष्ठिवधुका, इयं सा प्रेती । यद् उपादायानया तादृक्पापं कृतम्* । ततः प्रभृति नित्यं नरकतिर्यक्प्रेतेषूपपद्यते, नित्यं च वर्चाहारा । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यं यथा एते दोषा न स्युर् ये तस्याः प्रेत्या । एवं मौद्गल्यायन शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_45 मौद्गल्यायनः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । तेन खलु पुनः समयेन अन्तरा च राजगृहम् अन्तरा च वेणुवनम् अत्रान्तरे पञ्च प्रेतशतानि दग्धस्थूणाकृतीनि नग्नानि स्वकेशसंछन्नानि पर्वतोपमकुक्षीणि सूचीछिद्रोपममुखानि आदीप्तानि प्रदीप्तानि संप्रज्वलितान्य् एकज्वालीभूतान्य् आर्तस्वरं प्रलपमानानि दुःखां तीव्रां खरां कटुकाम्
-------------------- वैद्य, प्. 114 --------------------
अमनापां वेदनां वेदयमानानि वायुमण्डलवदाकाशे परिभ्रमन्ति, न क्वचित् प्रतिष्ठां लभन्ते । अथायुष्मान् महमौद्गल्यायनः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । तेन ते प्रेता दृष्टाः, तैर् अपि प्रेतैर् आयुष्मान् महामौद्गल्यायनः । ततस् ते एकसमूहेनायुष्मन्तं महामौद्गल्यायनम् उपसंक्रान्ताः । उपसंक्रम्य करुणदीनविलम्बितैर् अक्षरैर् एकरवेणोचुः: वयं स्मो भदन्त महामौद्गल्यायन राजगृहे पञ्च श्रेष्ठिशतान्य् अभूवन्* । ते वयं मत्सरिणः कुटुकुञ्जका आगृहीतपरिष्काराः । स्वयं तावद् अस्माभिर् दानप्रदानानि न दत्तानि, परेषाम् अपि दानप्रदानेषु दीयमानेषु विघ्नाः कृताः, दक्षिणीयाश् च बहवः प्रेतवादेन परिभाषिताः: प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्ष्यम् अटथ (स्पेयेर्: अठथ) । एते वयं कालं कृत्वा एवंविधेषु प्रेतेषूपपन्नाः । इति भदन्त महामौद्गल्यायन ये ऽस्माकं ज्ञातयो राजगृहे प्रतिवसन्ति, तेषाम् अस्माकीनां कर्मप्लोतिं निवेद्य छन्दकभिक्षणं कृत्वा बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा अस्माकं नाम्ना दक्षिणादेशनां कारयित्वा चास्माकं प्रेतयोनेर् मोक्षः स्याद् इति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनः प्रेतानां तूष्णीभावेन । तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातिगृहेभ्यश् च्छन्दकभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसंघः श्वो भक्तेनोपमन्त्रितः । प्रेतानां च निवेदितम्*: श्वो भगवान् सभिक्षुसंघो भक्तेनोपनिमन्त्रितः, तत्र युष्माभिर् आगन्तव्यम् इति । ज्ञातीनाम् अप्य् आरोचितम्*: भवद्भिर् आगन्तव्यं तत्र ज्ञातिभोजने । तान् प्रेतान् द्रक्ष्यामः । अथायुष्मान् महामौद्गल्यायनः स्वयम् एवोद्युक्तो भोजनं प्रतिजागरितुम्* ॥
अथ प्रभातायां रजन्याम् आहारे सज्जीकृते गण्डीदेशकाले संप्राप्ते तान् प्रेतान् न पश्यति । तत आयुष्मान् महामौद्गल्यायनो दिव्येन चक्षुषा तान् प्रेतान् समन्वाहर्तुं प्रवृत्तः । सर्वस्मिन्न् एव मगधमण्डले नाद्राक्षीत्* । यावत् क्रमेण चातुर्द्वीपिकं व्यवलोकयितुं प्रवृत्तः । तत्रापि नाद्राक्षीत्* । ततो यावद् अस्य ज्ञानदर्शनं प्रवर्तते, ततो व्यवलोकयितुं प्रवृत्तः । तत्रापि नाद्राक्षीत्* । तत आयुष्मान् महामौद्गल्यायनः संविग्नो भगवते निवेदयामास: भगवन्, न मे दानपतयो दृश्यन्त इति । भगवान् आह: अयं मौद्गल्यायन मा खेदम् आपद्यस्व । सर्वश्रावकप्रत्येकबुद्धविषयम् अतिक्रम्य अपरिमाणा लोकधातवः सन्ति । तत्र ते कर्मवायुना क्षिप्ताः । अपि मौद्गल्यायन अद्य तथागतबलं पश्य । सर्वज्ञज्ञानदर्शनं व्यक्तीकरिष्यामि । तथागतविकुर्वितं दर्शयिष्यामि । आकोट्यतां गण्डीति । ततो गण्ड्याम् आकोटितायां सर्वो भिक्षुसंघः संनिपतितः, प्रेतज्ञातयो ऽन्ये च कौतूहल्याभ्यागताः सत्वाः प्रेतदर्शनोत्सुकाः संनिपतिताः । ततो भगवता ऋद्ध्या तथा दर्शितं यथा प्रेता बुद्धं भगवन्तं सश्रावकसंघं भुञ्जानं पश्यन्ति, स्मृतिं च प्रतिलभन्ते: ज्ञातयो अस्मद् अर्थे बुद्धप्रमुखं भिक्षुसंघं भोजयन्तीति । ततो भगवान् पञ्चाङ्गोपेतेन स्वरेण दक्षिणाम् आदिशति:
इतो दानाद् धि यत् पुण्यं तत् प्रेतान् अनुगच्छतु ।
उत्तिष्ठन्तां क्षिप्रम् एते प्रेतलोकात् सुदारुणात्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0