अवदानशतक · अध्याय 42
इति
भगवान् आह: पापकारी मौद्गल्यायन स प्रेतः । इच्छसि तस्य कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन राजगृहे नगरे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तस्य पञ्चमात्राणीक्षुशालशतानि, यत्र चेक्षुः पीड्यते । असति च बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पकी प्रान्तशयनासनसेवी । स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । स च भदन्तः क्षयव्याधिना स्पृष्टः । तस्य वैद्येनेक्षुरस उपदिष्टः । स श्रेष्ठिसकाशं यन्त्रशालाम् उपसंक्रान्तः । श्रेष्ठिना च स प्रत्येकबुद्धो दृष्टः कायप्रासादिकश् चित्तप्रासादिकश् च । दृष्ट्वा श्रेष्ठिना उक्तः: केनार्यस्य प्रयोजनम् इति । प्रत्येकबुद्धः कथयति: गृहपते इक्षुरसेनेति । ततस् तेन गृहपतिना भृतकपुरुषस्याज्ञा दत्ता आर्यस्येक्षुरसं प्रयच्छेति । स च गृहपतिः केनचिद् एव करणीयेन बहिर् यानाय संप्रस्थितः । अथ तस्य पुरुषस्य परकीये द्रव्ये मात्सर्यम् उत्पन्नम्*: यद्य् अहम् अस्य रसं दास्ये, पुनर् अप्य् एष आगमिष्यतीति । तेन अनिष्टगतित्रयप्रपातनम्रेण सर्वाभिमतगतिद्वयनिराकरिष्णुना अत्यन्तदूरापगतेनार्यधर्मेभ्यः पापं चित्तम् उत्पाद्य स प्रत्येकबुद्ध उक्तः: आहर भिक्षो पात्रम्*, देहि, रसं ते दास्यामीति । असमन्वाहृत्य अर्हच्छ्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति । हीनदीनानुकम्पितया भृत्यपुरुषो ऽयम् अस्यानुग्रहः कर्तव्य इति तत् पात्रम् उपनामितम्* । ततो ऽसौ दुराचारो निर्घृणहृदयस् तद् गृहीत्वा प्रतिगुप्तं प्रदेशं गत्वा प्रस्रावेणा पूरयित्वा उपरि इक्षुरसेनाच्छाद्य तस्मै प्रत्येकबुद्धायानुप्रददौ । तेन संलक्षितम्* स चिन्तयति: बह्व् अनेन तपस्विना पापं कृतम् अपि । स तद् एकान्ते छोरयित्वा प्रक्रान्तः ॥
-------------------- वैद्य, प्. 109 --------------------
भगवान् आह: किं मन्यसे मौद्गल्यायन यो ऽसौ तेन कालेन तेन समयेन भृतकपुरुष आसीत्ऽ, अयं स प्रेतः । तस्य कर्मणो विपाकेन संसारे ऽनन्तं दुःखम् अनुभूतवान्* । इदानीम् अपि प्रेतभूतः प्रकृष्टतरं दुःखम् अनुभवति । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यं यथा एवंविधा दोषा न स्युर् ये प्रेतस्य । इति हि मौद्गल्यायन एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि ते मौद्गल्यायन एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं ते मौद्गल्यायन शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_42 भक्तम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः {श्रावस्त्यां} विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेनायुष्मान् महामौद्गल्यायनः अन्यतरस्मिन् वृक्षमूले निषण्णो दिवाविहाराय । अश्रौषीद् आयुष्मान् महामौद्गल्यायनः प्रेत्याः शब्दम् आर्तस्वरं क्रन्दन्त्याः, दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाया भक्तं मार्गन्त्याः: बुभुक्षितास्मि मार्षाः, पिपासितास्मि मार्षा इति । ततः स्थविरमहामौद्गल्यायनेन प्रेती दृष्ट्वा पृष्टा च: किं ते पापं कृतं येनैवंविधानि दुःखान्य् अनुभविष्यसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं पृच्छ, स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं स्वकेशसंछन्नां नग्नाम् आर्तस्वरं क्रन्दन्तीं दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । आह च:
विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचर्विताश्रया । (स्पेयेर्: श्चञ्चिताश्)
स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा
-------------------- वैद्य, प्. 110 --------------------
नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता ।
कपालपाणिनी घोरा क्रन्दन्ती परिधावति
बुभुक्षया पिपासया क्रान्ता व्यसनपीडिता । *{सोन्स्त्: पिपासया क्लान्त व्यसनपीडिता}*
आर्तस्वरं क्रन्दमाना दुःखां विन्दन्ति वेदनाम्*
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* ।
येन एवंविधं दुःखम् अनुभवति भयानकम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0