भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 41

41.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ भगवतः काश्यपस्य सम्यक्संबुद्धस्य
-------------------- वैद्य, प्. 105 --------------------
भागिनेयो ऽशोको नाम्ना । स भगवत्सकाशे मोक्षार्थी प्रव्रजितः । स स्वाधीनं मोक्षं मन्यमानो न व्यायच्छते । यावद् दीर्घकालप्रकर्षेणाशोको जनपदे वर्षोषितः । भगवांश् च काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निः पश्चिमशयनोपगतः, अशोकश् च भिक्षुर् अशोकस्याधस्तात् प्रतिसंलीनो बभूव । अथ या देवता तस्मिन्न् अशोकवृक्षे व्युषिता, सा भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं श्रुत्वा रोदितुं प्रवृत्ता । तस्य रुदन्त्या अश्रुबिन्दवो ऽशोकस्य काये निपतितुं प्रवृत्ताः । अथाशोक ऊर्ध्वमुखस् तां देवतां रुदन्तीम् आह: किमर्थं देवते रुद्यत इति । देवतोवाच: अद्य रात्र्या मध्यमे यामे भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं भविष्यतीति । अथाशोको देवतावचनम् उपसृत्य मर्मविद्ध इव प्रचलितवान्* । सो ऽपि करुणकरुणं रोदितुं प्रवृत्तः । ततो देवतया पृष्टः: किमर्थं रोदिषीति । अशोक उवाच: गुरुवियोगाज् ज्ञातिवियोगाच् च । काश्यपो मे सम्यक्संबुद्धो मातुलः । सो ऽहं विस्रब्धविहारी न व्यायतवान्* । दूरे चासौ । अहं च पृथग्जनः । अपकृष्टत्वाद् अध्वनो न शक्ष्यामि विशेषम् अधिगन्तुम् इति । देवतोवाच: यदि पुनर् अहं भवन्तं भगवत्सकाशम् उपनयेयम्*, किं शक्यम् इति । अशोक उवाच: तथा हि मे बुद्धिः परिपक्वा, यथा सहदर्शनाद् एव भगवतः शक्ष्यामि विशेषम् अधिगन्तुम् इति । ततो देवतया अशोको भगवत्सकाशम् ऋद्ध्यनुभावान् नीतः । तस्य भगवद्दर्शनात् प्रसाद उत्पन्नः । प्रसादजातस्य च भगवता काश्यपेन तथाविधो धर्मो देशितः यच्छ्रवणाद् अर्हत्वं साक्षात्कृतम्* । प्रथमतरं चायुष्मान् अशोकः परिनिर्वृतः, ततो भगवान् काश्यपः सम्यक्संबुद्धाः ॥
ततः सा देवता आयुष्मतो ऽशोकस्य परिनिर्वाणं दृष्ट्वा प्रीतिम् उत्पादयामास । चिन्तयति च: यः कश्चिद् अनेनायुष्मता विशेषो ऽधिगतः, सर्वः स माम् आगम्य । एवम् अप्य् अहम् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहम् एव पश्चिमशयनोपगतस्य चरमः साक्षाच्छ्रवकाणाम् एहिभिक्षुकया प्रव्रजितानां भवेयम्*, पूर्वतरं च भगवतः परिनिर्वापयेयम्*, ततो भगवान्* शाक्यमुनिर् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यासौ देवता, अयं स सुभद्रः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यत् कल्याणमित्रता विहरिष्यामः कल्याण्सहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्: इह मम भदन्त एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । {भगवान् आह:} मा त्वम् आनन्द एवं वोचः: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । सकलम् इदम् आनन्द
-------------------- वैद्य, प्. 106 --------------------
केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । तत् कस्य हेतोः? मां ह्य् आनन्द कल्याणमित्रम् आगम्य जातिधर्माणः सत्वा जातिधर्मतायाः परिमुच्यन्ते, जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्वा उपायासधर्मतायाः परिमुच्यन्ते । तद् अनेनैव ते आनन्द पर्यायेण वेदितव्यं यत् सकलम् इदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापसहायता न पापमित्रता न पापसंपर्कः । इत्य् एवं ते आनन्द शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 107 --------------------
पंचमो वर्गः
तस्योद्दानम्*:
गुडशाला च भक्तं च तोयं वर्चघटेन च ।
कोलिको ह्य् उत्तरश् चापि जात्यन्धः श्रेष्ठिर् एव च ।
पुत्रो जाम्बालकश् चैव वर्गो भवति समुद्दितः ॥
अव्श्_41 गुडशाला । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । यदा भगवता अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, तदायुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्याम् इयं प्रतिज्ञा कृता: न तावत् पिण्डकं परिभोक्ष्यामहे (स्पेयेर्: परिभोक्ष्यावहे), यावन् नरकतिर्यक्प्रेतेभ्य एकसत्वम् अपि न मोचयाव इति । ततस् ताव् आयुष्मतौ कालेन कालं कदाचिन् नरकचारिकां चरतः, कदाचित् तिर्यक्प्रेतचारिकां चरतः । तौ तत्र सत्वानां विविधयातनाभ्याहतानाम् असत्प्रलापं दृष्ट्वा तान् आगत्य चतसृणां पर्षदाम् आरोचयतः । ते ऽपि श्रुत्वा संवेगम् आपद्यन्ते । ततस् तौ तद् अधिष्ठानं तथाविधां धर्मदेशनां कुरुतः, यया अनेके सत्वा विशेषम् अधिगच्छन्ति, धर्मश्रवणकथायाश् च भाजनीभवन्ति ॥
यावद् अपरेण समयेनायुष्मान् महामौद्गल्यायनः प्रेतचारिकां चरन्न् अद्राक्षीत् प्रेतं पर्वतकूटप्रख्यं समुद्रसदृशकुक्षिं सूचीछिद्रोपममुखं स्वकेशसंछन्नम् आदीप्तं सम्यक्प्रज्वलितम् एकज्वालीभूतं ध्यायन्तम् आर्तस्वरं क्रन्दन्तम्*, दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनाम् अनुभवन्तम्*, येन येनोच्चारप्रस्रावभूमिस् तेन तेनान्वाहिण्डमानं तद् अपि कृच्छ्रेणासादयन्तम्* । ततः स्थविरः प्रेतं पप्रच्छ: किं ते भोः कर्म कृतं येनैवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयस इति । प्रेत आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं परिपृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥

तेन खलु समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः
-------------------- वैद्य, प्. 108 --------------------
स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतम् अद्राक्षं सूचीछिद्रोपममुखं पर्वतोपमकुक्षिं स्वकेशसंछन्नं दुर्गन्धं परमदुर्गन्धम्* । आह च:
विशुष्ककण्ठोष्ठपुटः सुदुःखितः प्रवृद्धशैलोपमचर्विताश्रयः । (स्पेयेर्: श्चञ्विताश्रयः )
स्वकेशसंछन्नमुखो दिगम्बरः सुसूक्ष्मसूचीसदृशाननः कृशः

41.2

नग्नः स्वकेशसंछन्नो अस्थियन्त्रवदुच्छ्रितः ।
कपालपाणिर् घोरश् च क्रन्दन् समभिधावति

41.3

बुभुक्षया पिपासया क्लान्तो व्यसनपीडितः ।
आर्तस्वरं क्रन्दमानो दुःखां वेदति वेदनाम्* ।
किं तेन प्रकृतं पापं मर्त्यलोके सुदारुणम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc