अवदानशतक · अध्याय 40
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । तस्य ज्येष्ठः कुमारो युवराजः । सो ऽपरेण समयेन वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अमात्यपुत्रपरिवृतः क्रीडति रमते । वयसो ऽमत्यपुत्रः वयस्यः । सो ऽपरेण पुरुषेण सार्धम् अक्षैः क्रीडितवान्* । ततो ऽमात्यपुत्रस् तेन पुरुषेण पञ्च पुराणशतानि निर्जितः । राजपुत्रश् चास्य प्रतिभूर् अवस्थितः । ### <थेरे सेएम् तो बे अ लोन्ग् गप्.> तेन मे संसारे ऽनन्तम् भोगव्यसनम् अनुभूतम्* ।
-------------------- वैद्य, प्. 101 --------------------
इदानीम् अप्य् अभिसंबुद्धबोध्हिर् अनेन बाधितः । इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः, अदत्तादानस्य च प्रहाणाय व्यायन्तव्यम्*, यथा एवंविधा दोषास् तस्य । एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_40 सुभद्रः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कुशिनगर्यां विहरति स्म मल्लानाम् उपवर्तने यमकशालवने । अथ भगवांस् तद् एव परिनिर्वाणकालसमये आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: प्रज्ञापय आनन्द तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चम्* । अद्य तथागतस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चं प्रज्ञाप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वाइकान्ते ऽस्थात्* । एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् । प्रज्ञप्तो भदन्त तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरा मञ्चः । अथ भगवान् येन मञ्चस् तेनोपसंक्रान्तः । उपसंक्रम्य दक्षिनेन पार्श्वेन शय्यां कल्पयति पादे पादम् आधाय अलोकसंज्ञो स्मृतः संप्रजानन् निर्वाणसंज्ञाम् एव मनसि कुर्वन् ॥
तेन खलु समयेन कुशिनगर्यां सुभद्रः परिव्राजकः प्रतिवसति जीर्णवृद्धो महल्लकः । स विंशतिशतवयस्कः कौशिनागराणां मल्लानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन् संमतः । अश्रौषीत् सुभद्रः परिव्राजकः: अत्र श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । अस्ति च धर्मेषु काङ्क्षायितत्वम्*, आशा च मे संतिष्ठते, प्रतिबलश् च मे स भगवान् गौतमः तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । श्रुत्वा च पुनः कुशिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपसंक्रान्तः ॥
तेन खलु समयेन आयुष्मान् आनन्दो बहिर् विहारस्याभ्यवकाशे चंक्रमे चंक्रम्यते । अद्राक्षीत् सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम्* । दूराद् एव दृष्ट्वा च पुनर् येनायुष्मान् आनन्दस् तेनोपसंक्रान्तः । उपसंक्रम्यायुष्मतानन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते ऽस्थात्* । एकान्तस्थितः सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: श्रुतं मे आनन्द अद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ
-------------------- वैद्य, प्. 102 --------------------
परिनिर्वाणं भविष्यति । अस्ति च मे धर्मेषु काङ्क्षायितत्वम्*, आशा च मे संतिष्ठते, प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । सचेद् भगवत आनन्द अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय । आनन्द आह: अलं सुभद्र । मा भगवन्तं विहेठय । श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः । द्विर् अपि त्रिर् अपि सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्* श्रुतं भो आनन्द अद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति, अस्ति च मे धर्मेषु काङ्क्षायितत्वम्* । आशा च मे संतिष्ठते । प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । सचेद् भगवत आनन्द, अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय । द्विर् अपि त्रिर् अपि आयुष्मान् आनन्दः सुभद्रं परिव्राजकम् इदम् अवोचत्: अलं सुभद्र, मा तथागतं विहेठय, श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः । पुनर् अपि सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: श्रुतं भो आनन्द पुराणानां परिव्राजकानाम् अन्तिकाज् जीर्णानां बुद्धानां (स्पेयेर्: वृद्धानां) महतां चरणाचार्याणाम्*: कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते, तद्यथा उदुम्बरं पुष्पम्* । तस्य चाद्य भगवतो गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । अस्ति च मे धर्मेषु काङ्क्षायितत्वम्* । आशा च मे संतिष्ठते । प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । सचेद् भगवत आनन्द अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय । पुनर् अप्य् आनन्दः सुभद्रं परिव्राजकम् इदम् अवोचत्*: अलं सुभद्र । मा तथागतं विहेठय । श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः ॥
इमां च पुनर् आयुष्मता आनन्दस्य सुभद्रेण परिव्राजकेना सार्धम् अन्तराकथां विप्रकृताम् अश्रौषीद् भगवान् दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण । श्रुत्वा च पुनर् आयुष्मन्तम् आनन्दम् इदम् अवोचत्: अलम् आनन्द । मा सुभद्रं परिव्राजकं वारय । प्रविशतु, पृच्छतु यद् यद् एवाकाङ्क्षति । अयं मे पश्चिमो भविष्यति अन्यतीर्थिकपरिव्राजकैः सार्धम् अन्तराकथासमुदाहारः । अयं च मे चरमो भविष्यति साक्षाच्छ्रावकाणाम् एहिभिक्षुकया प्रव्रजितानाम्*, यदुत सुभद्र परिव्राजकः । अथ सुभद्र परिव्राजको भगवता कृतावकाशो हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते निषण्णः । एकान्तनिषण्णः सुभद्रः परिव्राजको भगवन्तम् इदम् अवोचत्: यानीमानि भो गौतम पृथग्लोके तीर्थ्यायतनानि: तद्यथा पूरणः कास्यपः, मास्करी गोशालीपुत्रः, सञ्जयी वैरूटीपुत्रः, अजितः केशकम्बलः, कुकुदः कात्यायनः, निर्ग्रन्थो ज्ञातपुत्रः, प्रत्यज्ञासिषुर् मे स्वां स्वां प्रतिज्ञां ### ॥
अथ भगवांस् तस्यां वेलायां गाथां भाषते:
एकान्नत्रिंशत्को वयसा सुभद्र
यत् प्राव्रजं किंकुशलं गवेषी ।
पञ्चाशद् वर्षाणि समाधिकानि
यस्माद् अहं प्रव्रजितः सुभद्र
-------------------- वैद्य, प्. 103 --------------------
शीलं समाधिश् चरणं च विद्या
चैकाग्रता चेतसो भाविता मे ।
आर्यस्य धर्मस्य प्रदेशवक्ता
इतो बहिर् वै श्रमणो ऽस्ति नान्यः
यस्य सुभद्र धर्मविनये आर्याष्टाङ्गो मार्गो नोपलभ्यते, प्रथमः श्रमणस् तत्र नोपलभ्यते । द्वितीयस् तृतीयश् चतुर्थः श्रमणस् तत्र नोपलभ्यते । यस्मिंस् तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते प्रथमः श्रमणस् तत्रोपलभ्यते । द्वितीयस् तृतीयश् चतुर्थः श्रमणस् तत्रोपलभ्यते । अस्मिंस् तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते । इह प्रथमः श्रमण उपलभ्यते, इह द्वितीयः, इह त्र्तीयः, इह चतुर्थः । न सन्ति इतो बहिः श्रमणा वा ब्राह्मणा वा । शून्याः परप्रवादाः श्रमणैर् वा ब्राह्मणैर् वा । एवम् अत्र पर्षदि सम्यक्सिंहनादं नदामि ।
अस्मिन् खलु धर्मपर्याये भाष्यमाणे सुभद्रस्य परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* । अथ सुभद्रः परिव्राजको दृष्टधर्मा प्राप्तधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासनधर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनायुष्मान् आनन्दस् तेनाञ्जलिं प्रणम्य आयुष्मन्तं आनन्दम् इदम् अवोचत् । लाभा भदन्त आनन्देन सुलब्धा यद् भगवता आनन्दो महाचार्येण महाचार्यान्तेवासिकाभिषेकेणाभिषिक्तः । अपि तु अस्माकम् अपि स्युर् लाभाः सुलब्धा यद् वयं लभेमहि स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: अयं भदन्त सुभद्रः परिव्राजक आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । तत्र भगवान् सुभद्रं परिव्राजकम् आमन्त्रयते । एहि भिक्षो, चर ब्रह्मचर्यम्* । सैव तस्यायुष्मतः प्रव्रज्याभूत् सोपसंपत्, स भिक्षुभावः ॥
एवं प्रव्रजितः स आयुष्मान् एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्* । एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्* यद् अर्थं कुलपुत्राः केशश्मश्रु अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति, तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्योपसंपद्य प्रवेदयति: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं कृतं करणीयं नान्यम् अस्माद् भवं प्रजानामि । आज्ञातवान् आयुष्मान् अर्हन् बभूव सुविमुक्तः । अथायुष्मतः सुभद्रस्यार्हत्वप्राप्तस्य विमुक्तिसुखं प्रतिसंवेदयत एतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं शास्तारं परिनिर्वापयन्तं पश्येयम्* । यन्व् अहं प्रथमतरं परिनिर्वापयेयम् इति । तत्रायुष्मान् सुभद्रः प्रथमतरं परिनिर्वृतः, ततः पश्चाद् भगवान्* ॥
यदा भगवता पश्चिमशयनोपगतेन धर्मोपरोधिकायां वेदनायां वर्तमानायाम्*, छिद्यमानेषु धर्मेषु, मुच्यमानेषु संधिषु, सुभद्रो ऽर्हत्वे प्रतिष्ठापितः, बहवश् च कौशीनागरा मल्ला धर्मे नियुक्ताः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त, यद् अयं सुभद्रः परिव्राजको भगवता छिद्यमानेषु धर्मेषु मुच्यमानासु संधिषु संसारवागुराया मोचयित्वा यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सुभद्रः परिव्राजकः संअसारवागुराया मोचयित्वा यावद् अत्यन्तनिष्ठे
-------------------- वैद्य, प्. 104 --------------------
निर्वाणे प्रतिष्ठापितः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् ऊहापोहविरहितेन तिर्यग्योनाव् उपपन्नेन स्वजीवितपरित्यागेन सुभद्रः परित्रातः, कौशीनागराश् च मल्लाः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्यां पर्वतदर्यां मृगयूथपः प्रतिवसति अनेकमृगसहस्रपरिवारः पण्डितो व्यक्तो मेधावी । तच् च मृगयूथं लुब्धकेन विचार्य राज्ञे निवेदितम्* । ततो राज्ञा चतुरङ्गेण बलकायेन निर्गत्य तन् मृगयूथं सर्वं संकटीकृतम्* । ततो यूथपतेर् एतद् अभवत्*: यद्य् अहम् इदानीम् इमान् न रक्षिष्यामि, अद्यैव ते सर्वं न भविष्यन्तीति । ततो यूथपतिः समन्ततो व्यवलोकयितुम् आरब्धः: कतमेन प्रदेशेनास्य मृगकुलस्य निःसरणं स्याद् इति । स पश्यति तस्यां पर्वतदर्यां नदीं वहमानाम्* । सा च नदी अहार्यहारिणी शीघ्रस्रोताः, ते च मृगा दुर्बलाः । ततो यूथपतिः सहसा तां नदीम् अवतीर्य मध्ये स्थित्वा शब्दम् उदीरयति: आगच्छन्तु भवन्तः, एतस्मात् कूलाद् उत्प्लुत्य मम पृष्टे पादान् स्थापयित्वा परत्र कूले प्रतितिष्ठत । अनेनोपायेन जीवितं वः पश्यामि, अतो ऽन्यथा मरणम् इति । ततस् तैर् मृगैस् तथैव कृतम्* । अथ तस्य पृष्ठे क्षुरनिपातात्वक् छिन्ना । मांसरुधिरास्थिराशिर् व्यवस्थितः । न चास्य व्यवसायो निवृत्तः तद्गतकारुण्यो मृगाणाम् अन्तिके । ततः सर्वेषु लङ्घितेषु पृष्ठतो ऽवलोकयितुं प्रवृत्तः: मा कश्चिद् अत्रालङ्घितं (स्पेयेर्: श्तो) भविष्यतीति । स पश्यति मृगशावकम् एकम् अलङ्घितम्* । ततो यूथपतिश् छिद्यमानेषु मर्मसु मुच्यमानासु संधिषु इष्टजीवितम् अगणयित्वा कूलम् उत्तीर्य मृगशावकं पृष्ठम् अधिरोह्य नदीम् उत्तार्य कूले स्थापयित्वा तं मृगगणम् उत्तीर्णं दृष्ट्वा मरणकाले प्रणिधिं कर्तुम् आरब्धः: यथा मे इमे मृगा अयं च मार्गशावक इष्टेन जीवितेनाच्छादिताः, व्यसनात् परित्राताः, एवम् अप्य् अहम् अनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य एतान् संसारवागुराया मोचयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मृगपतिर् आसीत्*, अहं स । मृगा इमे कौशीनागरा मल्लाः । मृगशावकः अयम् एव सुभद्रः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुभद्रेण कर्माणि कृतानि येन पश्चिमः साक्षाच्छ्रावकाणाम् इति । भगवान् आह: सुभद्रेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि । न बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
न प्रणश्यन्ति कर्माण्य् कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0