भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 39

39.1

इति ॥
अथ बोधिसत्वेन तां गाथाम् उद्गृहीत्वा सुवर्णपत्रेष्व् अभिलिख्य कृत्स्ने जम्बुद्वीपे ग्रामनगरनिगमराष्ट्रराजधानिषु पर्यटिता ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं स । तदापि मे सुभाषितश्रवणहेतोः स्वजीवितं परित्यक्तं प्राग् एवेदानीम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_39 अनाथपिण्डदः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्यां पिण्डाय प्राविक्षत्* । यावद् अनुपूर्वेण चञ्चूर्यमाणो राजमार्गम् अवतीर्णः । तत्र च राजमार्गे ऽन्यतमो ब्राह्मणो ऽभ्यागतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः सुचिरं निरीक्ष्य पृथिव्यां लेखां निष्कृष्य (स्पेयेर्: निकृष्य) भगवन्तम् उवाच: भो गौतम, न तावद् उत् ते लेखा लङ्घयितव्या,
-------------------- वैद्य, प्. 100 --------------------
यावन् मे पञ्च पुराणशतानि नानुप्रयच्छसीति । ततो भगवान् कर्मणाम् अविप्रणाशसंदर्शनार्थम् अदत्तादानवैरमण्यार्थं च इन्द्रकील इव तस्मिन् प्रदेशे स्थितः ॥
एष च शब्दः श्रावस्त्यां समन्ततो विसृतः: यथा किल भगवान् राजमार्गे ऽन्यतमेन ब्राह्मणेन पञ्चानां पुराणशतानाम् अर्थं विधारित इति । ततो राजा प्रसेनजित् कौशलः सहश्रवणाद् एवामात्यगणपरिवृत्तो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तम् इदम् अवोचत्*: गच्छतु भगवान्, अहं प्रदास्यामीति । न महाराज त्वयैतानि दातव्यानि, अपि त्व् अन्येनैतानि दातव्यानीति । तथा विशाखा मृगारमाता ऋषिदत्तपुराणौ स्थपती शक्रब्रह्मादयो देवा वैश्रवणप्रभृतयश् चत्वारो लोकपाला हिरण्यसुवर्णम् उपादाय भगवन्तम् उपसृप्ताः । तान् अपि भगवान् उवाच: न भवद्भिर् एतानि दातव्यानीति । यावद् अनाथपिण्डदेन गृहपतिना श्रुतम्* । स हिरण्यसुवर्णस्य हेलां पूरयित्वा उपरि पञ्च पुराणशतानि दत्वा भगवन्तम् उपगतः: भगवन्*, इदं प्रतिगृह्यताम् इति । भगवान् आह: गृहपते त्वया एतानि दातव्यानि । दीयतां ब्राह्मणायेति । ततो ऽनाथपिण्डदेन गृहपतिना सा सुवर्णहेला ब्राह्मणाय दत्ता ॥
भिक्षवः संशयजाताः सराजिका च पर्षत् सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भगवन् यावद् अनेन ब्राह्मणेन भगवान् विधारितो ऽनाथपिण्डदेन च कार्षापणा दत्ताः । कुतश् च प्रभृति भगवान् अस्मै धारयत इति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुम्*? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये । तथागतेनैतानि <व्: थे पोर्तिओन् fरोम् तथागतेनैतानि उप् तो खलु देहिनाम् इस् ओउत् ओf प्लचे हेरे.> भिक्षवः पूर्वम् अन्यासु जातिषु अवश्यंभावीनि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः बाह्ये पृथिवीधातौ नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
न प्रणश्यन्ति कर्माण्य् कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc