भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 38

38.1

इत्य् उक्तमात्रे बोधिसत्वानुभावेन माहेन्द्रभवनम् आकम्पितम्* । देवतानां चाधस्ताज् ज्ञानदर्शनं प्रवर्तते: किं कृतम् अपि । पश्यन्ति बोधिसत्वानुभावाद् इति । यावच् छक्रेण देवेन्द्रेण माहेन्द्रवर्षं वृष्टं येन तदाश्रमपदं पुनर् अपि तृणगुल्मौषधिपुष्पफलसमृद्धं संवृत्तम्* ॥
ततस् तेन ऋषिणा शशं कल्याणमित्रम् आगम्य तत्र वसता पञ्चाभिज्ञाः साक्षात्कृताः । ततः स ऋइषिः शशम् उवाच: भोः शश, तेन दुष्करेण व्यवसायेन कारुण्यभावाच् च किं प्रार्थयसे इति । तेनोक्तम्*: अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति । ततः स ऋषिर् इदं वचनम् उपश्रुत्य शशम् अब्रवीत्: यदा त्वं बुद्धो भवेथाः, अस्माकम् अपि समन्वाहरेथा इति । शश उवाच: एवम् अस्त्व् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शश आसीत्, अहं स । ऋषिर् एष कुलपुत्रः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् कल्यणामित्रा विहरिष्यामः कल्याणसहायाः कल्याणसंपर्काः, न पापमित्रा न पापसहाया न पापसंपर्का । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: इह मम भदन्त एकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरितर्क उदपादि: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । भगवान् आह: मा त्वम् आनन्द एवं वोचः: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । सकलम् इदम् आनन्द केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । तत् कस्य हेतोः? मां ह्य् आनन्द कल्याणामित्रम् आगम्य जातिधर्माणः सत्वा जातिधर्मतया (स्पेयेर्: जातिधर्मतायाः) परिमुच्यन्ते, जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्वा उपायासधर्मतायाः परिमुच्यन्ते । तद् अनेनैव ते आनन्द पर्यायेण वेदितव्यं यत् सकलम् इदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 96 --------------------
अव्श्_38 धर्मगवेषी । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितम् एतद् अनाथपिण्डदस्य गृहपतेः: कल्यम् एवोत्थाय भगवतो दर्शनायोपसंक्रम्य जेतवनं स्वयं संमार्ष्टुम्* । अथान्यतमेन कालेन अनाथपिण्डदस्य गृहपतेः कश्चिद् व्याक्षेपः समुत्पन्नः । ततो भगवान् पुण्यकामानां सत्वानां पुण्यतीर्थोपदर्शनार्थं स्वयम् एव संमार्जनीं गृहीत्वा जेतवनं संमार्ष्टुं प्रवृत्तः । भगवन्तं दृष्ट्वा महाश्रावका अपि शारद्वतीपुत्रमौद्गल्यायनकाश्यपनन्दरेवतप्रभृतयः संमार्ष्टुं प्रवृत्ताः । ततो जेतवनं सह श्रावकैः संमृज्य उपस्थानशालां प्रविश्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म: पञ्चेमे भिक्षव आनुशंसाः संमार्जने । कतमे पञ्च? आत्मनश् चित्तं प्रसीदति । परस्य चित्तं प्रसीदति । देवतानां मनसो भवति प्रासादिकम्* । संवर्तनीयं कुशलमूलम् उपचिनोति । कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते । इति पञ्चानुशंसाः संमार्जने ॥
ततश् चतस्रः पर्षदो भगवतः सकाशात् संमार्जनस्येति पञ्चानुशंसान् उपश्रुत्य प्रसादजाताः प्रीतिसौमनस्यप्रसन्नचित्ताः स्वस्वासनाद् उत्थाय येन भगवांस् तेनाञ्जलिं प्रगृह्य भगवन्तम् एतद् ऊचुः: वयं भगवन् भगवत उपस्थापकाः (स्पेयेर्: उपस्थायकाः) सर्वं जेतवनं सदा संमार्ष्टुम् इच्छामः । अस्माकम् अनुग्रहं कुरु । ततो भगवांस् तासां तूष्णीभावेनाधिवासयति । ततस् ताश् चतस्रः पर्षदो भगवतो ऽधिवासनां विदित्वा संमार्जनीगृहीत्वा सर्वं जेतवनं संमार्ष्टुं प्रवृत्ताः । सर्वं जेतवनं चाराममार्गपर्यन्तं संमार्ज्य भगवतो धर्मदेशनां श्रोतुम् एकान्ते निषण्णा आदरयुक्ताः ॥
अनाथपिण्डदो गृहपतिर् अपि तं प्रदेशम् अनुप्राप्तः । तेन श्रुतं यथा भगवता महाश्रावकसहायेन स्वयम् एव जेतवनं संमृष्टम् इति । भगवता देशितान् संमार्जने पञ्चास्नुशंसान् उपश्रुत्य विप्रतिसारीभूतः इति चिन्तितवान्: किमर्थं मया भगवतो विहारे तस्मिन् पुण्यक्षेत्रे, यत्राद्यैवारोपितं बीजम् अद्यैव फलं संपद्यते, स्वल्पस्यानन्तं फलं निष्पद्यते, तथागतसंमुखीभूते सर्वश्रावकसंवासिते ऽतीव मनोरमभूमौ सर्वदेवासुरमनुष्यगन्धर्वगरुडकिन्नरमहोरगाणां मनोहर्षास्पदीभूते सर्वभूतप्रेतपिशाचयक्षराक्षसनारकद्रोहिणाम् अनवकाशे सर्वमारमारकायिकानां देवानां मनुष्याणां चानवकाशभुवने भग्नाभिभवजाते रागद्वेषमोहमात्सर्येर्ष्यामानदुष्टसत्वानाम् अविदितप्रभावे पापाचाराणाम् अलब्धागमने पापमित्रहस्तगतानाम् अमनापजाते श्रद्धाविगतानां त्यागधर्मरहितानाम् अदृष्टचिन्तितभावने दुःशीलानां कुवृत्तिनाम् अमनोगमने दयाभावविरहितानां क्रोधिनां परुषभाषिणाम् अलब्धशरणे वीर्यहीनकुसीदवृत्तिनां त्यक्तारम्भाशमिनां सुदूरीभूते ध्यानच्युतमुषितस्मृतीनां कुदृष्टिचारिणां कुमार्गप्रस्थितानाम् अन्धकारीभूते दुष्प्रज्ञानां कुबुद्धिलब्धज्ञानान्तराणाम् अप्राप्तागमनभावे दातॄणाम् अतीव मनोरथकृते सुशीलयुक्तानां मनोरमवासे क्षमाचारिणाम्
-------------------- वैद्य, प्. 97 --------------------
आदरागमनलब्धे वीर्यारब्धानां नित्यानुगमनप्राप्ते ध्यानरतानाम् आलीनभूवने प्रज्ञाधारिणां प्रबोधप्रकाशापरित्यक्तक्षेत्रे एतादृशे बुद्धविक्रीडिते विहारे संमार्ष्टुं चित्ताक्षेपः कृतः । न पुनः कदापि मया तथा क्षमं कर्तुम्* । इति निश्चित्य पुनस् तस्यैतद् अभवत्: यत्र भगवता महाश्रावकसहायेन स्वयं संमार्जनं कृतम्*, कथम् अहम् अस्योपरि यास्यामि?

ततो ऽनाथपिण्डदो ऽपत्रपमाणरूपो लज्जापरिगतहृदयस् तत्रावस्थाने स्थितः । जानकाः पृच्छका बुद्धा भगवन्तः । तेन भिक्षवः पृष्टाः: क एष इति । भिक्षव ऊचुः: अनाथपिण्डदो भदन्त भगवतो लज्जायमानरूपो ऽपत्राप्यपरिगतहृदयो नेच्छति भगवतः सकाशम् अत्रोपरिष्टात् पादन्यासेनोपसंक्रमितुम्*, यत्र नाम भगवता महाश्रावकसहायेन स्वयं जेतवनं संमृष्टम् इति । ततस् तं भगवान् आह: गृहपते बुद्धवचनं ###<पोस्सिब्ल्य् रेस्तोरे: श्रुत्वा भगवता> प्रवेष्टव्यम्* । कस्मात्? सद्धर्मगौरवा हि बुद्धा भगवन्तः, धर्मो ह्य् अर्हतां गुरुर् इति । ततो ऽनाथपिण्डदो गाथाभिगीतेन गायन् येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्ताद् एकान्ते निषण्णो धर्मकथाश्रवणाय । ततो भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः । सो ऽनेकपर्यायेण भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः संप्रक्रान्तः ॥
तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषत इति । पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनहूतः सत्वा आदरेण सर्वं जेतवनं संमार्ष्टुं प्रवृत्ताः, धर्मं च श्रोतव्यं मन्यन्त इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागद्वेषमोहो ऽथ परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषते । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् धर्महेतोः स्वजीवितस्यापि परित्यागः कृतः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण सा देवी सत्ववती संवृत्ता । दोहदश् चास्याः समुत्पन्नः: सुभाषितं शृणुयाम् इति । तया राज्ञे निवेदितम्* । राज्ञा नैमित्तिकान् आहूय पृष्टाः । त ऊचुः: देव अस्य सत्वस्यानुभाव इति । ततस् तेन राजा सौभाषणिकस्यार्थे सुवर्णपिटको ग्रामनगरनिगमराष्ट्रराजधानीषु
-------------------- वैद्य, प्. 98 --------------------
पर्यटितः । न च तत् सुभाषितम् उपलभ्यते । यावत् परिपूर्णैर् नवभिर् मासैः सा देवी प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवत्व् अस्य दारकस्य नामेति । अमात्या ऊचुः: यस्माद् अयं दारको ऽजात एव सुभाषितं गवेषते तस्माद् भवतु दारकस्य सुभाषितगवेषी नामेति । तस्य सुभाषितगवेषीति नाम कृतम्* । सुभाषितगवेषी दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा क्रमेण महान् संवृत्तस् तदापि सुभाषितं गवेषते, न च लभते ॥
स पितुर् अत्ययाद् राज्ये प्रतिष्ठितः अमात्यानाम् आज्ञापयति: सुभाषितेन मे ग्रामण्यः प्रयोजनम्* । गवेषत मे सुभाषितम् अपि । ततस् तैर् अमात्यैः सकले जम्बूद्वीपे हिरण्यपिटकाः सुभाषितहेतोः संदर्शिताः । न च सुभाषितम् आसादितम्* । ततस् ते राज्ञे निवेदितवन्तः । ततः स राजा सुभाषितश्रवणहेतोर् उत्कण्ठति परितप्यति ॥
शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । स पश्यति राजानं सुभाषितश्रवणहेतोर् विहन्यमानम्* । तस्यैतद् अभवत्*: यन्व् अहं राजानं मीमांसेयेति । अथ शक्रो देवानाम् इन्द्रो गुह्यकरूपधारी भूत्वा विकृतकरचरणनयनो राज्ञः पुरस्ताद् गाथां भाषते:
धर्मं चरेत् सुचरितं नैनं दुश्चरितं चरेत्* ।
धर्मचारी सुखं शेते अस्मिंल् लोके परत्र च

38.2

इति ॥
ततो राजा विस्मितोत्फुल्लदृष्टिस् (स्पेयेर्: विस्मयोत्फुल्लदृष्टिस्) तं गुह्यकम् उवाच: ब्रूहि ब्रूहि गुह्यक तावन् मे, एतां गाथां श्रोष्यामीति । ततो गुह्यको राजानम् उवाच: यदि यद् ब्रवीमि तन् मे करिष्यसि, एवम् अहम् अपि यदाज्ञापयिष्यसि, तत् करिष्यामीति । राजोवाच: किम् आज्ञापयिष्यसीति । गुह्यक उवाच: सप्ताहोरात्राणि खदिरकाष्ठैर् अग्निखदां तापयित्वा तत्र यद्य् आत्मानम् उत्स्रक्ष्यसि, ततस् ते ऽहं पुनर् गाथां वक्ष्यामीति । तच्छ्रवणाच् च राजा प्रीतमनास् तं गुह्यकम् उवाच: एवम् अस्त्व् इति । ततो राज्ञा गुह्यकं प्रतिज्ञायां प्रतिष्ठाप्य सर्वविजिते घण्टावघोषणं कारितम्* सप्तमे दिवसे राजा सुभाषितश्रवणहेतोर् अग्निखदायाम् आत्मानम् उत्स्रक्ष्यति । ये ऽद्भुतानि द्रष्टुकामाः, आगच्छन्त्व् इति ॥
ततो ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगनतलेषु चानेकेषु देवताशतसहस्रेषु संनिपतितेषु बोधिसत्वस्याध्याशयशुद्धिताम् अवगम्याद्भुतभावं च द्रष्टुम् इहावतस्थुः । अथ स गुह्यक आकाशम् उत्पत्य बोधिसत्वम् उवाच: क्रियतां महाराज यथाप्रतिज्ञातम् इति । ततो राजा ज्येष्ठं कुमारं राज्ये ऽभिषिच्य अमात्यान् नैगमजानपदांश् च क्षमयित्वा जनकायं चाश्वास्य अग्निखदासमीपम् उपगम्य इमां गाथां भाषते:
-------------------- वैद्य, प्. 99 --------------------
एषाङ्गारखदा महाभयकरी ज्वालार्करक्तोपमा
धर्मार्थे प्रपतामि निश्चितमना निःसाध्वसो जीविते ।
एषा चाग्निखदा भविष्यति शुभा पुण्यानुभावान् मम
शीता चन्दनपङ्कवासितजला पद्माकुला पद्मिनी

38.3

इत्य् उक्त्वा बोधिसत्वस् तस्याम् अग्निखदायां पतितः । पतितमात्रस्य चास्य अग्निखदा पद्मिनी प्रादुर्भूता । ततः शक्रो देवानाम् इन्द्रस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा गाथां भाषते:
धर्म चरेत् सुचरितं नैनं दुश्चरितं चरेत्* ।
धर्मचारी सुखं शेते लोके ऽस्मिं च परत्र

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc