भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 37

37.1

इति
मैत्रकन्यक आह: भोः पुरुष, अस्ति कश्चिद् अन्यो ऽपीहागमिष्यतीति? पुरुषः प्राह: य एवंविधकर्मकारी भविष्यतीति ॥
ततो मैत्रकन्यको दुःखवेदनाभिभूतः सत्वानाम् अन्तिके कारुण्यं जनयित्वा तं पुरुषम् आह: इच्छाम्य् अहं भोः पुरुष सर्वसत्वानाम् अर्थे इदं चक्रं उपरि शिरसा धारयितुम्* । मा कश्चिद् अन्यो ऽप्य् एवंविधकर्मकारी इहागच्छत्व् इति । इत्य् उक्तमात्रे मैत्रकन्यकस्य बोधिसत्वस्य तच् चक्रं सप्ततालमात्रं मूर्ध्नि उद्गम्याकाशे स्थितम्* । स च कालं कृत्वा तुषिते देवनिकाये उपपन्नः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मैत्रकन्यक आसीत्, अहं स । यन् मया संव्यवहरता माता कार्षापणैः प्रतिपादिता, तस्य मे कर्मणो विपाकेन चतुर्षु महानगरेषु महत्सुखम् अनुभूतम्* । यतश् च मातुः परीत्तो ऽपकारः कृतः, तस्य मे कर्मणो फलविपाकेनैवंविधं दुःखम् अनुभूतम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यन् मातापितृषु कारान् करिष्यामो नापकारान्* । तद् एते दोषा न भविष्यन्ति ये मैत्रकन्यकस्य । पृथग्जनस्य एष एष गुणगणो भविष्यति यस् तस्यैव देवपुत्रभूतस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* । तत् कस्य हेतोः? दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ आप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ, चित्रस्य जम्बूद्वीपस्य दर्शयितारौ । य एकेनांसेन पुत्रो मातरं द्वितीयेन पितरं पूर्णं वर्षशतं परिहरेत्*, यद् वा अस्यां महापृथिव्यां मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतजातरूपम् अश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्तः, इत्य् एवंरूपे वा ऐश्वर्याधिपत्ये प्रतिष्ठापयेत्*, न इयता पुत्रेण मातापित्रोः कृतं वा स्याद् उपकृतं वा । यस् त्व् असाव् अश्राद्धं मातापितरं श्रद्धासंपदि समादापयति, विनयति, निवेशयति, प्रतिष्ठापयति, दुःशीलं शीलसंपदि, मत्सरिणं त्यागसंपदि, दुष्प्रज्ञं प्रज्ञासंपदि, समादापयति, विनयति, निवेशयति, प्रतिष्ठापयति, इयता पुत्रेण मातापित्रोः कृतं वा स्याद् उपकृतं वा ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 93 --------------------
अव्श्_37 शशः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । स उन्नीतो वर्धितो महान् संवृतः । पिता चास्य धनक्षयम् अनुप्राप्तो भोगक्षयम् अनुप्राप्तः । स च विस्तीर्णसुहृत्संबन्धिबान्धवस् तं पुत्रं कालानुकालं ज्ञातिसकाशं प्रेषयति । स तैर् ज्ञातिभिस् तथा लालितो यथा तेषु प्रवृद्धस्नेहः संवृत्तः ॥
यावद् अपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । स प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । स एवं प्रव्रजितः सन् ज्ञातिभिः सह संसृष्टो विहरति । ततो भगवांस् तं गृहिसंसर्गान् निवार्य अरण्ये नियोजयते । स तत्र नाभिरमते । यावद् भगवांस् तं त्रिर् अपि गृहिसंसर्गान् निवारयति: वत्स अनेकदोषदुष्टो ऽयं गृहिसंसर्गः । सन्ति चक्षुर्विज्ञेयानि रूपाणि इष्टानि कान्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि । श्रोत्रविज्ञेयाः शब्दाः, घ्राणविज्ञेया गन्धाः, जिह्वाविज्ञेया रसाः, कायविज्ञेयानि स्प्रष्टव्यानि, मनोविज्ञेया धर्माः इष्टाः कान्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः कण्टकभूताः । अनेकपर्यायेण चास्य अरण्यगुणाः संवर्णिताः, यत्र स्थितस्य कुशलानां धर्माणां वृद्धिर् भवति । यावत् तेन कुलपुत्रेण भगवन्तं कल्याणमित्रम् आगम्य अरण्यवासेन वसता युज्यमानेन घटमानेन व्यायच्छमानेनेदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स पूर्वनिवासम् अनुस्मृत्य भगवतो ऽस्यातिदुष्कराणि दृष्ट्वा भगवन्तम् उपसंक्रम्य सगौरवः स्तौति मानयति च ॥
-------------------- वैद्य, प्. 94 --------------------
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त, यावद् अयं कुलपुत्रो भगवता यावत् त्रिर् अपि ग्रामान्तान् निवार्य अरण्ये नियोजितः, यावद् अर्हत्वे प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन अयं कुलपुत्रो यावन् त्रिर् अपि ग्रामान्तान् निवार्य अरण्ये नियोजितः, यावद् अर्हत्वे प्रतिष्ठापितः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् अयं कुलपुत्रः स्वजीवितपरित्यागेन ग्रामान्तान् निवार्य अरण्यवासे नियुक्तः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्मिन् गिरिकन्दरे प्रस्रवणपुष्पफलकन्दसंपन्नो ऋषिः प्रतिवसति कष्टतपाः फलमूलाम्बुभक्षो ऽजिनवल्कलवासी अग्निहोत्रिकः । तस्य च ऋषेः शशो वयस्यो मानुषप्रलापी । स दिवसानुदिवसं त्रिर् ऋषिसमीपम् उपसंक्रामति । उपसंक्रम्याभिवादनं कृत्वा विविधाभिः कथाभिः संमोदते । ताव् एवं प्रवृद्धस्नेहौ पितापुत्रवद् अवस्थितौ । यावत् कालान्तरेण महत्य् अनावृष्टिः प्रादुर्भूता, यया नद्युदपानान्य् अल्पसलिलानि संवृत्तानि, पुष्पफलवियुक्ताश् च पादपाः । ततः स ऋषिस् तत्राश्रमपदे उपभोगविहरान् नाभिरमते । सो ऽजिनचीरवल्कलान्य् अभिसंक्षेप्तुम् आरब्धः ॥
अथ शशस् तं तथा प्रवृत्तं दृष्ट्वा पृष्टवान्*: महर्षे क्व गमिष्यसीति । ऋषिर् आह: ग्रामान्तम् एव गमिष्यामि (स्पेयेर्: अवगमिष्यामि), तत्र पक्वभैक्षेण यापयिष्यामीति । ततः स ऋषिवचनम् उपश्रुत्य जातसंतापो मातापितृवियोगम् इव मन्यमानः पादयोर् निपत्य तम् ऋषिम् उवाच: मा मां परित्यज । अपि च अनेकदोषसंकुलो गृहवासो ऽनेकगुणसंपन्नश् चारण्यवास इति । स बह्व् अप्य् उच्यमानो न निवर्तते । ततः स शशेनोच्यते: यद्य् अवश्यं गन्तव्यम्*, किं नु अद्येह तावत् प्रतीक्षस्व, श्वो यथाभिप्रेतं यास्यसीति । ततस् तस्य ऋषेर् एतद् अभवत्*: नियतम् अयं माम् आहारजातेनोपनिमन्त्रयितुकामः । यस्माद् इमे तिर्यग्योनिगताः प्राणिनः संचयपरा इति । तेन तस्य प्रतिज्ञातम्* ॥
अथ कृताह्निकम् आहारकाले शश उपसंक्रम्य तम् ऋषिं प्रदक्षिणीकृत्य क्षमयितुम् आरब्धः: क्षमस्व मम महर्षे यन् मया ऊहापोहविरहितेन तिर्यग्योनाव् उपपन्नेन तव किंचिद् अपकृतं स्यात्* । इत्य् उक्त्वा सहसोत्प्लुत्याग्नौ प्रपतितः । ततः स ऋषिर् जातसंवेगो बाष्पदुर्दिनमुखः प्रियैकपुत्रम् इवोपगुह्योवाच (स्पेयेर्: इवोपगृह्योवाच): वत्स किम् इदम् आरब्धम् इति । शश उवाच: महर्षे अरण्यप्रियतया मदीयेन मांसेनाहोरात्रं यापयिष्यसि । किं च:
न सन्ति मुद्गा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन ।
शरीरम् एतत् त्व् अनलाभिसंस्कृतं ममोपयोज्याद्य तपोवने वस

37.2

इति
-------------------- वैद्य, प्. 95 --------------------
ततः स ऋषिः शशवचनम् उपश्रुत्य जातसंवेग उवाच: यद्य् एवं तव प्रियतया कामम् इहैव जीवितं परित्यक्ष्यामि, न च ग्रामान्तम् अवतरिष्यामीति । श्रुत्वैतद् वचनं शशः प्रीतमनाः संवृत्तः । ऊर्ध्वमुखश् च गगनतलम् अभिवीक्ष्य याचितुं प्रवृत्तः । आह च:
अरण्ये मे समागम्य विवेके रमते मनः ।
अनेन सत्यवाक्येन माहेन्द्रं देव वर्ष नु

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc