भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 36

36.1

ततो राजा अस्या गाथायाः सहश्रवणात् प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षम् उवाच: इदं गुह्यक शरीरम्*, यथेष्टं क्रियताम् इति ॥
ततः शक्रो देवेन्द्रो राजानं मेरुवदकम्प्यम् अनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्याम् एकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानम् अभ्युत्साहयन्न् उवाच: साधु साधु सत्पुरुष । दृढसंनाहस् त्वम्* । नचिराद् अनेन व्यवसायेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे । अयं च ते इष्टजनसमागम इति । ततो राजा शक्रं देवेन्द्रम् इदम् अवोचत्*: साधु साधु कौशिक, कृतो ऽस्माकं धर्माभिप्रायः पूरितश् चेति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सुरूपो नाम राजा बभूव, अहं स । सुन्दरः कुमार आनन्दः । सुन्दरिका एषा एव यशोधरा । तदापि मे भिक्षवो धर्महेतोर् इष्टबन्धुपरित्यागः स्वजीवितपरित्यागश् च कृतः, प्राग् एवेदानीम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_36 मैत्रकन्यकः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: सब्रह्मकाणि भिक्षवस् तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? ब्रह्मभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । साचार्यकाणि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? आचार्यभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । आहवनीयानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? आहवनीयौ हि कुलपुत्रस्य
-------------------- वैद्य, प्. 88 --------------------
मातापितरौ सहधर्मेण । साग्निकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? अग्निभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । सदेवकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? देवभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । इदम् अवोचद् भगवान्* । इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता:
ब्रह्मा हि मातापितरौ पूर्वाचार्यौ तथैव च ।
आहवनीयौ पुत्रस्य अग्निः स्याद् दैवतानि च

36.2

तस्माद् एतौ नमस्येत सत्कुर्याच् चैव पण्डितः ।
उद्वर्तनेन स्नानेन पादानां धावनेन च ।
अथवा अन्नपानेन वस्त्रशय्यासनेन च

36.3

तया स परिचर्यया मातापितृषु पण्डितः ।
इह चानिन्दितो भवति प्रेत्य स्वर्गे च मोदते

36.1

यदा भगवता एतत् सूत्रं भाषितम्*, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् मातापितृगुरुशुश्रूषावर्णवादीति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो मातापितृगुरुशुश्रूषाया वर्णवादी । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः मातुः स्वल्पम् अपकारं कृत्वा महदुःखम् अनुभूतम्* । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां मित्रो नाम सार्थवाहो बभूव आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रा जायन्ते म्रियन्ते चा । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* । न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राज्ञो विधेयं भविष्यतीति । तस्य वयस्यकेनोपदिष्टम्*: यदि ते पुत्रा जायन्ते, तस्य दारिकानाम स्थापयितव्यम्* । एवम् असौ चिरजीवी भविष्यतीति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् चेति । कतमेषां त्रयाणां स्थानानाम्*? मातापितराउ रक्तौ भवतः संनिपतितौ, माता {च} कल्या भवति ऋतुमती ।
-------------------- वैद्य, प्. 89 --------------------
गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स च आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युतः तस्य प्रजापत्या कुक्षिम् अवक्रान्तः । पंचावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पंच । रक्तं पुरुषं जानाति, विरक्तं {पुरुषं} जानाति । कालं जानाति, ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्यार्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति । शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: अयं दारको मित्रस्य
पुत्रः कन्या च । तस्माद् भवतु दारकस्य मैत्रकन्यको नामेति ॥
मैत्रकन्यको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । पिता चास्य महासमुद्रम् अवतीर्णः, तत्रैव च निधनम् उपयातः । यदा मैत्रकन्यको महान् संवृतस् तदा मातरम् उवाच: अम्ब पितास्माकं किंकर्मफलोपजीवी आसीत्? ततः पश्चाद् अहम् अपि (स्पेयेर्: अहं पि ) तथा करिष्यामीति । माता कथयति: पुत्रक पिता ते ओक्करिक आसीत्* । आकाङ्क्षमाणः त्वम् ओक्करिकत्वं कुरु । सा चिन्तयति: यद्य् अहम् अस्मै वक्ष्यामि महासमुद्रवणिग् आसीद् इति, एषो ऽपि कदाचिन् महासमुद्रम् अवतीर्णस् तत्रैव निधनम् उपगच्छेद् इति ॥
तेनौक्करिकापणो व्यवस्थापितः । ततः प्रथमे दिवसे चत्वारः कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः: एभिर् अम्ब श्रमणब्राह्मणकृपणवनीपकान् प्रतिपादयस्वेति ।
-------------------- वैद्य, प्. 90 --------------------

यावद् अपरेणोच्यते: पिता ते गान्धिकापणिक आसीद् इति, तेनौक्करित्वं त्यक्त्वा गान्धिकापणो व्यवस्थापितः । अष्टौ कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । यावद् अपरेणोच्यते: पिता ते हैरण्यिक आसीद् इति, तेन तमापणं त्यक्त्वा हैरण्यिकापणो व्यवस्थापितः । ततः प्रथमे दिवसे षोडश कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । द्वितीये दिवसे द्वात्रिंशत् कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । यावद् धैरण्यिकैर् ईर्ष्याप्रकृतैः सर्वान् अधिष्ठानव्यवहारान् विदित्वोक्तः: मैत्रकन्यक, किं तवानया अधर्मजीविकया? पिता ते महासमुद्रवणिग् आसीत्* । केन त्वं कुसंव्यवहारे नियुक्त इति । स हैरण्यिकवचनसंचोदितो मातुर् गत्वा कथयति: अम्ब एवम् अनुश्रूयते पितास्माकं महासमुद्रवणिग् आसीद् इति । तद् अनुजानीहि, अहम् अपि महासमुद्रम् अवतरिष्यामीति । माता कथयति: एवम् एतत् पुत्रक । किं तु त्वं बाल एकपुत्रकश् च । मा मां परित्यज्य महासमुद्रम् अवतरिष्यसीति । स ईर्ष्याप्रकृतिभिर् अकल्याणमित्रैर् विप्रलब्धो न निवर्तते । ततस् तेन मातुर् वचनम् अवचनं कृत्वा वाराणस्याम् नगर्यां घण्टावघोषणं कारितम्*: शृण्वन्तु भवन्तो वाराणसीनिवासिनो वणिजः: मैत्रकन्यकः सार्थवाहो महासमुद्रम् अवतरिष्यति । ये युष्माकम् उत्सहन्ते मैत्रकन्यकेन सार्थवाहेन सार्धम् अशुल्केनागुल्मेनातरपण्येन महासमुद्रम् अवतर्तुम्*, ते महासमुद्रगमनीयं पण्यं समुदानयन्त्व् इति । स कृतकुतूहलमङ्गलस्वस्त्ययनः पञ्चवणिक्शतपरिवारः शकटैर् भारैर् मूटैः पिटकैः उष्ट्रैर् गोभिर् गर्दभैः महासमुद्रगमनीयं पण्यं समुदानीय संप्रस्थितः । माता चास्य स्नेहव्याकुलहृदया साश्रुसुर्दिनवदना पादयोर् लग्ना: पुत्रक मा मां परित्यज्य महासमुद्रम् अवतरेति । अथ स एवं करुणदीनविलम्बितैर् अल्पाक्षरैर् (स्पेयेर्: अप्य् अक्षरैर् ) उच्यमानः कृतव्यवसायो मातरं पादेन शिरस्य् अभिहत्य सार्थसहायः संप्रस्थितः । मात्रा चोक्तः: मा मे पुत्रक अस्य कर्मणो विपाकम् अनुभवेथा इति ॥
यावद् असौ ग्रामनिगमराष्ट्रराजधानीपट्टनान्य् अवलोकयन् समुद्रतीरम् अनुप्राप्तः । स पञ्चभिः पुराणशतैर् वहनं भृत्वा पंच पौरुषेयान् गृहीत्वा आहारं नाविकं कैवर्तं कर्णधारं च त्रिर् अपि घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः । यावद् वहन्तं मकरेण मत्स्यजातेनानयाद् वयसनम् आपादितम्* । ततो मैत्रकन्यकः फलकम् आसाद्य स्थलम् अनुप्राप्तः । ततः स्थले चञ्चूर्यमाणो नदूरान् नगरं रमणकं नाम्ना दृष्टवान्* । स तद् उपजगाम । यावत् ततश् चतस्रो ऽप्सरसो निर्गताः, अभिरूपा दर्शनीयाः प्रासादिकाः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्*, यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । दक्षिणपद्धतिगमनाच् चैनं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* । यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति सदामत्तं नाम नगरम्* । स तत्र द्वारीभूतः । यावत् तस्माद् अप्य् अष्टाव् अप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान्*
-------------------- वैद्य, प्. 91 --------------------
यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* । यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति नन्दनं नाम नगरम्* । स तत्र द्वारीभूतः । यावत् तस्माद् अपि षोडशाप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्* यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* । यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति ब्रह्मोत्तरं नाम प्रासादम्* । स तत्र द्वारीभूतः । यावत् तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्* यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* ॥
यथा दक्षिणा पद्धतिं गच्छति, तथास्येच्छा वर्धते । यावत् पुनर् अपि दक्षिणेन यथा गच्छन् पश्यत्य् अयोमयं नगरम्* । स तत्र प्रविष्टः । प्रविष्टमात्रस्य चास्य द्वारं पिहितम्* । ततो ऽभ्यन्तरं प्रविष्टः । तत्रास्य द्वारं पिहितम्* । ततो ऽभ्यन्तरं प्रविष्टः । यावत् पुरुषं पश्यति महाप्रमाणम्* । मूर्ध्नि चास्य अयोमयं चक्रं भ्रमत्य् आदीप्तं प्रदीप्तं संप्रज्वलितम् एकज्वालीभूतम्* । तस्य शिरसो यत् पूयशोणितं प्रघरति, सो ऽस्याहारः । ततो मैत्रकन्यकस् तं पुरुषं पृष्टवान्*: भो पुरुष, कस् त्वम् इति । स कथयति: अहं मातुर् अपकारीति । उदाहृतमात्रे च तेन पुरुषेण मैत्रकन्यकस्य तत् कर्माभिमुखीभूतम्*: अहम् अपि मातुर् अपकारीति मन्ये तेनैवाहं कर्मणा इहाकृष्ट इति । अथ तस्मिन्न् अन्तरे आकाशाच् छब्दो निर्गतः: ये बद्धास् ते मुक्ताः, ये मुक्तास् ते बद्धाः । इत्य् उक्तमात्रे तस्य पुरुषस्य मूर्ध्नि चक्रम् अन्तर्हितम्*, मैत्रकन्यकस्य मूर्ध्नि प्रादुर्भूतम्* । ततो दुःखार्तं मैत्रकन्यकम् अवेक्ष्य स पुरुषो गाथया प्रत्यभाषत:
अतिक्रम्य रमणकं सदामत्तं च नन्दनम्* ।
ब्रह्मोत्तरं च प्रासादं केन त्वम् इहागतः

36.2

मैत्रकन्यकः प्राह:
अतिक्रम्य रमणकं सदामत्तं च नन्दनम्* ।
ब्रह्मोत्तरं च प्रासादम् इच्छयाहम् इहागतः

36.3

दूरं हि कर्षते कर्म दूरात् कर्म प्रवर्तते ।
तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते

36.4

-------------------- वैद्य, प्. 92 --------------------
तेन कर्मविपाकेन चक्रं वहति मस्तके ।
आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्*

36.5

इति
पुरुष प्राह:
त्वया प्रदुष्टचित्तेन माता दुष्करकारिका ।
पादेनाभ्याहता मूर्ध्नि तस्य ते कर्मणः फलम्*

36.6

इति
मैत्रकन्यकः प्राह:
कति वर्षसहस्राणि चक्रं वर्त्स्यति मस्तके ।
आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्*

36.7

इति
पुरुष प्राह:
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
आदीप्तम् आयसं चक्रं तव मूर्ध्नि भ्रमिष्यति

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc