भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 35

35.1

यदा भगवता एतत् सूत्रं भाषितं तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् दानस्य वर्णं भाषते दानसंविभागस्य च फलविपाकम् इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यत् तथागतो दानस्य वर्णं भाषते, दानसंविभागस्य फलविपाकम् इति । यन् मयातीते ऽध्वनि याचनकहेतोर् मुखद्वारगतः स्वकवडः परित्यक्तः । तच् छ्रुणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ऽहम्* ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* (स्पेयेर्: अकण्ठकम् ) । एकपुत्रम् इव राज्यं कारयति । स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । यावद् अपरेण समयेन महद्दुर्भिक्षं प्रादुर्भूतं दुर्भिक्षान्तरकल्पसदृशम्* । ततस् ते जनकाया दुर्भिक्षाकालभयभीताः क्षुत्क्षामकण्ठकपोलाः प्रेताश्रयसदृशाः संगम्य समागम्यैकसमूहेन राजानम् उपसृत्य जयेनायुषा वर्धयित्वोचुः: देव परित्रायस्व अस्मान् अस्माद् दुर्भिक्षभयात्* । प्रयच्छ जीवितम् इति । ततो राजा कोष्ट्ःआगारिकं पुरुषम् आमन्त्रितवान्*: अस्ति भो पुरुष कोष्ठागारे अन्नपानं यद् अस्माकं स्याद् एषां च जनकायानाम्*? इति श्रुत्वा कोष्ठागारिक आह: परिगण्य देव सस्यानि आख्यास्यामीति । ततो गणितकुशलैर् गणनां कृत्वा सर्वेषां विषयनिवासिनां दिवसे दिवसे एककवडो राज्ञो द्वौ कवडाव् इयन्तं कालं भविष्यतीति समाख्यातम्* । ततो राजा जनकायान् आहूयोक्तवान्*: तेन हि भवन्तो दिवसानुदिवसम् आगत्य राजकुले कवडम् अभ्यवहृत्य गच्छतेति । ततस् ते प्रतिदिवसम् आगत्य प्रत्येकम् एकैकं कवडम् अभ्यवहृत्य यथेष्टं गच्छन्ति ॥
अथान्यतमो ब्राह्मणस् तस्यां गाणनायां नासीत्* । परेभ्यश् च श्रुत्वा राजानम् उवाच: देव जनपदगतेन मे श्रुता गणना । दीयतां ममापि कवड इति । ततो राजा स्वकात् कवडद्वयाद् एकं ब्राह्मणाय दत्तवान्* । एकं कवडं जनसामान्यम् अभ्यवहर्तुं प्रवृत्तः ॥
शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् अभवत्*: अतिदुष्करं बत वाराणसेयो राजा करोति, यन्व् अहम् एनं मीमांसेयेति । अथ शक्रो देवेन्द्रो ब्राह्मणवेषम् आत्मानम् अभिनिर्माय भोजनकाले राजानम् उपसृप्तः । जयेनायुषा च वर्धयित्वोवाच: बुभुक्षितो कुरुष्व स्वककवडेनानुग्रहम् इति । ततो राजा स्वजीवितपरित्यागं व्यवसायकारुण्यात् स्वकवडं ब्राह्मणाय दत्वानाहारतां प्रतिपन्नः । यावत् षड्भक्तच्छेदा अनेनोपक्रमेण कृताः । तं च महाजनकायं भुञ्जानं दृष्ट्वा परां प्रीतिम् आपेदे । अथ शक्रो देवेन्द्रस् तं राज्ञो ऽतिदुष्करं व्यवसायं दृष्ट्वा ब्राह्मणवेषम् अन्तर्धाप्य स्वेन रूपेण स्थित्वा राजानं संवर्धयामास: साधु साधु महाराज, आवर्जिता
-------------------- वैद्य, प्. 82 --------------------
वयं भवतानेन दुष्करेण व्यवसायेन, सनाथश् चायं जनकाय ईदृशेन प्रजापालकेन । न दुष्यतां तव विजिते सर्वबीजानि, वाप्य् अन्ताम्* । अहं सप्तमे दिवसे तथाविधं माहेन्द्रं वर्षम् उत्स्रक्ष्यामि, येन सर्वसस्यानि निष्पत्स्यन्त इति । राज्ञा तथा कारितम्* । शक्रेणापि तथाविधं महेन्द्रं वर्षम् उत्सृष्टम्*, येन दुर्भिक्षं विनिवर्तितं सुभिक्षं प्रादुर्भूतम्* ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजा बभूव, अहं स । मया तान्य् एवंविधे दुर्भिक्षे वर्तमाने स्वजीवितपरित्यागाद् एवंविधानि दानानि दत्तानि । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् दानानि दास्यामः पुण्यानि करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_33 धर्मपालः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । यदा देवदत्तेन मोहपुरुषेण भगवतो वधार्थेन धनपालको हस्तिनाग उत्सृष्टः, उदपानो विषचूर्णेन चावकीर्णः, वधकपुरुषाश् चोत्सृष्टाः । स भगवतो दीर्घरात्रं वधकः प्रत्यर्थिकः प्रत्यमित्रः, भगवांश् चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तेन न प्रत्युपस्थितः । तदा भिक्षवो भगवन्तं पप्रच्छुः: पश्य भगवन् यावद् अयं देवदत्तो भगवतो वधायोद्यतः, भगवांश् चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पचित्तेना प्रत्युपस्थित इति ॥
भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेन दहरकवयस्यवस्थितेन वधाय पराक्रान्तस्यास्यान्तिके नैवं चित्तं दूषितम्* । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ऽहम्* ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । तस्य च राज्ञो दुर्मतिर् नाम देवी चण्डा रोषणी साहसिका । एकपुत्रश् च धर्मपालो नाम्ना तस्या एव दुर्मत्याः सकाशाज् जातः । स च धर्मपालो दयावान् श्राद्धो भद्रः कल्याणाशय
-------------------- वैद्य, प्. 83 --------------------
आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । सर्वेषां च वाराणसेयानां ब्राह्मणगृहपतीनाम् इष्टः कान्तः प्रियो मनापो दर्शनेन । स चोपाध्यायसकाशं गत्वा दारकैः सह लिपिं पठति ॥

यावद् राजा अपरेण समयेन वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहान्तःपुरपरिवृत उद्यानभूमिं निर्गतः । तत्र च राज्ञ उद्याने ऽन्तःपुरजनेन सह क्रीडत ईर्ष्यारोषपरीता दुर्मतिर् देवी कुपिता । राज्ञा चास्या अर्धं पीतकं वर्जितम्* । तया कुपितया राज्चः संदेशो विसर्जितः: पुत्रस्याहं रुधिरं पिबेयम्*, यद्य् अहं तवार्धं पीतकं पिबेयम् इति । कामान् खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्माकरणीयम् इति । ततो राजा ब्रह्मदत्तो धार्मिको ऽपि सन् कामरागपर्यवसानविगमाद् अन्तःपुरजनेन सान्त्व्यमानो ऽपि क्रोधाग्निना प्रज्वलितः । ततस् तेन संप्रवृद्धक्रोधेनाज्ञा दत्ता: गच्छत, धर्मपालस्य गलं छित्वा रुधिरं पाययतैनाम् इति ॥
ततो दारकशालावस्थितो धर्मपालः कुमारः श्रुत्वा रोदितुं प्रवृत्तः । एवं चाह: धिक् सत्वसभागतां संसारे, यत्र नाम क्रोधवशाद् अङ्गनिःसृतम् अपि सुतं परित्यजन्तीति । ततो धर्मपालः सर्वालंकारविभूषितः पितुः पादयोर् निपत्य कथयति: साधु तात प्रसीद । निरपराधं मा मां परित्याक्षीः । इष्टाश् च सर्वेषां पितॄणां पुत्रा इति । राजा कथयति: पुत्रक यदि ते माता क्षमते, अहम् अपि क्षमे इति । ततो धर्मपालः प्ररुदन् मातुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कृतकरपुट उवाच: अम्ब क्षमस्व, मा मां जीविताद् व्यपरोपयेति । सा एवं करुणदीनविलम्बितैर् अक्षरैर् उच्यमाना न क्षमते । ततो वध्यघातैस् तीक्ष्णेन शस्त्रेण धर्मपालस्य कुमारस्य गलं छित्वा दुर्मतिर् देवी रुधिरं पायिता । न च दुर्मत्या विप्रतिसारो जातः । धर्मपालो ऽपि कुमारो मातापितृवध्यघातेषु चित्तं प्रसाद्य कालगतः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन धर्मपालो नाम कुमारो बभूव, अहं सः । सा दुर्मतिर् देवी, एष देवदत्तः । तदापि मे वधकहस्तगतेनास्य मैत्रं चित्तम् उत्पादितम्* । इदानीम् अप्य् अहम् अस्य वधायोद्यतस्य मैत्रचित्तो हितचित्तः अनुकम्पाचित्तः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् सर्वसत्वेषु मैत्रं चित्तं भावयिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_34 शिबिः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां
-------------------- वैद्य, प्. 84 --------------------
सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां भिक्षूणां द्वौ संनिपातौ भवतः । एक आषाढ्यां वर्षोपनायिकायां द्वितीयः कार्तिक्यां पूर्णमास्याम्* । तत्र भिक्षवः पात्राणि पचन्ति, चीवराणि धावयन्ति, पांसुकूलानि च सीव्यन्ति । यावद् अन्यतमो भिक्षुश् चीवरं स्योतुकामः सूचीछिद्रं सूत्रकं न शक्नोति प्रतिपादयितुम्* । स करुणदीनविलम्बितैर् अक्षरैर् उवाच: को लोके पुण्यकाम इति । भगवांश् चास्य नातिदूरे चंक्रमे चंक्रम्यते । ततो भगवान् गम्भीरमधुरविशदकलविङ्कमनोज्ञदुन्दुभिनिर्घोषो गजभुजसदृशबाहुम् अभिप्रसार्य कथयति: अहं भिक्षो लोके पुण्यकाम इति । ततो ऽसौ भिक्षुर् भगवतः पञ्चाङ्गोपेतं स्वरम् उपश्रुत्य संभ्रान्तस् त्वरितत्वरितं भगवतः पाणिं गृहीत्वा स्वशिरसि स्थापयित्वाह: भगवन्*, अनेन ते पाणिना त्रीणि कल्पासंख्येयानि दानशीलक्षान्तिवीर्यध्यानप्रज्ञा उपचिताः । अथ च पुनर् भगवान् एनम् आह: अतृप्तो ऽहं भिक्षो पुण्यैः, लब्धरसो ऽहं भिक्षो पुण्यैः, अतो मे तृप्तिर् नास्तीति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् पुण्यमयैः, संस्कारैर् अतृप्त इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तः । यत् त्व् अहम् अतीते ऽध्वनि सरागः सद्वेषः समोह्क्‍ह् ऽपरिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो तृप्तः पुण्यमयैः संस्कारैः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ऽहम्* ॥
भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च शिबी राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । स कल्यम् (स्पेयेर्: काल्यम् ) एवोत्थाय यज्ञवाटं प्रविश्य अन्नम् अन्नार्थिभ्यः प्रयच्छति, वस्त्रं वस्त्रार्थिभ्यः । धनधान्यहिरण्यसुवर्नमणिमुक्तावैडूर्यशङ्खशिलाप्रवालादीनां (स्पेयेर्: श्प्रवाडाश् ) परित्यागं करोति । न चासौ पुण्यमयैः संस्कारैस् तृप्तिं गच्छति । सो ऽन्तःपुरं प्रविश्यान्तःपुरजनस्य भक्ताच्छादनं प्रयच्छति, कुमाराणाम् अमात्यानां भटबलाग्रस्य नैगमजानपदानाम्* ॥
अथ राज्ञः शिबेर् एतद् अभवत्*: संतर्पिता अनेन मनुष्यभूताः, क्षुद्रजन्तो ऽवशिष्टाः, केन संतर्पयितव्या इति । स परित्यक्तविभवसर्वस्व एकशाटकनिवसितः स्वशरीरावशेषश् चिन्ताम् आपेदे । तस्यैतद् अभवत्: क्षुद्रजन्तुभ्यः स्वशरीरम् अनुप्रयच्छामीति । स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास् तत्रोत्सृष्टकायः प्रतिष्ठते । प्रियम् इवैकपुत्रकं रुधिरेण संतर्पयति ॥
शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् बहवत्*: किम् अयं शिबी राजा सत्वानाम् अर्थम् एवं करोति, उत करुणया? यन्व् अहम् एनं विज्ञासेयेति । ततो भिन्नाञ्जनम् असिवर्णं
-------------------- वैद्य, प्. 85 --------------------

गृध्रवेशम् आत्मानम् अभिनिर्माय राज्ञे शिबेः सकाशम् उपसंक्रम्य मुखतुण्डकेनाक्ष्युत्पाटयितुं प्रवृत्तः । न च राजा संत्रासम् आपद्यते । किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रम् आलोक्य कथयति: वत्स, यन् मदीयाच् छरीरात् प्रयुञ्जसे, तेन प्रणयः क्रियताम् इति । ततः आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेषम् आत्मानम् अभिनिर्माय राज्ञः शिबेः पुरस्तात् स्थित्वा: साधु पार्थिव, दीयताम् एतन् नयनद्वयम् इति । राजोवाच: महाब्राह्मण गृह्यतां यद् अभिरुचितम्*, न मे ऽत्र विघ्नः कश्चिद् अस्तीति । ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेषम् अन्तर्धाप्य स्वरूपेण स्थित्वा राजानम् अभ्युत्साहयन्न् उवाच: साधु साधु भोः पार्थिव, सुनिश्चिता ते बुद्धिः, अकम्प्यस् ते प्रणिधिः; अनुगता ते सत्वेषु महाकरुणा, यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशारदोः । न चिरात् त्वम् अनेन व्यवसायेनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शिबिर् नाम राजा बभूव, अहं स । तदानीम् अपि पुण्यमयैः संस्कारैस् तृप्तिर् नास्ति, प्राग् एवेदानीम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् दानानि दास्यामः, पुण्यानि करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_35 सुरूपः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदा मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्*, अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् आनेञ्जमानैर् (स्पेयेर्: अनिञ्जमानैर् )इन्द्रियैः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनभूताः सत्वा आदरेण श्रोतव्यं मन्यन्त इति । भगवान् आह: यथा तथागतेन भिक्षव आदरजातेन धर्मः श्रुतश् चोद्गृहीतश् च, तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुरूपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । तस्य च राज्ञः सुन्दरिका नाम देवी अभिरूपा दर्शनीया प्रासादिका
-------------------- वैद्य, प्. 86 --------------------
सर्वाङ्गप्रत्यङ्गोपेता, सुन्दरकश् च नाम्ना एकपुत्रः इष्टः कान्तः प्रियो मनापः क्षान्तो ऽप्रतिकूलः । अथापरेण समयेन राज्ञः सुरूपस्य धर्मे अभिलाष उत्पन्नः । तेन सर्वे अमात्याः संनिपात्योक्ताः: पर्येषत मे ग्रामण्यो धर्मान्, धर्मो मे रोचत इति । ततस् ते अमात्याः कृतकरपुटा राजानं विज्ञापयन्ति: दुर्लभो महाराज धर्मः । श्रूयते महाराज बुद्धानां लोके उत्पादाद् धर्मस्योत्पादो भवतीति । ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारितम्*: यो मे धर्मं वक्ष्यति, तस्येमं सुवर्णपिटकं दास्यामि, महता च सत्कारेण सत्करिष्यामीति । ततो बहवः काला अतिक्रान्ताः । न च कश्चिद् धर्मदेशक उपलभ्यते । ततः स राजा धर्महेतोर् उत्कण्ठति परितप्यति ॥
शक्रस्य च देवानाम् इन्द्रस्याधस्ताज् ज्ञनदर्शनं प्रवर्तते । स पश्यति राजानं धर्महेतोर् विहन्यमानम्* । तस्यैतद् अभवत्*: यन्व् अहं सुरूपां राजानम् मीमांसेयेति । ततो यक्षरूपम् आत्मानम् अभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानम् एतद् अवोचत्*: ननु धर्माभिलाषी भवान्*, अहम् ते धर्मं वक्ष्यामीति । ततो धर्मश्रवणात् प्रीतिप्रामोद्यजातो राजा यक्षम् एतद् उवाच: ब्रूहि गुह्यक धर्मान् श्रोष्यामीति । गुह्यक उवाच: सुखितस्य बत महाराज धर्मा अभिलसन्ति । बुभुक्षितो ऽस्मि भोजनं तावन् मे प्रयच्छेति । तच् छ्रुत्वा राजा पौरुषेयानाम् अमन्त्रयामास: आनीयन्ताम् अस्य भक्ष्यभोज्यप्रकारा इति । यक्ष आह: सद्योहतरुधिरमांसभक्ष्यो ऽहम्* । एतं मे सुन्दरम् एकपुत्रकं प्रयच्छेति । श्रुत्वा राजा परं विषादम् आपन्नः: कदाचित् कर्हिचिन् मे ऽद्य धर्मशब्द आसादितः । सो ऽप्य् अनर्घेण मूल्येनेति । ततः सुन्दरः कुमारस् तद् उपश्रुत्य पितुः पादयोर् निपत्य राजानम् विज्ञापयामास: मर्षय देव । पूर्यतां देवस्याभिप्रायम्*, प्रयच्छ मां गुह्यकायाहारार्थम् इति । ततो राजा तम् एकपुत्रकम् इष्टं कान्तं प्रियं मनापं क्षान्तम् अप्रतिकूलं धर्मस्यार्थे यक्षाय दत्तवान्* ।
ततो यक्षेण ऋद्धिबलाधानाद् रज्ञः पर्षदश् च तथा दर्शितो यथाङ्गप्रत्यङ्गानि पृथग्विकृत्य भक्षितानि, रुधिरं च पीयमानम्* । # # # दृष्ट्वा राजा धर्माभिलाषी न निषादम् आपन्नः । स गुह्यको राजानम् उवाच: अतृप्तो ऽस्मि भोः पार्थिव, भूयो मे प्रयच्छेति । ततो राजा तस्मै दयितां भार्यां दत्तवान्* । सापि तेनैवाकारेण दर्शिता । ततो भूयो राजानम् उवाचा: भो पार्थिव, अद्यापि तृप्तिर् न लभ्यत इति । ततो राजा यक्षम् उवाच: वत्स दत्तो मे एकपुत्रको भार्या च दयिता, किं भूयः प्रार्थयसे इति । गुह्यक उवाच: स्वशरीरं मे प्रयच्छ । अनेन तृप्तिम् उपयास्यामीति । राजोवाच: यदि स्वशरीरं ते प्रदास्यामि, कथं पुनर् धर्मं श्रोष्यामि? किं नु पूर्वं मे धर्मं वद, पश्चाद् गृहीतधर्मा शरीरं परित्यक्ष्यामीति । ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ट्ःआप्यानेकशतायाः परिषदः पुरस्ताद् धर्मो देशितः ॥
-------------------- वैद्य, प्. 87 --------------------
प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम्* ।
प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् इति

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc