अवदानशतक · अध्याय 32
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां पद्मको नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम् (स्पेयेर्: अकण्ठकम्) एकपुत्रम् इव राज्यं कारयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । तस्मिंश् च समये वाराणस्यां कालवैषम्याद् धातुवैषम्याद् वा व्याधिर् उतपन्नः । प्रायः सत्वानां पाण्डुरोगः संवृत्तः । ततो राज्ञा तान् दृष्ट्वा कारुणिकम् उत्पादितम्: मया ह्य् एषां परित्राणं करणीयं चिकित्सा चेति । ततः स राजा सर्वविषयनिवासिनो वैद्यान् संनिपात्य तेषां सत्वानां निदानम् आशयानुशयं चोपलक्ष्य
-------------------- वैद्य, प्. 79 --------------------
स्वयम् आरब्धश् चिकित्सां सर्वौषधसमुदानयं च कर्तुम्* । ततश् चिकित्स्यमानानां तेषां सत्वानां बहवः काला अतिक्रान्ताः । न च शक्यन्ते वैद्यद्रव्यौषधपरिचारकसंपन्ना अपि चिकित्सितुम्* । ततो राज्ञा सर्ववैद्यान् आहूय आदरजातेन पुनः पृष्टाः: को ऽत्र हेतुर् न मे दुश्चिकित्स्या इति । वैद्या विचार्य गुणदोषानेकमतेनाहुः: देव कालवैषम्याद् धातुवैषम्याच् च लक्ष्यामहे । अपि तु देव अस्त्य् एकभैषज्यं रोहितो नाम मत्स्यः । यदि तस्य प्राप्तिः स्यात्, शक्यन्ते चिकित्सितुम् इति । ततो राजा रोहितं मत्स्यं समन्वेषितुम् आरब्धः । स बहुभिर् अपि चारपुरुषैर् मृग्यमाणो न लभ्यते । ततस् ते राज्ञे निवेदितवन्तः ॥
अथ राजा अपरेण समयेन बहिर्याणाय निर्गच्छति । ते च व्याधिन एकसमूहेन स्थित्वा राजानम् ऊचुः: परित्रायस्व महाराज अस्मान् अस्माद् व्याधेः । प्रयच्छ जीवितम् इति । ततो राजा करुणदीनविलम्बितैर् अक्षरैर् उच्यमानस् तदातुरवचनं श्रुत्वा कारुण्याद् आकम्पितहृदयः साश्रुदुर्दिनवदनं चिन्तयामास: किं ममानेनैवंविधेन जीवितेन राज्यैश्वर्याधिपत्येन वा ईदृशेन, यो ऽहं परेषां दुःखार्तानां न शक्तो ऽस्मि शान्तिं कर्तुम् इति । एवं विचिन्त्य राजा महान्तम् अर्थोत्सर्गं कृत्वा ज्येष्ठं कुमारं राज्यैष्वर्याधिपत्येषु प्रतिष्ठाप्य बन्धुजनं क्षमयित्वा पौरामात्यांश् च क्षमयित्वा दीनान् समाश्वास्य अष्टाङ्गसमन्वागतं व्रतं समादाय उपरिप्रासादतलम् अभिरुह्य धूपपुष्पगन्धमाल्यविलेपनं च क्षिप्त्वा प्राङ्मुखं प्रणिधिं कर्तुं प्रारब्धः: येन सत्येन सत्यवचनेन महाव्यसनगतान् सत्वान् व्याधिपरिपीडितान् दृष्ट्वा स्वजीवितम् इष्टं परित्यजामि । अनेन सत्येन सत्यवाक्येन अस्यां वालुकायां नद्यां महान् रोहितमत्स्यः प्रादुर्भवेयम्* । इत्य् उक्त्वा प्रासादतलाद् आत्मानं मुमोच ॥
स पतितमात्रः कालगतो नद्यां वालुकायां महान् रोहितमत्स्यः प्रादुर्भूतः । इति देवताभिः सर्वविजिते शब्द उत्सृष्टः: एष दीर्घकालमहाव्याध्युत्पीडितानाम् अमृतकल्पो नद्यां वालुकायां महान् रोहितमत्स्य प्रादुर्भूतः इति । यतः सहश्रवणान् महाजनकायः शस्त्रव्यग्रकरः पिटकान् आदाय निर्गत्य विविधैस् तीक्ष्णैः शस्त्रैर् जीवित एव मांसान्य् उत्कर्तितुम् आरब्धः । स च बोधिसत्वो विकर्त्यमानशरीरस् तान् सर्वान् मैत्र्या स्फुरन् सबाष्पाश्रुवदनश् चिन्तयामास: लाभा मे सुलब्धाः यन् नाम इमे सत्वा मदीयेन मांसरुधिरेण सुखिनो भविष्यन्तीति । तद् अनेनोपक्रमेण सत्वान् द्वादशवर्षाणि स्वकेन मांसरुधिरेण संतर्पयामास, न चानुत्तरायाः सम्यक्संबोधेश् चित्तं निवर्तितवान्* ॥
यदा तेषां सत्वानां स व्याधिर् उपशान्तस् तदा तेन रोहितमत्स्येन शब्द उदीरितः: शृण्वन्तु भवन्तः सत्वाः । अहं स राजा पद्मकः । मया युष्माकम् अर्थे स्वजीवितपरित्यागेनायम् एवंविध आत्मभाव उपात्तः । ममान्तिके चित्तं प्रसादयध्वम्* । यदाहम् अनुत्तरां सम्यक्संबोधिम्
-------------------- वैद्य, प्. 80 --------------------
अभिसंभोत्स्ये, अहं तदा युष्मान् अत्यन्तव्याधेः परिमोच्य अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापयिष्यामीति । तच्छ्रवणात् स जनकायो लब्धप्रसादो राजामात्यपौराश् च पुष्पधूपमाल्यविलेपनैर् अभ्यर्च्य प्रणिधानं कर्तुम् आरब्धाः: अतिदुष्करकारक, यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येथाः, तदा ते वयं श्रावकाः स्यामेति ।
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पद्मको नाम राजा बभूव, अहं स । यद् एवंविधाः परित्यागाः कृताः, तेन मे संसारे ऽनन्तसुखम् अनुभूतम्* । इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः, समपाकया च ग्रहण्या समन्वागतः । येन मे अशितपीतखादितास्वादितं सम्यक् सुखेन परिणमति । अल्पाबाधो रोगतातीतश् चास्मि । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् सर्वसत्वेषु दयां भावयिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_32 कवडः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: सचेद् भिक्षवः सत्वा जानीयुर् दानस्य दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपकाम्*, अपीदानीं यो ऽसाव् अपश्चिमकः कवडश् चरम आलोपः, ततो ऽपि नादत्वा असंविभज्य परिभुञ्जीत सचेल् लभेत दक्षिणीयं प्रतिग्राहकम्* । न चैषाम् उत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्* । यस्मात् तर्हि सत्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकम्*, यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्*, तस्मात् ते अदत्वा असंविभज्य परिभुञ्जते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति ॥
इदम् अवोचद् भगवान्* । इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता:
एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा ।
विपाकः संविभागस्य यथा भवति महार्थिकः
नादत्वा परिभुञ्जीरन् न स्युर् मत्सरिणस् तथा ।
न चैषाम् आग्रहे चित्तम् उत्पद्येत कदाचन
-------------------- वैद्य, प्. 81 --------------------
यस्मात् तु न प्रजानन्ति बाला मोहतमोवृताः ।
तस्मात् तु भुञ्जते सत्वा आगृहीतेन चेतसा ।
उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0