भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 31

31.1

इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द एभिर् गोष्ठिकैर् ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एते आनन्द गोष्ठिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च विंशत्यन्तरकल्पान् विनिपातं न गमिष्यन्ति, पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे वल्गुस्वरा नाम प्रत्येकबुद्धा भविष्यन्ति । अयम् एषां देयधर्मो यो ममान्तिके चित्तप्रसाद इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 78 --------------------
चतुर्थो वर्गः ।
तस्योद्दानम्:
पद्मकः कवडश् चैव धर्मपालः शिबिस् तथा ।
सुरूपो मैत्रकन्यश् च शशो धर्मगवेषिणा ।
अनाथपिण्डः सुभद्रश् च वर्गो भवति समुद्दितः ॥
अव्श्_31 पद्मकः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । शरत्कालसमये भिक्षवो रोगेण बाध्यन्ते पीतपाण्डुकाः कृशशरीरा दुर्बलाङ्गाः । भगवांस् त्व् अल्पाबाधो ऽल्पातङ्को ऽरोगो बलवान्* । तद्दर्शनाद् भिक्षवो भगवन्तं पप्रच्छुः: पश्य भदन्त एते भिक्षवः शारदिकेन रोगेण बाध्यन्ते, पीतपाण्डुकाः कृशशरीरा दुर्बलाङ्गाः । भगवांस् त्व् अल्पाबाधो ऽल्पातङ्को बलवान् अरोगजातीयः, समपाकया च ग्रहण्या समन्वागत इति ॥
भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । *{औछ्: कर्माणि कल्पकोटिशतैर् अपि।}*
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc