अवदानकल्पलता · अध्याय 9
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रीगुप्तावदानं नाम अष्टमः पल्लवः ॥
9. ज्योतिष्कावदानम् ।
धन्यानामशिवं बिभर्ति शुभतां भव्यस्वभावोद्भवं
मूर्खाणां कुशलं प्रयात्यहिततामित्येष लक्ष्यः क्रमः ।
निशीथतिमिरान्ध्यमौषधिवनस्यात्यन्तकान्तिप्रदं
एतच्चौलुककूलदृष्टहतये सर्वत्र मैत्रं महः
पुरा राजगृहाभिख्ये बिम्बिसारस्य भूपतेः ।
अभूत् पौरः सुभद्राख्यः परिपूर्णगृहस्थितेः
मौर्ख्यान्मोहप्रपन्नस्य सर्वदर्शनविद्विषः ।
तस्य क्षपणकेष्वेव बभूवाभ्यधिकादरः
तस्य सत्यवती नाम जायाभिजनशालिनी ।
गर्भमाधत्त पूर्णेन्दुबिम्बं पौरदरीव दिक्
कलन्दकनिवासाख्यो वेणुकाननसंश्रयः ।
कदाचित् भगवात् बुद्धः प्राप्तः पिण्डाय तर्गृहम्
पूजां सभार्यः कृत्वात्मै तं स पप्रच्छ सादरः ।
गर्भस्थितमपत्यं यत् किंरूपं तद्भविष्यति
सो ऽवदत् संपदं भुक्त्वा पुत्रस्ते दिव्यमानुषीम् ।
प्रव्रज्यया शासने मे संयुक्तो मुक्तिमेष्यति
याते भगवति स्पष्टमित्यादिश्य निजाश्रयम् ।
अभ्याययौ गृहपतेर्भूरिकः क्षपणो गृहम्
भगवद्भाषितं तत्तु सुभद्रेण निवेदितम् ।
श्रुत्वा क्षपणकह् क्षिप्रमभूद्देषविषाकुलः
गणयित्वा स सुचिरं ग्रहज्ञानकृतश्रमः ।
यदेवोक्तं भगवता प्रश्ने ऽपश्यत्तथाविधम्
सो ऽचिन्तयदयो सत्यमुक्तं तेन न संशयः ।
तत्प्रभावोपमादाय किं स्वसत्यं वदाम्यहम्
तस्य सर्वज्ञतां वेत्ति सुभद्रो यदि मद्गिरा ।
तदेष क्षपणश्रद्धां त्यक्ष्यति श्रमणादरात्
इति संचिन्त्य सामर्षः स सुभद्रमभाषत ।
असत्येमेतत् कथितं तेन सर्वज्ञमानिना
मनुष्यः कथमाप्नोति देवार्हां दिव्यसंपदम् ।
प्रव्रज्या किं तु सत्येव कथं तेनास्य चिन्तिता
क्षीणः क्षुदुपसंतप्तो यस्य नास्त्यन्यतो गतिः ।
तस्य तस्य सुभिक्षार्हं शरणं श्रमणव्रतम्
पश्याम्यहं गृहपते प्रमाणं यदि मद्वचः ।
प्रत्युतायं शिशुर्जातः कुलं संतापयिष्यति
इत्युदीर्य क्षपणके याते गृहपतिश्चिरम् ।
विचार्य विदधे तां ताम् युक्तिं गर्भनिपातने
यदा द्रव्यप्रयोगे ऽपि नैव गर्भह् परिच्युतः ।
तदास्य पत्नीमवधीदेकान्ते हठमर्दनैः
ततः शीतवनं तस्यां श्मशानं तेन पापिना ।
प्रापितायाम् क्षपणकास्तद्वार्तानन्दिता जगुः
अहो बताहो सर्वज्ञः शिशोः सत्यं तदुक्तवान् ।
सेयं सूनावजाते ऽस्य जननी पञ्चतां गता
इयं सा श्रीः शिशोर्दिव्या सोक्ता दिव्यमनुष्यता ।
इयं च सास्य प्रव्रज्या यत् कुक्षौ निधनं गतः
इति तेषां प्रवादेन सोपहासेन सर्वतः ।
श्मशानदर्शनायैव बभूव जनसंगमः
अत्रान्तरे दिव्यदृशा भगवान् भूतभावनः ।
सर्वं विज्ञाय तद्बुद्धः प्रदध्यौ सस्मितः क्षणम्
अहो मोहानुबन्धेन दूरस्थैरपि देहिनाम् ।
आलोकश्छाद्यते मूर्खैर्मेघैरिव विकारिभिः
शुभं क्षपयता तेन क्षपणेन स मुग्धधीः ।
अहो गृहपतिः पापादकार्यमपि कारितः
इति संचिन्त्य बह्गवान् स्वयं भिक्षुगणैर्वृतः ।
ययौ शीतवनं क्षिप्रं श्मशानं करुणाकुलः
श्मशानचारिकां ज्ञात्वा राजा भगवतः स्वयम् ।
बिम्बिसारः सहामात्यैस्तामेव भिवमाययौ
ततः सुभद्रजायायां प्रक्षिप्तायां चितानले ।
कुक्षिं भित्त्वाम्बुजासीनः शिशुः सूर्य इवोद्ययौ
ज्वालिताणलमध्यस्थं तं कश्चिन्नाग्रहीद्यदा ।
तदा जनसमूहस्य हाहाकारो महानभूत्
ततस्तं संभ्रमावृद्धगतिः सुगतशासनात् ।
कुमारभृत्यो जग्राह जीवकाख्यः कुमारकम्
जिनावलोकनेनैव बालकग्रहणक्षणे ।
अभूच्चितानलस्तस्य हरिचन्दनशीतलः
जीवन्तं ज्वलनान्मुक्तं रुचिरम् वीक्ष्य दारकम् ।
वैलक्ष्येण क्षपणकाः क्षणं तस्थुर्मृता इव
ततः सुभद्रं भगवान् सर्वभूतहिते रतः ।
बभाषे विस्मयोद्भान्तं पुत्रो ऽयं गृह्यतामिति
स तु दोलाकुलमतिः किं करोमीति संशयात् ।
क्षपनानां मुखान्येव शिक्षायै क्षणमैक्षत
ते तमूचुर्न बालो ऽयं ग्राह्यः श्माशानवह्निजः ।
यत्रायं तिष्ठति व्यक्तं न भवत्येव तद्गृहम्
इति तेषां गिरा मूर्खः स जग्राह न तं यदा ।
तदा क्षितिपतिर्बालमाददे जिनशासनात्
ज्योतिर्मध्यादवाप्तस्य ज्योतिष्कसदृशत्विषः ।
ज्योतिष्क इति नामास्य चकार भगवान् स्वयम्
तस्य प्रवर्धमानस्य भूपालबह्वने शिशोः ।
देशान्तरगतः काले मातुलः समुपाययौ
स विदित्वा स्वसुर्वृत्तं निधनं पुत्रजन्मनि ।
कोपात् सुभद्रमभ्येत्य कम्पमानः समभ्यघात्
मूर्ख क्षपणभक्तेन तद्गिरा हतयोषिता ।
त्वया त्यक्तस्वपुत्रेण किं नाम सुकृता कृतम्
निश्चेतनाः स्वभावेन परमन्त्रसमुत्थिताः ।
सहन्तो ऽपि विनिघ्नन्ति वेताला इव दुर्जनाः
अधुनैव न गृह्णासि यदि राजगॄहात् सुतम् ।
तत्ते स्त्रीवधमुद्धुष्य कारयाम्यर्थनिग्रहम्
इत्युक्तस्तेन तद्भीत्या स भूपतिगृहात् सुतम् ।
आनिनाय चिरान्मुक्तमकामेन महीभुजा
ततः सुभद्रे कालेन कालस्य वशमागते ।
अभून्निर्दिर्विभूतीनां ज्योतिष्को ऽर्क इव त्विषाम्
अर्थिकल्पद्रुमः प्राय संपदं दिव्यमानुषीम् ।
स बुद्धधर्मसंघेषु शरण्येष्वकरोन्मतिम्
तद्भक्त्युपनतं दिव्यरत्नसंचयमद्भुतम् ।
प्रददौ भिक्षुसंघेभ्यः पुण्यरत्नार्जनोद्यतः
तस्य देवनिकायेभ्यः साश्चर्या विविधर्द्धयः ।
स्वयमेवाययुर्वेश्म महोदधिमिवापगाः
तृणे रत्ने च समधीर्भवगानपि तद्गृहे ।
चक्रे तदनुरोधेन रत्नपात्रपरिग्रहम्
स दिव्यवस्त्रयुगलं यशसामुपमाक्षमम् ।
प्राप पुण्यपणक्रीतं निजं गृहमिवामलम्
कदाचिदथ तद्वस्त्रंस्नानार्द्रं न्यस्तमातपे ।
समीरणेनापहृतं न्यपतन्मूर्धि भूपतेः
विलोक्यापूर्वरुचिरम् ज्योतिष्कस्य तदंशुकम् ।
विद्यश्रीविस्मितो राजा तृणं मेने निजश्रियम्
भोक्तुं निमन्त्रितः प्राप्य तस्य रत्नमयं गृहम् ।
नृपतिः स्वर्गमज्ञासीत् ज्योतिष्कभवनस्थितः
अथ कालेन भूपालः पुत्रेणाजातशत्रुणा ।
छद्मना राज्यलुब्धेन धर्मशीलो निपातितः
अतीते सद्गुणे राज्ञि तस्मिन् कृतयुगोपमे ।
अधर्म इव स प्राप राज्यं राजवरात्मजः
स भूभृद्दुर्लभां दृष्ट्वा ज्योतिष्कस्य गृहे श्रियम् ।
तमुवाच समभ्येत्य मत्पित्रा त्वं विवर्धितः
भ्राता तवाहं धर्मेण विभवार्धं प्रयच्छ मे ।
न चेद्भागधन्द्रोहात् कलिरेव प्रजायते
इत्युक्तस्तेन कौटिल्यात् ज्योतिष्कः क्रूरकारिणा ।
रत्नपूर्णं गृहं तस्मै दत्वा प्रायात् परं गृहम्
सा दिव्यरत्नरुचिरस्फीता लोकोपकारिणी ।
ह्योतिष्कमेवानुययौ श्रीः प्रभेव दिवाकरम्
पुनस्त्यक्तापि सा संपत् सप्तकृत्वः प्रभावती ।
ज्योतिष्कमस्पृष्टनृपा साध्वी परिमिवाययौ
सर्वस्वाहरणोद्युक्तं दस्युचौरादियुक्तिभिः ।
ज्योतिष्कः कुपितं ज्ञात्वा निर्विण्णः समचिन्तयत्
अपुण्यपरिपाकेण प्रजानां जनकोपमः ।
संयातः स्मृतिशेषत्वं राजा वात्सल्यपेशलः
को ऽन्यस्तत्सदृशो यस्मिन् निर्व्याजसरले प्रजाः ।
पितरीव कृताश्वासाः सुखं रात्रिषु शेरते
धनिनस्तृणवत्प्राप्याः प्राप्यन्ते रत्नवद्बुधाः ।
अमृतादपि दुष्प्राप्यः सौजन्यसरलो जनह्
निर्व्याजवैदग्ध्यजुषाममुग्धसरलात्मनाम् ।
अनुद्धतोन्नतानां च विरलं जन्म तादृशाम्
अधुना द्वेषदुर्वृत्तः प्रवृत्तनिकृतिर्नृपः ।
पापपाकेन लोकानामकाले कलिरागतः
मित्रे जगति याते ऽस्तं तस्मिन् भास्वति भूपतौ ।
दोषोदयः प्रवृद्धो ऽयमन्धकाराय तत्सुतः
नूनं सतामतीतानां निष्कारणसुहृत् खलः ।
यद्वृत्तपरभागेण यशस्तेषां प्रकाशते
तस्मादियं परित्याज्या नृपत्यधिष्ठिता मही ।
काले क् अलौ क्षितीशे च जनानां जीवितं कुतः
वरपरिचयोदारा दाराह् सतां गुणिनाम् गुणाः
कुलमविकलं भव्या भूतिर्यशः शशिसंनिभम् ।
स्थितिसमुचितं वृत्तं वित्तमनिमित्तमनापदं
गुणवति नृपे सर्वं भवत्यपांशुलं प्रजाकुलम्
धर्मद्रुमस्य धनमूलसमुद्गतस्य निर्दोषकामकुसुमप्रवरोज्ज्वलस्य ।
लोकः सुखानि किल पुण्यफलानि भुङ्क्ते हतो न चेत् कुनृपतेर्विनिपातवातैः
कलिः कालः पतिर्बालस्तत्प्रतापश्चितानलह् ।
अकालविप्लवोत्तालखलवेतालसंकुलः
प्रीतिर्विषण्णा खिन्ना धीः सुखश्रीर्गतयौवना ।
अधुना विभवाभोगे भोगयोगे न मे रुचिः
धनं भूमिर्गृहः दाराः सुता भृत्याः परिच्छदाः ।
अहो निरवधिः पुंसामाधिव्याधिपरिग्रहः
यथा यथा विवर्धन्ते ग्रीष्मोष्मविषमाः श्रियः ।
तथा तथा ज्वलत्येव तृष्णातापः शरीरिणाम्
प्रवृद्धैरपि वित्तौघे राजन्योपार्जितैर्नृणाम् ।
लवणाब्धेरिव जलैर्वितृष्णा नैव जायते
नास्ति नास्तीत्यसंतोषाद् य एव धनिनां जपः ।
पुबर्भवे भवेत् को वा स एव प्रशमो यदि
किं वित्तैर्दुर्निमित्तैः कलिकलहमोहलोभानुवृत्तैः किं भोगैर्विप्रयोगैर्व्यसनशतपतनाभ्याससंसक्तरोगैः ।
किं वा मिथ्याभिमानैर्नरपतिसदनप्रातसेवावमानैः
अस्मिन् वैराग्यमेव क्षयसमयभये भोग्यमारोग्ययोग्यम्
अतिक्रान्ते काले स्वजनसुहृदालोकविमले
समापन्ने मोहप्रबल (तर) कालुष्यमलिने ।
सुखाश्वासह् पुंसां प्रशमसलिलस्नातमनसां
परित्यक्तायासे विजनवनवासे परिवयः
इति संचिन्त्य स चिरं परं वैराग्यमाययौ ।
दुःखं मोहाय मूर्खाणां विवेकाय च धीमताम्
स दत्वा सर्वमर्थिभ्यः प्रययौः सुगताश्रमम् ।
श्रीशृङ्खलाकृष्टमतिर्न हि सत्यसुखोन्मुखः
यदैव राझंसेन स्मर्यते शुचि मानसम् ।
तदैवास्मै वसुमती सरसीव न रोचते
याते दुःसहमोहधूममलिने भोगानुरागानले
संतोषामृतनिर्झरेण मनसि प्राते शनैः शीतताम् ।
नैताः पानमदोत्तरङ्गविचलद्वाराङ्गराङ्गनाभङ्गुर-
भ्रूभङ्गक्षणसंगमाः शमवतां कुर्वन्ति विघ्नं श्रियः
सर्वज्ञशासनविनष्टभवाध्वकष्टः प्रव्रज्यया विमलमेव पदं प्रविष्टः ।
संप्राप्य सर्वसमतामसमप्रकाशः निर्लक्ष्यमोक्षगमनाय मुनिर्बभूव
ताम् बोधिसिद्धिमालोक्य ज्योतिष्कस्य सविस्मयैः ।
भिक्षुभिर्भगवान् पृष्टः प्राग्वृत्तान्तमभाषतः
जन्मक्षेत्रशतोप्तानां बीजानामिव कर्मणाम् ।
भुज्यते फलसंपत्तिरविसंवादिनी जनैः
राज्ञो बन्धुमतः पुर्यां बन्धुमत्याम् महायशाः ।
अभूदनङ्गनो नाम श्रीमान् गृहपतिः पुरा
शास्ताथ सम्यक्संब्य्द्धो विअश्वी नाम ता पुरीम् ।
जनचारिकया प्रातः कदाचित् सुकृतैः सताम्
द्वाषष्टिभिः स भिक्षूणां सहसैः परिवारितः ।
श्रद्धयानङ्गनेनैत्य प्रणम्योपनिमन्त्रितः
सर्वोपकरणैस्तेन त्रैमासं परिचारितः ।
यथा तथैव राज्ञापि प्रणिपत्य निमन्त्रितः
भोगैः स्पर्धानुबन्धेन स ताभ्यामधिवासितः ।
अनङ्गनेन पौरार्हैर्भूपालार्हैश्च भूभुजा
गजध्वजमणिच्छत्रचामरोदारया श्रिया ।
तं दृष्ट्वा पूजितं राज्ञ चिन्तार्तो ऽभूदनङ्गनः
तस्य सत्त्वावदातस्य पक्षपाती शतक्रतुः ।
चकार दिव्यया लक्ष्म्या साहाय्यां जिनपूजने
स तया दिव्यया भूत्या भगवन्तमपूजयत् ।
यदग्रे चक्रवर्तिध्रीर्लज्जाभाजनताम् ययौ
रत्नैर्न्यक्षतचन्द्रसूर्यभानराकंकीरणैरावणभैर् (?)
अम्लानाम्बरगन्धमाल्यशबलैः कम्पद्रुमाणां फलैः ।
भक्तिप्रह्वश्चीविलासचनाहेलोच्छसच्चामरं
तेनाभ्यर्चितमाकलय्य सुगतं लज्जानतो ऽभून्नृपः
इति बहुतरं भक्त्या शास्तुः फलं तदनङ्गनः
शुभपरिणतेः पुण्योदारः पुरा समवाप्तवान् ।
विमलमनसस्तस्यैवासौ क्षणप्रणिधानतः पर
इव रविज्योतिष्को ऽभूत् स एव पदाश्रितः
इत्याह विमलज्ञानप्रकाशितगत्र्त्रयः ।
प्रणीधानोपदेशाय भिक्षूणां भगवान् जिनः
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0