अवदानकल्पलता · अध्याय 10
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां ज्योतिष्कावदानं नाम नवमः पल्लवः ॥
10. सुन्दरीनन्दावदानम् ।
ते के ऽपि सत्त्वहितसंनिहितानुकम्पा भव्या बह्वन्ति भुवने बह्वभीतिभाजाम् ।
वात्सल्यपेशलधियः कुशलाय पुंसां कुर्वन्ति ये वरमनुग्रहमाग्रहेण
न्यग्रोधारामनिरतं द्रुष्टुं कपिलवस्तुनि ।
भगवन्तं ययौ नन्दः शाक्यराजसुतः पुरा
नैष्कम्यदेशनामन्त्रकथान्तेस पुरःस्थितम् ।
उवाच भगवान् प्रीत्या प्रव्रज्या गृह्यतामिति
प्रसाद्याभिनिवेद्यास्य तं नन्दः प्रत्यभाषतः ।
भगवन् पुण्यलाभापि प्रव्रज्याभिमता न मे
सर्वोपस्थायको भूत्वा भिक्षुसंघं यथेप्सितैः ।
सर्वोपकरणैस्तावत् भिक्ष्यं परिचराम्यहम्
इत्युक्त्वा रत्नमुकुटैः स्पृष्टतत्पादपङ्कजः ।
राजपुत्रः स्वभवनं ययौ जायासमुत्सुकः
स सुन्दरी समासाद्य दयिताम् रतिसुन्दरीम् ।
विजहार वरोद्यानं मुहूर्तविरहासहः
ततः कदाचिद् भगवान् प्रकृत्यैव गुणिप्रियः ।
स्वयं नन्दस्य भवनं भिक्षुसंघैः सहाययौ
सानन्दवदनः कृत्वा नन्दस्तत्पादवन्दनां ।
तं महाहर्सनासीनं पूजयित्वा व्यजिज्ञपत्
केषां पुण्यप्ररोहाणां परिपाको ऽयमीदृशः ।
कृतो ऽयं यद्भगवता दर्शनानुग्रहः स्वयम्
स्मरणं श्रवणं वापि दर्शनं वा महात्मनाम् ।
सेयं कुशलवल्लीनां महती फलसंततिः
अस्य मैत्रस्य महतस्तदालोकस्य दर्शनात् ।
हृदयस्य विकासश्रीः कस्य नाम न जायते
दानादपि प्रियतरं पुण्यादपि महाफलम् ।
सदाचारादपि श्र्लाघ्यं महतां किलं दर्शनम्
इति तस्य ब्रुवाणस्य भक्तिप्रणयपेशलम् ।
अभिनन्द्य पुरः पूजां भगवान् गन्तुमुद्ययौ
अनुवव्राज तं नन्दः स्वच्छे कनकभाजने ।
वरोपचारमादाय मधुरं स्वमिवाशयम्
पह्चाद्व्रजन्तमालोक्य भक्त्या भगवतः पथि ।
निरैक्षत कटाक्षेण सुन्दरी विरहासहा
गुरूणामग्रे सा सरलतरलां लोचनगतिं
विहायैव त्रासाञ्चितमुकुतिताक्षी प्रियतमा ।
निरीक्ष्यालक्ष्यं यत् क्षणमवनताभूत्तदधिकं
न गन्तव्यं नाथेत्यवददिवं मओनादवचनम्
नन्दः प्रणयिणीं दृष्ट्वा सोच्छ्वासं चलिताननाम् ।
अयमागत एवाहमचिरादित्यभाषत
ततः स्वमाश्रमं प्राप्तं भगवन्तं कृताञ्जलिः ।
व्रजामि स्वगृहं तावदित्याह विरहासहः
ततस्तमासनासीनः प्रणतं भगवान् पुरः ।
उवाच सस्मितं केयं गमने संप्रति त्वरा
विषयास्वादसौहार्दसंमोहार्दितवेतसाम् ।
अहो गृहसुखेष्वेव निर्वेदविमुखा मतिः
गुणाभरणमेवायुर्विवेकाभरणो गुणः ।
प्रशमाबह्रणश्चासौ वैराग्याभरणः शमः
तज्जाड्यं तदसह्यशल्यशलकं न्यस्तं सुहृच्चेतसि
प्राज्ञिस्तद्गणितं विराचसमयैर्वैफल्यमेवायुषः ।
यद्वैराग्यविवेकशून्यमनसामेते पशूनां यथा
यान्त्यायान्ति च चक्रनेमिचलनैर्निर्लक्षणानां क्षणाः
पुण्यं सत्त्ववताम् श्रुतं मतिमताम् शीलं च विद्यावताम्
सर्वं भाग्यवताम् सुखं शमवतां नैव क्कचित् दुर्लभम् ।
दुष्प्रापस्तु समस्तवस्तुवसतेः स्वल्पांशको ऽप्यायुषः
तद्यस्य क्षयमेति निष्फलतया शोच्याय तस्मै नमः
वामावर्ते विषयजलधौ पूर्णलावण्यसारे दर्पोत्सर्पद्विषममकराङ्कोद्भवक्षोभ्यमाणे ।
नित्यासन्नप्रबलविरजप्रज्ज्वलद्वाडवाग्नौ
पुंसां सेतुस्तरणशरणे तीव्रवैराग्यमेव
तस्माद्गृहाण प्रव्रज्यां राजपुत्र जितेन्द्रियः ।
एताः स्त्रिय इव क्षिप्रं समगमसुखाः श्रियः
क्रियताम् कुशलायैव ब्रह्मचर्यपरिग्रहः ।
त्यज्यतामेष निःसारगृहसंसारदुर्ग्रहः
इति श्रुत्वा भगवतः करुणाबह्रणं वचः ।
प्रत्यभाषत तं नन्दः पूर्वप्रणययन्त्रितः
सदा भवदुपायैव प्रव्रज्या भगवन् मम ।
भिक्षुसंघोपकारार्थे गृह एवादरः परम्
इत्युक्त्वा भगवद्वाक्यमतिक्रान्तुमनीश्वरः ।
कृष्यमाणः प्रियाप्रेम्णा सो ऽभूद्दोलाकुलाशयः
पुनः पुनश्चकारास्य भगवान् व्रतदेशनाम् ।
उपकारोद्यताः सन्तश्चिन्तयन्ति न योग्यताम्
यदा नेच्छति नन्दस्ताम् प्रव्रज्यामजितेन्द्रियः ।
तदास्य बह्गवद्वाक्यमपतद्वपुषि स्वयम्
नन्दः काषायावरणः पात्रपाणिः स तत्क्षणम् ।
बभौ चाभीकररुचिर्महापुरुषलक्षणैः
स शासनाज्जिनस्याभूदारण्यपिण्डपात्रिकह् ।
आकारादनगारताम् प्रयातः पांशुकूलिकः
प्रियामुवाह सततं श्यामां प्रव्रजितो ऽपि सः ।
शशाङ्क इव संव्यक्तां हृदये लाञ्छनच्छविम्
मनसः स्फटिकस्येव न विद्मः केन वर्त्मना ।
रागः को ऽपि विशत्यन्तर्नापैति क्षालितो ऽपि यः
विरहापाण्डुररुचिः संसक्तारुणचीवरः ।
स संध्याभ्रकलङ्कस्य जहार शशिनः श्रियम्
विचरन् विरहाक्षमः स विस्मॄतधृतिर्वने ।
जन्मविद्यामनङ्गस्य न विसस्मार सुन्दरीम्
संपूर्णचन्द्रवदनावदनध्याननिश्चलः ।
अचिन्त्यच्चिरं तत्तदुपविष्य शिलातले
अहो भगवताप्येष कृतो यत्नादनुग्रहः ।
नायाति मम वैमल्यं रागाधिष्ठितचेतसः
श्रुतं संसारचरितं निःसङ्गव्रतमास्थितम् ।
तथापि मृगसावाक्षीं न विस्मरति मे मनः
कान्ताकुङ्कुमलग्नरागसुभगे गात्रे कृतं चीवरं
तत्पीनस्तनमण्डलप्रणयिना पात्रं धृतं पाणिना ।
रागो ऽयं मम वर्धते ऽस्य यदि वान्यस्येव वृद्धिः परं यद्बोधिव्यवधानभूतमनिशं ध्यानं तदालम्बनम्
क्षणेन मां प्राप्तमवेहि मुग्धे तामेवमुक्त्वा गमने पुरस्तात् ।
अहो मया दर्शनविघ्नभूतं पश्चात् कृतघ्नव्रतमेतदात्तम्
नो गन्तव्यमिति प्रकम्पतरला वाक्यं यदूचे न सा
संत्यज्य व्यजनं स्थिते गुरुजने जग्राह पाण्यञ्चलम् ।
यत्पादेन लिखन्त्यपि क्षितितलं मामौक्षतालक्षिता
तेनात्यन्तनिषेधमुग्धविधिना बद्धं तया मे मनः
मद्वियुक्ता न सा नूनं शेते शोकप्रलापिनी ।
पुलिने चक्रवाकीव हर्म्ये हरिण्यलोचना
हा प्रिये तक्तसक्तेन कितवेनेव केवलम् ।
श्रितं तच्चित्तचौरेण मिथ्याव्रतमिदं मया
त्यक्त्वा व्रतमिदं तावद् गच्छाम् इदयितान्तिकम् ।
अनुरागाग्नितप्तानां तपस्तापो हि दुःसहः
राजपुत्री चिरायातं नृशंसमवलोक्य माम् ।
मन्युना नवलग्नेन न जाने किं करिष्यति
न सर्वत्र विकाराय निकारः प्रेमदुःसहः ।
दुर्निवारो भवत्येव स्नेहलीनो रजःकणः
यस्मिन् क्षणे भगवता पश्यामि रहितं वनम् ।
मया तदैव गन्तव्यं गॄहमित्येष निश्चयः
अस्मिन्नेव शिलापट्टे रुचिरैर्गिरिधातुभिः ।
लिखामि ताम् शशिमुखीं संर्पाप्यालम्बनं धृतेः
अथवा कथमालेख्यविषयं याति सा प्रिया ।
सौन्दर्यबिद्नको यस्याः सुधाकुवलयेन्दवः
दृष्टिर्मुग्धकुरन्गसंचलदलिव्याप्तोत्पलोद्वातनी
लावण्योदधिकूलविद्रुमवनं बिम्बाधराग्रत्विषः ।
निर्दोषामृतरश्मिसार्थसरणिः सा कापि वक्त्रद्युतिः
सौन्दर्यं कथमेति चित्रपदवीश्चर्यसारं वपुः
इति संचिन्त्य स शनैरालिलेख शिलातले ।
सुन्दरीं मुखमुक्ताश्रुस्नातकम्पाकुलाङ्गुलिः
स संकल्पसमुद्गीर्णं प्रतिबिम्बमिवाश्रिताम् ।
कृत्वा पुरः प्रियतमामूचे ऽदर्बाष्पगद्गदः
प्रियामालिख्याहं निखिलसुखवृष्टिं नयनयोर्
न पश्याम्युद्बाष्पः क्षणमपि शरच्चन्द्रवदनाम् ।
अयं नूनं तन्वीविरहनिरपेक्षव्रतवतः
स्फुरत्तापः शापः किमपि मम पापादुपनतः
फुल्लाम्भोजवनत्विषा स्पृहावशासक्ताश्रुतोयं वपुस्
तत्कालोपगतान्तरायजनितः कोपः समुत्सृज्यताम् ।
हंहो सुन्दरि देहि मे प्रतिवचः किं मौनमालम्बसे
सत्यं त्वन्मयरागवीचरमिदं चित्तव्रतं मे व्रतम्
इति ब्रुवाणं तं दृष्ट्वा दूरादालिखितं च तत् ।
सासूया भिक्षवो ऽभ्येत्य भगवन्तं बभाषिरे
भगवन् दुर्विनीतस्य वात्सल्यादेव केवलम् ।
शुनः कुसुममालेव प्रव्रज्येयं त्वयार्पिता
आखिल्य सुन्दरीमुखं नन्दः स्वैरं शिलातले ।
तत्प्रलापजपासक्तो ध्यानालम्बनतां गतः
एतदाकर्ण्य भगवान् नन्दमाह्वाय्य कननात् ।
किमेतदिति पप्रच्छ प्रियाविरहमोहितम्
सो ऽब्रवीद् भगवन् सत्यं कान्तासक्तस्य मे परम् ।
भिक्षूणां संमते ऽप्यस्मिन् वने न रमते मतिः
इति दन्दवचः श्रुत्वा तमूचे भगवान् जिनह् ।
मीलयन्नेव वक्त्रेन्दुकान्त्या रागसरोरुहम्
साधो तावन्न युक्ता ते संरागानुगता मतिः ।
विघ्नैर्नाकृष्यते चेतः कल्याणाभिनिवेशिनाम्
क्वायं योगस्तनुतृणतुलात्यक्तभोगाभियोगः
क्कायं निन्द्यः क्षणसुखलवास्वादसंवाद एषः ।
जात्यैवायं हरति कुशलं दुस्तरो मारमार्गः
प्रेमान्धानाम् भवति सहसा दुःसहो योक्त्रजातः
इत्यस्य भगवान् कृत्वा चिरं वैराग्यदेशनाम् ।
संस्थातव्यमिहेत्युक्त्वा स्वकृत्याय स्वयं ययौ
तमेवावसरं नन्दः संचिन्त्य गमनोचितम् ।
प्रतस्थे स्वगृहं हृष्टः सुन्दरीदर्शनोत्सुकः
व्रजन् द्वारि पिधानाप्तैर्विहारैर्बहुभिश्चिरात् ।
नगराभिमुखं मार्गं स कथंचिदवाप्तवान्
अथ विज्ञाय सर्वज्ञस्तं रागाद् गन्तुमुद्यतम् ।
उवाचाभ्येत्य भगवान् नन्द तूर्णं क्क गम्यते
स जगाद वने तावत् भगवन् नास्ति मे रतिः ।
न ह्यविश्रान्तचित्तानां क्रिया काचित् प्रसीदति
सा श्रीश्चामरहासिनी मणिमयी सा रम्यहर्म्यावली
सा बालानिललोलचारुलतिका कान्ता नवोद्यानभूः ।
सा तन्वी कुसुमेषुकार्मुकलता क्षामोदरी सुन्दरी
नो जन्मान्तरवासना इव मनः सक्तं विमुञ्चन्ति मे
सरागेणैव मनसा ब्रहचर्यं चराम्यहम् ।
व्रतपञ्जरबन्धेन विहङ्ग इव यन्त्रितः
त्यक्त्वा व्रजामि प्रव्रज्यामस्तु मे नरको ऽक्षयः ।
न वीतरागतामेति मञ्जिष्ठारक्तमंशुकम्
इति ब्रुवाणमसकृत् स्वपदं गन्तुमुद्यतम् ।
निवार्यानुग्रहधिया तमूचे भगवान् जिनः
मा कृथा विप्लवं नन्द निन्दितं हि श्रुताश्रुतम् ।
विद्वज्जनोपदिष्टेन यथा याति पृथग्जनः
विवेकव्यस्तदोषाणां विदुषां शीलशालिनाम् ।
निःसारसुखलाभेन नाकार्ये धीः प्रवर्तते
गाढरागगृहीतस्य जुगुप्सायतने परम् ।
जधन्यकर्मण्यासक्तिः किं लज्जाजनने न ते
योनिजयोनिसंसक्ताः स्तनपस्तनमर्दिनः ।
अहो बत न लज्जन्ते जन्मन्येव लयं गताः
सदासज्जनवर्जिता जननीजघनासक्तिः ।
संमोहाहतचित्तानां पशूनामेव दृश्यते
रामारमणमानो ऽयं विरम्य त्यज्यतां त्वया ।
भोगैः सह भुजङ्गानां दृष्टो भवबिले क्षयः
जघन्या जनयत्येव न कस्य विरतिं रतिः ।
यस्यां भवति पर्यन्तेष्वपि नैव पराङ्मुखः
गृहजालविमुक्तस्त्वं किं तत्रैवाभिधावसि ।
न हि निर्गस्य सारङ्गः पुनर्विशति वागुरां
इति वाक्याद् भगवतः शासनेन नियन्त्रितः ।
चिन्तयन् सुन्दरीं नन्दः प्रविवेशाश्रमं पुनः
ततः कदाचिदादिश्य नन्द माश्रममार्जने ।
आसनानुग्रहव्यग्रः प्रययौ भगवान् पुनह्
तच्छासनात् प्रवृत्तस्य नन्दस्याश्रमशोधने ।
नो भूतलादपययौ रजो राग इवाशयत्
तस्याहर्तुं गतस्याथ सलिलंपारभागिकम् ।
मुहुः पूर्णसमुत्क्षिप्तह् शून्य एवाभवद्धटः
तेन विघ्नेन गमने सुतराम् खिन्नमानसः ।
त्यक्त्वा तुप्रययौ नन्दः सुन्दरीदर्शनोत्सुकः
अथ विज्ञाय सर्वज्ञस्तं यान्तं दिव्यचक्षुषा ।
बभाषे सहसाभ्येत्य स्तम्भमानमनोरथह्
पात्रयोगेन तप्तस्य श्यामरक्तरुचेः परम् ।
अहो स्नेहकलङ्कस्ते दीपस्येव न शाम्यति
अलं वामाभिलाषेण नीलीराग इवैष ते ।
संसक्तः को ऽपि हृदये यन्नाद्यापि विरज्यसे
अन्धीकरोति प्रारम्भे रतिस्तत्कालकातरम् ।
आलिङ्गति जुगुप्सेव वृत्ते मुख्याङ्गसंगमे
विषयाख्वादसङ्गेन पापमित्रैरिवेन्द्रियैः ।
दुःसहव्यसनावर्ते पात्यते नरके नरह्
अधिवासयति स्पर्शलेखेनापि कुसंगमः ।
प्रक्लिन्नमत्स्यकुणपात् पूतिगन्ध इवोद्गतः
कल्याणमित्रसंपर्कः सर्वथा कुशलावहः ।
शुभामेद इव व्याप्तो यः करोति महार्हताम्
इत्युक्ते तस्य भगवान् साक्षात्स् अदसतोः पथि ।
घ्राणस्पर्शेन संदर्श्य चक्रे तत्सङ्गदेशनाम्
अथ नन्दं समादाय भगवान् गन्धमादने ।
ययौ विरिञ्चिरमरीबालव्यजनवीजितः
तत्र दावानलप्लिष्टामनिष्टक्लिष्टविग्रहाम् ।
काणां कर्मटीकामस्मै दर्शयित्वावदज्जिनः
इमां पश्यसि किं नन्द मान्द्यनिन्द्यतराकृतिम् ।
कस्मैचिदुचिता चेयं रोचते प्रियदर्शना
सत्ता सदसतोर्नास्ति रागः पश्यति रम्यताम् ।
स तस्य ललितो लोके यो यस्य दयितो जनः
पक्षपातं समृत्सृज्य सत्यं नन्द त्वयोच्यताम् ।
अस्यास्तस्याश्च सुन्दर्या लावण्यस्य किमन्तरम्
अनर्थित्वाद्वयं नैव सौन्दर्यान्तरवेदिनः ।
अर्थिप्रियत्वमायाति प्रार्थितं तच्च चारुताम्
पश्याम्यहं विशेषं तु तस्या नास्याश्च कंचन ।
रम्यत्वं मांसवर्मास्थियन्त्रे समयमात्रकम्
इति पृष्टो बह्गवता नन्दस्तं प्रत्यभासत ।
अत्यन्तानुचितः प्रश्नः को ऽपि गौरवयन्त्रितः
किमेतद् भगवान् वक्ति केयं शोके बिडम्बना ।
क्कापि वा विश्वगुरवो विनेयाः प्रभविष्णवह्
रतिः साधिकसुन्दर्याः परभागेण रज्यते ।
यां दृष्ट्वा जगतां जेता न रतिं स्मरति स्मरः
ज्योत्स्नयेव न तत्कान्त्या नोदते कुमुदाकरः ।
गुणान्तरं न जानाति प्रसिद्धिशरणो जनः
बद्धं तया वदनसौरभसारहारमालोक्य पुष्यनिचयं पृथुकेशपाशे ।
मन्ये विलासगतिलोवनकान्तिचौरैः भीत्येव हंसहरिणैर्वनमिव यातम्
अनल्पैः संकल्पैर्बहुविधविकल्पैरनुपमा
न सा सारङ्गाक्षीलिखितुमपि शक्या परिचितैः ।
तुलारोहे य्स्या वदनपरभागे लघुतरः
स नूनं ताराणां गगनमधिरूढः परिवृढः
पुण्यप्रह्वं ललितललितभ्रूलतालास्यलीला
रम्यं तस्या यदि न वदनं नन्दनं लभ्यते तत् ।
प्रव्रज्येयं सुकृतमधिकं किंकरी किंकरी मे
कस्मादेतं व्रतपरिकरं भारभूतं वहामि
इति नन्दवचः श्रुत्वा भगवान् रागनिर्भरम् ।
उपक्षिप्य प्रभावेत त निनाय सुरालयम्
अदर्शयच्च तत्रास्य लीलोद्याने शतक्रतोः ।
सुधामन्थसमुद्भूताः कान्तास्त्रिदशयोषितः
अरुणैः कान्तिसंतानैः पादपद्मवनोदितैः ।
अनुयाता इवाम्भोधिकूलविद्रुमकाननैः
विशाललास्यसचिवैः पाणिभिर्विजिताम्बुजैः ।
संसक्तैः सहजस्येव पारिजातस्य पल्लवैः
कान्तिमाधुर्यललितैर्मदनानन्दबाण्धवैः ।
हेलानिमीलिताम्भोजवदनैश्चन्द्रसुन्दरैः
संमोहनैर्जीवनैश्च कृष्णसारैर्विलोकनैः ।
कालकूटच्छदस्पृष्टैरमृतोघैरिवावृताः
पूर्णयौवनलावण्याः सहसैव विलोक्य ताः ।
नन्दः सानन्दवदनः स्वेदस्नात इवाभवत्
पद्माननासु विपुलोत्पललोचनासु कुन्दस्तिमातु निबिडस्तबकस्तनीषु ।
नन्दस्य तासु हृदयं युगपन्निपत्य दोलाविलासतरलालितुमवाप
ततः प्रोवाच बह्गवान् नन्दं तद्गतमानसम् ।
आसां संदर्शने नन्द प्रीत्या ते रमते मतिः
आसां तस्याश्च सुन्दर्या लावण्ये कियदन्तरम् ।
उत्कर्षः परभागेण स्फुटमेवाभिभाव्यते
निरस्तसुन्दरीरूपं रूपमप्सरसाम् यदि ।
तदेता एव कालेन करिष्यामि त्वदाश्रयाः
आरोगेणैव मनसा ब्रह्मचर्यं प्रसन्नधीः ।
चर तावत्ततस्ते ऽहं दास्याम्यप्सरसाम् गणम्
एवं भगवतो वाक्यान्नन्दः संजातनिश्चयः ।
तथेत्युक्त्वा व्रते चेतश्चक्रे स्वर्गाङ्गनाशया
मन्दादरः स्वदारेषु सो ऽभूत् तत्संगमेच्छया ।
गुणप्ण्यतुलावृत्तेर्नास्ति स्नेहस्य सत्यता
अहो चिस्मृतसंवासप्रवासपरिशोषिता ।
पुंसामाभ्यासिकी प्रीतिः सहसान्यत्र धावति
क्षणयौवनरम्याणि प्रेमाणि प्रणयव्ययैः ।
न सत्यानि न नित्यानि न सुखानि शरीरिणाम्
ततो भगवता नन्दः क्षणानीतः स्वमाश्रमम् ।
तन्निश्चयाद् ब्रह्मचर्यं चचार नियतव्रतः
स चिसस्मार सुन्दर्याः कान्तिसंपदमन्यधीः ।
क्षणप्रमुषिता प्रीतिर्मलं याति गुणेष्वपि
ततः कदाचिद्विचरन् नन्दः क्कापि व्यलोकयत् ।
करालनरकासक्तां धीमान् कुम्भीभृतां भुवम्
ताम् विलोक्यैव साकम्पः किमेतदिति दुःखितः ।
स पप्रच्छ तदासक्तान् घोरनरककारणम्
ते तमूचुरियं भूमिस्तप्तकुम्भीशताचिता ।
कल्पिता राजपुत्रस्य नन्दस्यानन्दरागिणः
मिथ्याव्रतः स नाद्यापि भजते वीतरागताम् ।
ब्रहम्चर्यं चरत्येव स्वर्गस्त्रूईसंगमाशया
मिथ्याव्रतानाम् लुब्धानां रागद्वेषकषायिणाम् ।
एतासु नित्यतप्तासु कुम्भीष्वेवाक्षयः क्षयः
इति नन्द समाकर्ण्य जातरोमाञ्चकञ्चुकह् ।
तत्र च्युतामिव तनूं पश्चात्तापादमन्यतः
समम्येत्य त्यक्तरागसंवासवासनह् स्वयम् ।
बभूवानुत्तरब्रह्मचर्यपर्याप्तांयमः
घनमोहक्षयात्तस्य विमुक्ते संशये ततः ।
महः प्रसादमापेदे शरदीवेदधेः पयः
निष्कामः प्रशमं प्राप्तः परां निष्ठामुपागतः ।
शुद्धधीः स समभ्येत्य भगवन्तमभाषत
नाप्सरोभिर्न सुन्दर्या भगवन् कृत्यमस्ति मे ।
एताः पर्यन्तविच्छायाः सपाता विषयश्रियः
यथा यथेयं भावानां भाव्यते निःस्वभावता ।
तथा तथा प्र्qसीदन्ति निरावरणवृत्तयः
इति दन्दस्य वदतः प्राप्तस्यार्तपदं शनैः ।
भगवान् निर्वाणशुद्धामस्य सिद्धिममन्यत
केषां कुशलमूलानां नन्देनासादितं फलम् ।
इति भिक्षुभिरभ्येत्य पृष्ठस्तानवदज्जिनः
जन्मान्तरार्जितैः पुण्यैः सुकृताभ्यासकारिणा ।
प्राप्ताः कुशलमूलानां नन्देन फलसंपदः
विपुलविमल वंशे जन्म स्मरप्रतिमा तनुः
सुरजनसखी लक्षी वृत्तिः प्रियाः सततं सताम् ।
प्रशमसलिलस्नातं चेतः स्वभावगतिर्गतिः
कुशलकुसुमस्येयं पुंसां विशालफलोद्गतिः
स्तूपे विपश्यिनः सम्यक्संबुद्धस्यादरः पुरा ।
नगर्यामरुणावत्यामरुणेन महीभूहा
क्रियमाणो मणिमये मैत्रो नाम द्विजन्मजः ।
महतः पुण्यभोगस्य भागी कारकताम् ययौ
तत्पुण्यप्रणिधानेन जातो गॄहपतेः कुले ।
स एव भिक्षुसंघस्य जन्तुकास्नानसत्रकृत्
स पुण्यशीलः प्रत्येकबुद्धोपस्थायकह् पुरा ।
स्तूपं चक्रे शोभमानं मालभिवरणोज्ज्वलम्
तत्पुण्यप्रणिधानेन कृकेः काशीपतेः सुतः ।
सो ऽभ्वद्द्युतिमान् नाम दिव्यलक्षणलक्षितः
काश्यपस्यार्हतः सम्यक्संबुद्दस्यान्तनिर्वृतौ ।
सप्तरत्नमये स्तूपे कृते काशीमहीभुजा
तत्सूनुर्ध्युतिमान् हौमच्छत्रमारोप्य भास्वरम् ।
जातस्तत्प्रणिधानेन नन्दः शाक्यमुके ऽधुना
इति सुकृतसमुत्थैः पूर्वजन्वक्रमाप्तैः किमपि विपुलपुण्यैरेव नन्दः प्रपेदे ।
कुलममलमुदारं रूममग्र्यं च भोगं शमपरिचितमन्ते सत्पदं सौगतं च
कथयोत्वेति भगवान् नन्दकल्याणकारणम् ।
चकार भिक्षुसंघस्य तां तां सुकृतदेशनाम्
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0