अवदानकल्पलता · अध्याय 8
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पतायां मुक्तालतावदानं नाम सप्तमः पल्लवः ॥
8. श्रीगुप्तावदानम् ।
कृतापकारे ऽपि कृपाकुलानि क्रूरे ऽप्यलं पल्लवकोमलानि ।
द्वेषोष्मतप्ते ऽप्यतिशीतलानि भवन्ति चित्तानि सदाशयानाम्
पुरा सुरपुरोदारे पुरे राजगृहाभिधे ।
श्रीगुप्ताख्यो गॄहपतिर्बभूव धन्दोपमः
दृप्तः सुजनविद्वेषी गुणेषु विरतादरः ।
सदा धनमदाध्मातः सा जहास मतिं सताम्
कठिने ऽष्वतिवक्रेषु शून्येषु मुखरेषु च ।
शन्खेष्विव खलेष्वेव लक्ष्मीर्दाक्षिण्यमाश्रिता
तं कदाचित् गुरुर्ज्ञातिपुत्रः क्षपणकः खलह् ।
मिथः स्वैरकथासक्तः पुण्यद्वेषादभाषत
य एष गृध्रकूटाख्ये गिरौ भिक्षुशतैर्वृतः ।
सर्वज्ञकीर्तिः सुगतास्त्रिजगत्पूज्यतां गतः
नैवास्य प्रतिभां कांचिद् भव्यामुपलब्ःआमहे ।
नीतः किं तून्नतिं मूर्खैर्बह्गवान् भगवानिति
अविचायव सततं परोक्तमनुभाषते ।
गतानुगतिकः प्रायः प्रसिद्धसरणौ जनः
व्रतादिनियमस्तस्य दम्भ एव विभाव्यते ।
अश्नाति मौनकृत् मत्स्यानेकपादव्रतो बकः
तस्मआत् तस्योपहासाय क्रियताम् कापि वज्ण्चना ।
मायामोहितो धूर्तानाम् परो ऽपि परितुष्यति
इति तेनोक्तमाकर्ण्य श्रीगुप्तः कर्क्ममोहितः ।
पतितुं पापश्वभ्रेषु युक्त्या तदुपदिष्टया
प्रदीप्तखदिराङ्गारपूर्णां गूढां खदां गृहे ।
कृत्वा सविषमन्नं च ययौ भगवतो ऽन्तिकम्
तेन मिथ्याविहितया भक्त्या भोक्तुं निमन्त्रितः ।
विज्ञाय सर्वं सर्वज्ञस्तथेति प्राह सस्मितः
विषग्नियोगकुपिताम् पत्नीं सद्धर्मवादिनीम् ।
गृहे बबन्ध श्रीगुप्तः शङ्कितो मन्त्रविश्रवात्
अथ विज्ञातवृत्तो ऽपि भगवान् स्वयमाययौ ।
वन्द्यमानो जगद्वन्द्यैश्चतुर्मुखमुखैः सुरैः
श्रीगुप्तस्य तमारम्भं विवेदं नगरे जनः ।
दिक्षु धावति पापानां सुगुप्तमपि पातमक्
ततः कश्चित् समभ्येत्य भगवन्तमुपासकः ।
उवाच चरणालीनाश्चिन्तयन् दहनं विषम्
मिथ्यानम्रह् प्रियालापी गुढवह्निविषान्नदः ।
परिहार्यः प्रयत्नेन भगवन्नेष दुर्जनह्
कुर्यादनार्ये नाश्वासि कार्यं माधुर्यमाश्रिये ।
अन्त्रच्छेदी विगीर्णो हि मधुदिग्धमुखः क्षुरः
नान्यस्तुतिं गुणद्वेषी सहते गुणिनाम् खलः ।
सन्तस्तुष्यन्ति येनैव तेनकुप्यन्ति दुर्जनाः
त्वयि लोकत्रये नेत्रशतपत्रविकाशिनि ।
अस्य राहोः पदं प्राप्ते नान्धीभवति किं जगत्
तच्छ्रुत्वा भगवानूचे किंचित् स्मितसितांशुभिः ।
तन्निकारोग्रतिमिरं दूरात् परिहरन्निव
न ममाङ्गं स्पृशत्यग्निः प्रबह्वत्यपि वा विषम् ।
परद्वेषदरिद्राणां दोषो ऽपि निरुपद्रवः
अरोषशीतलं चेतः सिक्तं यस्य शमामृतैः ।
किं करोत्यनलस्तस्य विषं वा विषयद्विषः
विषायते तु पीयूषं कुसुमं कुलिशायते ।
द्वेषदोषोत्तरस्यैव चन्दनं दहनायते
तिर्यग्योनिगतस्यापि बोधिसत्त्वपदास्थितेः ।
कारुण्यमैत्रीयुक्तस्य नाग्निर्दहति विग्रहम्
पुरा कलिङ्गनृपतिः खण्डद्वीपाभिधावनीम् ।
ददाह मृगसंघानाम् संक्षेपे स समुद्यतः
कानने ज्वलिते तस्मिन्नेकस्तित्तिरिशावकः ।
मैत्र्या बोधिं समालम्ब्य दहनप्रशमं व्यघात्
तस्मादद्रोहमनसां न भयं विद्यते क्कचित् ।
श्रूयतां सत्त्वसंपत्तेरिदमन्यच्च कौतुकम्
अवृष्टिविषमे काले मुनेः कस्यचिदाश्रमे ।
मनुष्यसदृशालापः शशकः सुचिरं स्थितः
क्षुत्क्षामं मुनिमालोक्य फलमूलपरिक्षयात् ।
उवाचाचलसंकल्पस्तद्व्यथाव्यथिताशयः
भगवन् मम् मांसानां संप्रति प्राणवर्तनम् ।
क्रियतां रक्षणीयं तत् शरीरं धर्मसाधनम्
इत्युक्त्वा दावशेषाग्नौ विक्षेप शह्स्कस्तनुम् ।
वार्यमाणो ऽपि यत्नेन प्रणयान्मुनिना मुह्युः
तस्य सत्त्वप्रभावेण ज्वलज्ज्वालाकुलो ऽनलः ।
प्रययौ मज्ण्जुशिञ्जानभ्रमराम्भोजखण्डताम्
सो ऽपि दिव्यवपुस्तत्र कमले महति स्थितः ।
प्रणम्यमानो मुनिर्भिर्विदधे धर्मदेशनाम्
इति बोधिप्रवृत्तानां न वह्नेर्न विषाद्भयम् ।
भगवान् कथयित्वेति श्रीगुप्तभवनं ययौ
तत्र तेन प्रविश्यैव निक्षिप्ते दक्षिणे पदे ।
बभूवाग्निखदा मञ्जुगुञ्जद्भृङ्गसरोजिनी
दृष्ट्वोपविष्टं श्रीगुप्तस्तं सरोरिहविस्तरे ।
तद्दृष्टिनष्टकालुष्यः प्रोवाचः चरणानतः
भगवन् मम पापस्य क्षन्तव्यो ऽयं व्यतिक्रमः ।
मोहान्धपतिते रुच्यं कारुण्यमधिकं सताम्
ममाकल्याणमित्रेण यो ऽयं पापपथे कृतः ।
उपदेशः प्रमोहेण तत्र त्राणं भवत्स्मृतिः
विषदिग्धरसं सर्वं भोज्यं ते कल्पितं मया ।
अहो ममैव संक्रान्तं पश्चात्तपमयं विषम्
इति ब्रुवाणं श्रीगुप्तं साश्रुनेत्रं कृपानिधिः ।
दृष्ट्वा बभाषे भगवान् भिक्षुसंघस्य शृण्यवतः
विषादं मा कृथाः साधो न वयं विमुखास्त्वयि ।
घोरवैरविषत्यागान्नैवास्मास्तपते विषम्
वाराणस्यां पुरा श्रीमान् ब्रह्मदत्तो ऽभवन्नृपः ।
अभूदनुपमा नां अतस्य प्राणसमाश्रया
सुवर्णभाससंज्ञस्य तत्पुरान्तवनस्थितेः ।
रवं मयूरराजस्य सा कदाचिदथाशृणोत्
सा तस्य शदमाकर्ण्य वेणुवीणास्वनोपमम् ।
किमेतदिति पप्रच्छ नरनाथं सकौतुका
राजोवाच वनान्ते ऽस्मिन्नस्ति रत्नच्छदः शिखी ।
मधुरंयोजनव्यापि यस्यैतत् कण्ठकूजितम्
इति ब्रुवाणो नृपतिस्तत्संदर्शनमर्थितः ।
प्रेमप्रयत्नैः प्रेयस्या प्रहसन् पुनरब्रवीत्
दर्शनं दुर्लभं मुग्धे तद्विधाद्भुतरूपिणः ।
तथापि यदि निर्बन्धः क्रियते तत्परिश्रमः
इत्युक्त्वा नृपतिस्तस्य ग्रहणे जालजीविनः ।
व्यसृजत् तस्य संर्पाप्त्यैः विधाय वधसंविदम्
वशीकृतो न वेत्त्येव मोहादक्षिपरीक्षया ।
अनुरागाहतः स्त्रीभिरकर्माण्यपि कार्यते
प्राप्तानाम् प्रणयात् पत्न्याः प्रौढायाः पादपीठताम् ।
ईर्ष्ययैव विनश्यन्ति धीधृतिस्मृतिकीर्तयः
ततः शाकुनिकैर्न्यस्ताः पाशबन्धाः पदे पदे ।
प्रभावाद्बर्हिराजस्य् व्यशीर्यन्तैव संततम्
दुःखितान् यत्नवैफल्याद्भीतान् नृपतिशासनात् ।
मयूरराजस्तान् दृष्ट्वा करुणाकुलतां ययौ
सो ऽचिन्तयदहो भीताः क्ष्मापतेः श्रूरशासनात् ।
मद्बन्धने विसंवादाद्वराका जालजीविनह्
संचिन्त्य कृपया स्पष्टग्भिर्विसृज्य तान् ।
नृपमानाय्य तद्वेश्म तेनैव सहितो ययौ
स तत्रान्तःपुरे नित्यं सभार्येण महीभुजा ।
पूज्यमानः परिचयादुवास विहितादरः
स्निग्धश्यामाम्बुदत्विषा सुनीलमणिवेश्मसु ।
चित्रपत्ररुचा चक्रे संसक्तेन्द्रायुधभमम्
अथ दिग्जययात्रायाम् कदाचिद्वसुधाधिपः ।
ययौ तदुपचाराय देवीमादिश्य सादरः
ततश्चानुपमा देवी पत्यौ याते प्रमादिनी ।
रूपयौवनदर्पान्धा नालुलोके कुलस्थितिम्
तरुणं प्रेक्ष्य रागिण्यास्तस्याः कन्दर्पविप्लवे ।
भूयः प्रलम्भभीतेव लज्जा दूरतरं ययौ
मलिनः कुटिलस्तीक्ष्णः कर्णसंस्पर्शनोचितः ।
चपलश्चपलाक्षीणां सुदृशां सदृशः क्रमः
विविधोन्मादकारिण्यः संसारमकराकरे ।
चरन्ति प्राणहारिण्यः कालकूटच्छदाः स्त्रियः
कुसुमात् सुकुमारस्य क्रूरस्य क्रकचादपि ।
को जानाति परिच्छेदं स्त्रीणां चित्रस्य चेतसः
प्रचरन्तीं प्रियां कण्ठे कृत्वा ये यान्ति निर्वृतिम् ।
शीतलां विमलां स्निग्धां खङ्गधारां पिबन्ति ते
साचिन्तयत् स्थितः शल्यमयमन्तःपुरे मम ।
मयूरराजः शीलज्ञः पुरुषालापवेष्टितः
कथयिष्यत्यवश्यं मे वृत्तमेष महीपतेः ।
निन्द्यं कर्म कृतं तावदधुना किं करोम्यहम्
आस्तां परिज्ञाततत्त्वो मर्मज्ञो ऽसौ विदग्धधीः ।
जाता मे कृतपापायाः शङ्का निश्चेतनेष्वपि
इति संचिन्त्य सा त् अस्य सविषं भोजनं ददौ ।
रागमत्ताः खलायत्ताः किं किं कुर्वन्ति न स्त्रियः
तयोपाचर्यमाणस्य सविषैः पानभोजनैः ।
विवृद्धा बर्हिराजस्य रुरुचे रुचिरा रुचिः
स्वस्थमालोक्य तं देवी रहस्योद्भेदशङ्किता ।
शनैः शोकामयग्रस्या त्रस्या तत्याज जीवितम्
एवं तस्य विषेणापि नैव ग्लानिरजायत ।
महतां चित्तवैमल्यं निर्विषं कुरुते विषम्
रागो विषं विषं मोहो द्वेषश्च विषमं विषम् ।
बुद्धो धर्मस्तथा संघः सत्यं च परमामृतम्
घोरं विषं सृजति मोहमहाम्बुराशिः घोरं विषं सृजति रागमहोरगश्च ।
घोरं विषं सृजति वैरवनावनिश्च जन्मक्रमो ऽस्ति विषमस्य विषस्य नान्यः
अधर्मकामः कृतवानेवमेवान्यजन्मनि ।
श्रीगुप्तो ऽग्निखदां सापि तस्याभूत्सहधर्मिणी
इत्युक्त्वा भगवान् सम्यक्करुणालोकनाम्बुभिः ।
चकार वीतरजसं श्रीगुप्तं शासनोन्मुखम्
कलितकुशलः श्रीगुप्तो ऽथ प्रकाशपदाप्तये
शरणगमनान्येव त्रीणि स्मरन् विमलस्मृतिः ।
जिनपरिचयात् पुण्यं लेभे सताम् हि विलोकनं
भवति महते कल्याणाय प्रमोदसुखाय च
श्रीगुप्तस्य निकारकिल्बिषजुषो ऽप्यज्ञानमोहापहः
कृत्वावश्यमनुग्रहेण भगवान् कारुण्यपुण्योद्यतः ।
भिक्षूणां भवसंक्षयाय विदधे निर्वैरताशासनं
येनैते न भवन्ति बन्धभवने भूयो भवग्रन्थये
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0