अवदानकल्पलता · अध्याय 7
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां बदरद्वीपयात्रावदानं नाम षष्ठः पल्लवः ॥
7. मुक्तालतावदानम् ।
कुश्लप्रणिधानशुद्धधान्मां विमलालोकविवेकबोधकानाम् ।
परिकीर्तनमात्रमेव येषां भवमोहापहतेस्त एव धन्याः
पुरा पर्षत्सहस्राणां न्यग्रोधोपवनस्थितिः ।
कपिलाख्ये पुरे चक्रे भगवान् धर्मदेशनाम्
अमन्दानन्दसंदोहस्यन्दि चन्दनशीतलम् ।
तस्य वागमृतं धन्याः कृताङ्जलिपुटाः पपुः
राजा शुद्धोदनस्तत्र धर्मश्रवणसंगमे ।
पुण्योपदेशसलिलैर्लेभे वैमल्यनिर्वृतिम्
अथ तत्र महानामा शाक्यराजकुलोद्भवः ।
धर्मोपदेशमाकर्ण्य प्रातः स्वगृहमब्रवीत्
अहो नु भगवान् बुद्धो धर्मः संघश्च सिद्धये ।
बुद्धोत्पादो ऽयमस्माकं निर्वाणाय महाफलः
उपदेशविशेषाप्तानिर्वृतेस्तस्य तद्वचः ।
श्रुत्वा शशिप्रभा पत्नी प्रणयात्तमभाषतः
अनुग्राह्या भगवतः पुरुषाः पुण्यभागिनह् ।
निन्द्यास्तदुपदेशानामनर्हा योषितो वयम्
इति जायावचः श्रुत्वा स जगाद जगद्गुरोः ।
भद्रे भगवतो नास्ति भेदः कारुण्यदर्शने
समा सर्वत्र भा भानोः समा वृष्टिः पयोमुचः ।
समा भगवतो दृष्टिः सर्वसत्त्वानुकम्पिनः
महाप्रजापतेर्वाक्यादपराह्णक्षणं तपः ।
शुद्धोदनः करोत्येव राजा बह्गवतो ऽन्तिके
इति पत्युः प्रियगिरा वृता शाक्याङ्गनागणैः ।
याचने तद्भगवतह् सा पुण्योपवनं ययौ
सा सत्वकुसुमं तत्र तं ददर्श महाफलम् ।
प्रशमामृतसंसिक्तं करुणाकल्पपादपम्
लतेव पवनानम्रा तं दूरात् प्रणनाम सा ।
लोभेनेव परित्यक्रा च्युतकर्णोत्पलच्छलात्
विलोक्य काञ्चनरुचिं रत्नभूषणभूषिताम् ।
आनन्दनामा भिक्षुस्तामुवाच प्रहितोद्यतः
वेषः प्रशमशून्यो ऽयं मातर्मुनितपोवने ।
दर्पोत्सिक्तो न युक्तस्ते विरक्तानामिदं पदम्
गुणसंयमसिक्तानि मुखराभ्रणान्यहो ।
नेहास्तद्ग्रहणं युक्तमितीवोपदिशन्ति ते
इत्युक्ता तेन सा तन्वी वैलज्यविनतानना ।
उन्मुच्याभरणं सर्वं प्राःइणोन्निजमद्निरम्
उपविष्टेषु सर्वेषु निर्दिष्टकुशलस्ततः ।
अनित्यतैवं भगवानुपदेशं प्रवक्रमे
महामोहप्रभावो ऽयं येन नित्यमनित्यताम् ।
नित्यतामिव मन्यन्ते मूढा जगति जन्तवः
असत्ये रमते लोकः सत्यप्रत्ययमोहितः ।
न वेत्ति सर्वभावानामभावानुभवां स्थितिम्
केचिद् व्याकरणैः परे श्रुतिपथैस्तर्कप्रवादैः परे केचित्तन्त्रपरिग्रहैर्बहुविधैरन्यैः कलाकौशलैः ।
संसक्ताः पुनरुक्तजन्मशरणौ याता सहैव क्षयं
तत्राप्यक्ष्ययलीलया क्षणपदं मुग्धौर्निबद्धा धृतिः
विषयविषमापायः कायः प्रपञ्च(म)याशया
खरतरमरुस्फाराकारो मोहभावो भवः ।
हितभूमि (?) तथाकार्यं कार्यं विवेकिनां तथा
निरवधिरयं दृष्ट्वा व्याधिर्यथा (हि) निवर्तते
इत्याद्यनित्यसंस्कारसंयुक्तं युक्तमुद्यते ।
धर्मोपदेशकुशलं वक्तुं भगवति स्वयम्
एका शाक्यवधूस्तत्र रूपसौभाग्यगर्विता ।
स्थिता शौशवतारुण्यसंघौ वयसि दुःसहे
मुक्ताहारं स्तनतटे लोलापाङ्गैर्मुहुर्मुहुः ।
आलिलोके यशःस्फारसारं रतिपतेरिव
हारावलोकिनीं दृष्ट्वा तामनेकाग्रहादसौ ।
अचिन्तयाद्विरक्तेन मगत्पत्नी शशिप्रभा
इयं धर्मोपदेशे ऽपि चपला हारमीक्षते ।
भावानां न शृणोत्येव मूढा क्षणिकतामिमाम्
स्वं हारं दर्शयित्वास्या हारोत्साहं हराम्यहम् ।
अधिकालोकनेनैव दर्पः शाम्यति देहिनाम्
इति संचिन्त्य सा दासीं रोहिकाख्यामभाषत ।
रोहिके गच्छ मे हारं गृहात् सत्वरमाहर
इत्युक्ता सा तया तत्र प्रवृत्ते धर्मसंश्रवे ।
अकालगमनोद्विग्ना निःश्वस्याचिन्तयत् क्षणम्
अहो बतान्तरायो ऽयं संजातः कुशले मम ।
नास्मिन् श्रोतुं लभे धर्मं यत्परायत्तजीविता
पुण्यसौरभसंभारात् कीर्णकारुण्यकेसरात् ।
मुखपद्माद् भगवतो धन्यः प्राप्नोति वाङ्भधुः
अहो स्वाच्छन्द्यविच्छेदस्तनुभङ्गः सुखक्षयः ।
सेवा जगति जन्तूनां दुःखे दुःखपरंपरा
सेवाप्रयाससंप्राप्तं धनमानकणोदयम् ।
तत्पमत्युष्णनिःश्वासैरहो कृच्छ्रेण पीयते
मानग्लानिर्गुणग्लानिरोजःपुनशमः श्रमह् ।
प्रथमं सेवकस्यैतत् फलमीश्वरदर्शने
लौही बन्धनशृङ्खला चरणयोर्हेलावमानावनी
स्वव्यापारनिषेधनित्यनियती निद्रासुखद्रोहिणी ।
आशास्यस्य विशालजालसरणिः सत्सङ्गभोगाशनिः
मुग्धानां मृगतृष्टिकामरुमही सेवा शरीरक्षयः
इति संचिन्त्य सुचिरं सा जगाम तदाज्ञया ।
सेवाविक्रीतकायानां स्वेच्छाविहरणं कुतः
व्रजन्तीं ताम् परप्रेष्यां कृपणां करुणाकुलः ।
निरीक्ष्य बह्गवान् दिव्यचक्षुषाचिन्तयत् क्षस्णम्
अस्मिन् जन्मनि शेषो ऽस्या संपूर्णो जीवितावधिः ।
इयं वराकी संसारादुद्धर्तव्या स्वयं मया
अथ ताम् कर्मयोगेन व्रहन्तीं सहसा पथि ॥
वत्सवात्सल्यविवशा शृङ्गाभ्यामाजघान गौः
सा प्रदघ्यौ भगवतः प्रसादात् तन्मयस्मृतिः ।
जन्मान्तराधिवासेन बुद्धालम्बनमानसा
अहो कर्मोर्मिभिः शीर्णे संसारमकराकरे ।
जन्मावर्तेषु जन्तूनां मज्जनोन्मज्जनक्रमः
पुंसो ललाटविपुलोपलपट्टिकासु निःशर्मकर्मघटितप्रकटाङ्कटङ्कैः ।
नयस्तानि जन्ममरणप्रसराक्षराणि नैतानि पाणिपरिमार्जनया चलन्ति
इयं कर्मायत्ता प्रचुरचित्रवैचित्ररचना
नराणां मायूरच्छदपटलतुल्या परिणतिः ।
यया गर्भारम्भे क्रमनिपतने वृद्धिसमये
क्षये वा नान्यत् प्राभजत तनुलेखाच्छविरति
संचिन्त्याथ पुरः प्रवृत्तसुदशासन्नावसन्नस्थितिं प्राप्तेवासमदासभावकलनावैलक्ष्यनिः स्पन्दताम् ।
आधाय प्रणिधानधाम्नि धवले सद्धर्मशुद्धां धियं
संसारे विचिकित्स्य एव मलिनं तत्याज सा जीवितम्
ततः सा सिंहलद्वीपे समीपे स्वर्गसंपदाम् ।
चन्द्रलेखेव दुग्धाब्धौ दिव्यद्युतिरजायत
आधानजन्मनस्तस्य मुक्तावर्षें दिवश्च्युते ।
साभून्मुक्तालता नाम सिंहलाधिपतेः सुता
सा पुण्यमिव लावण्यं वहन्ती वृद्धिमागता ।
लेभे विवेकेनाङ्गानां संतोषमिव यओवनम्
ततः कदाचिद्वणिजः श्रावस्तीपुरवासिनः ।
मकराकरमुत्तीर्य सिंहलद्वीपमाययुः
ते तत्र रात्रिपर्यन्ते विश्रान्तिसुखमाजगुः ।
धर्मार्थगाथासंनद्धप्रबुद्धबुद्धभाषितम्
त्दन्तःपुरहर्म्यस्था श्रुत्वैव श्रवणामृतम् ।
किमेतदिति पप्रच्छ तानानाय्य नृपात्मजा
ते तामूचुः प्रमुदितामिदं बुद्धस्य ब्ःआषितम् ।
स्वभावार्हं भगवतः सर्वसत्त्वानुकम्पिनह्
बुद्धामिधानं श्रुत्विव पुलकालंकृताकृतिः ।
सा बभूव समुद्भूतसंविद्भव्यानुभावभूः
उन्मुभी सामयूरिव शब्दैरेव पयोमुचः ।
क एष भगवान् बुद्ध इति पपर्च्छः तान् पुनः
ततस्ते निखिलं तस्यै श्रद्धासंवर्धितादराः ।
न्यवेदयन् पुण्यमयीं भगवच्चरितस्थितिम्
अथ सा तत्कथावाप्तप्राग्जन्मकुशलोदया ।
विज्ञप्तिलेखं प्रददौ तेषां भगवतः कृते
कालेन सिन्धुमुत्तीर्य संर्पाप्तास्ते निजां पिरीम् ।
प्रणम्यावेद्य तद्वृत्तं ददुर्लेखं महात्मने
भगवानपि सर्वज्ञः पूर्वमेव विभाव्य तत् ।
मुक्तालतायाः कृपया स्वयं लेखमवाचयत्
अहो स्मरणमेव ते किमपि पुण्यपण्यं सतां
भवातिबह्वभैषजं व्यसनतापतृष्णापहत् ।
भवन्मयकथाक्रमोपनतसंविदास्वादभूः
स एष भगवन् महानमृतसंविभागो मम
इति संक्षिप्तलेखार्थं विभाव्य भगवान् स्वयम् ।
ईषत्स्मित्विषा सत्त्वप्रकाशमदिशद्दिशाम्
ततश्चित्रकराशक्यां प्रभावैरनुपूरिताम् ।
भगवान् प्राहिणोत् तस्यै न्यस्तां स्वप्रतिमां पटे
पुनः प्रवहणारूढा वणिजस्ते तदाज्ञया ।
अवाप्य सिंहलद्वीपं तस्यै पटमदर्शयन्
हेमसिंहासनन्यस्ते पटे दृष्ट्वा तथागतम् ।
जनस्तन्मयताध्यानादेकीभावमिवाययौ
अधस्ताल्लिखितं तस्मिन् पुण्यप्राप्तमदृश्यत ।
तिस्रः शरण्या गतयः पञ्च शिक्षापदाणि च
सप्रतीत्यसमुत्पादः सानुलोमविपर्ययः ।
आर्याष्टाङ्गस्तथा मार्गः परमामृतनिर्भरः
स्वयं भगवता व्यस्तं तस्योपरि सुभाषितम् ।
शोभते भावनालीनं भ्राजिष्णु कनकाक्षरम्
विषमविषयालोलव्यालावलीवलयाकुलात्
तरुणतिमिरान्निष्क्रम्यास्मात् प्रमोहमयाद्गृहात् ।
जननमरणक्लेशावेशप्रवृत्तपृथिव्यथा
व्रजत शरणं बौद्धं धर्मं न चात्र भवाद्भयम्
जिनप्रतिकृतिं पुण्याम् पश्यन्ती पार्थिवात्मजा ।
अनादिकालोपचितां मुमोचाज्ञानवासनाम्
प्रांशुं कवत(?) काञ्चनकान्तकायं सुस्कन्धमाजानुभुजाभिरामम् ।
ध्यानावधानार्थनिमीलिताक्षं लावण्यधारायिततुङ्गनासम्
स्वभावभव्यं प्रविभासमानं प्रलम्बनिर्भूषणकर्णपाशम् ।
बालप्रवालारुणवल्कलाङ्कं संसक्तसंध्याभ्रमिवामराद्रिम्
त्विषा दिषां शीलमिवादिशन्तं आनन्ददानोद्यतवक्त्रचन्द्रम् ।
क्षमागुणं क्षामिव शिक्षयन्तं पुण्योचिता सा सुभगं विलोक्य
प्रणामपर्यन्तकपोलचुम्बिकर्णोत्पलानां परिवर्तनेन ।
निरस्य निःसारशरीरतृप्तिं सत्यानुभावं परमं प्रपेदे
स्रोतःसमापत्तिफलप्रकाशं सासाद्य तत्र क्षणलब्धबोधिः ।
विचिन्तयन्ती सुगतप्रभावं समभ्यधाद्विस्मयहर्षभूमिः
अहो महामोहतमोहरेण दूरस्थितेनामि तथागतेन ।
प्रसह्य ब्ःआस्वद्वपुषार्पितेयं विकासलक्ष्मीः कुशलाम्बुजस्य
तीर्णो बह्वः सत्प्रणिधानमाप्तं प्रसन्नमन्तःकरणं क्षणेन ।
अहो नु तृष्णापरितापशान्त्यै समुच्छलन्तीव समामृतौघाः
इत्युक्त्वा सा बह्गवते मुक्तारत्नान्युपायनम् ।
वितीर्य संघपूजायां विससर्ज वणिग्जनम्
ते महोदधिमुत्तीर्य प्राप्ता बह्गवतो ऽन्तिकम् ।
तन्मुक्तारत्ननिकरं प्रणम्यास्मै न्यवेदयन्
वणिग्भिः कथितां श्रुत्वा तत्कथां तत्र भिक्षुणा ।
आनन्दनाम्ना पृष्ठो ऽथ बभाषे भगवान् जिनः
यासौ पुरा रोहिताख्या दासी शाक्यगृहे ऽबह्वत् ।
सैव मुक्तालता जाता सत्कर्मप्रणिधानतः
अभून्महाधनो नाम वाराणस्यां वणिक् पुरा ।
तस्य रत्नवती नाम पत्नी पुण्योचिताभवत्
सा पत्यौ पञ्चतां याते निःपुत्रा स्तूपशेखरे ।
पूजां कृत्वा महाहारां भक्तियुक्ता न्यवेदयत्
तेन पुण्यविपाकेन सिंहलाधिपतेः सुता ।
जाता मुक्तालता सैव प्राता च परिनिर्वृतिम्
सैव जन्मनि चान्यस्मिन्नैर्वर्यमदमोहिता ।
पूजाधिक्षेपदक्षाभूद्धासी तेनातिवत्सरम्
जन्मभूमौ जनेनात्पं यद्यत्कर्म शुभाशुभम् ।
तस्य तस्य स तद्रूपं भुङ्क्ते परिणतं फलम्
निखिलकुशलमूला कीर्तिपुष्पोज्ज्वलश्रीः
शुभफलभरसूरिर्धर्मवल्ली नराणाम् ।
भवति च विषवल्ली किल्बिषक्लेशमूल-
भ्रमनिपतनमोहानन्तसंतापहेतुः
संतप्ते ऽस्मिन् खरतरमरुष्फारसंसारमार्गे
पापं पुन्यं त्यजत जनताः सक्ततीव्रानुतापम् ।
पुण्यं पुण्यं कुरुत सततं पुण्यपीयूषसिक्ताः
पुण्यच्छायातरुतलभुवः शीतलाः पुण्यभाजाम्
इति सत्प्रणिधानस्य फलं कथयता स्वयम् ।
भिक्षूणामुपदेशो ऽयं भक्त्यै भगवता कृतः
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0