भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 6

6.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां चन्द्रप्रभावदानं नाम पञ्चमः पल्लवः ॥
6. बदरद्वीपयात्रावदानम् ।
दानोद्यतानाम् पृथुवीर्यभाजां शुद्धात्मनां सत्त्वमहोदधीनाम् ।
अहो महोत्साहवताम् परार्थे भवन्त्यचिन्त्यानि समाहितानि

6.2

हर्म्यारोहणहेलया यदचलाः स्वभ्रैः सहाभ्रंलिहा
यद्वा गोष्पदलीलया जलभरक्षोभोद्धताह् सिन्धवः ।
लङ्घ्यन्ते भवनस्थलीकलनया ये चाटवीनां तटास्
तद्वीर्यस्य महात्मनाम् विलसतः सत्त्वोर्जितं स्फूर्जितम्

6.3

पुरा हि भगवान् बुद्धः श्रावस्त्यां पुरवासिनां ।
उपदेशप्रकाशेन जहाराज्ञानजं तमः

6.4

भिक्षुसंघैः परिवॄतः स कदाचिद्वणिग्जनैः ।
कृतानुयात्रो मगधात् स्वयं चारिकया ययौ

6.5

महार्थसार्थानुगतं व्रजन्तं वनवर्त्मना ।
तं दृष्ट्वा तस्करगणः सालाटव्यामचिन्तयत्

6.6

एष प्रयातु बह्गवान् पुरः सत्त्वहिते रतः ।
पश्चात् सार्थं ग्रहीष्यामः पूर्णं द्रविणराशिभिः

6.7

भगवानथ सर्वज्ञस्तेषां ज्ञात्वा समीहितम् ।
किमेतदिति तानूचे निर्विकारस्मिताननः

6.8

ते तमूचुः परित्यज्य क्रौर्यं मधुरया गिरा ।
तत्प्रसादस्मितालोकैर्विनष्टतिमिरा इव

6.9

भगवन् जीविकास्माकं निन्द्येयं कर्मनिर्मिता ।
न भृतिर्न कृषिर्नान्यरक्षणं न प्रतिग्रहह्

6.10

सहजं क्रौर्यमस्माकं निसर्गकलुषात्मनाम् ।
क्रियते किं स्वभावस्य देव तीक्ष्णा हि कर्णिका

6.11

तस्मान्न वृत्तिलोपो नः कर्तुमर्हसि गम्यताम् ।
याते तु त्वयि सार्थस्य वयं सर्वार्थहारिणह्

6.12

इति तेषां वचः श्रुत्वा करुणापूर्णमानसः ।
दोलालोलायितमतिर्बभूव बह्गवान् क्षणम्

6.13

ततः सार्थधनं सर्वं परिसंख्याय तत्समम् ।
स ददौ चौरचक्राय तत्क्षणाप्तनिधानतः

6.14

तद्विधेन क्रमेणैव पुनः पथि गतागतैः ।
षट्कृत्वः प्रददौ तेभ्यः सो ऽर्थं सार्थस्य मुक्तये

6.15

पुनश्चोपगते तस्मिन् वर्त्मना तेन सानुगे ।
बभूव बुद्धिश्चओराणां तद्भोजननिमन्त्रणे

6.16

दृशा दिशन्ति वैमल्यं शुभं संभाषणेन च ।
व्रजन्ति संगमाभ्यासैः सन्तः सन्मार्गसेतुताम्

6.17

तत्रातिर्यग्दृशा सर्वं सर्वाकुशलसंक्षयात् ।
तेषां समाहितं शुद्धं विदधे भगवान् जिनह्

6.18

येषां संग्रहवस्तूनि वत्वारि नियतात्मनाम् ।
अर्थचर्या समानार्थब्ःआवस्त्यागः प्रियं वचः

6.19

येषां ब्रह्मविहाराश्च चत्वारः सत्त्वशालिनाम् ।
करुणा मुदितोपेक्षा मैत्री चेति परिग्रहः

6.20

येषां कुशलमूलानि सक्तानि त्रीणि चेतसि ।
अलोभश्चापरिद्वेषो ऽप्यमोहश्च महात्मनाम्

6.21

दानशीलक्षमावीर्यध्यानप्रज्ञाजुषां सदा ।
उपायप्रणिधिज्ञानबलैराश्रितचेतसाम्

6.22

परित्राणैकवीराणां सदैवाद्वयवादिनाम् ।
विद्यात्रयप्रदीप्तानां चतुर्वैमल्यशालिनाम्

6.23

पञ्चस्कन्धवुमिक्तानां षडयतनभेदिनाम् ।
सप्तबोध्यङ्गयुक्तानामर्याष्टाङ्गोपदेशिनाम्

6.24

नवसंयोगहीनानाम् तेषां दशबलात्मनाम् ।
किं वस्त्वविदितं लोके जिनानां जनचेष्टितम्

6.25

ततस्तेष्वतिकारुण्याच्चरणालीनमूर्धसु ।
तथेत्युवाच भगवांस्तद्भोज्योपनिमन्त्रणे

6.26

तैस्तत्संदर्शनक्षीणकिल्बिषैः सममर्पितम् ।
भिक्षुस्ंघैर्वृतो भोज्यं विधिवत् सर्वमाददे

6.27

ततस्तत्प्रणिधानेन ज्ञानालोकशलाकया ।
ते समुन्मीलितदृशः प्रकाशं ददृशुः पदम्

6.28

ते सद्यस्तीव्रवैराग्यपरिपक्काः प्रसादिनः ।
प्रव्रज्यायोगमासज्य जग्मुर्जगति पूज्यताम्

6.29

तत्तेषां कुशलं दृष्ट्वा सहसोपनतं पुरः ।
बभाषे भगवान् पृष्टः किमेतदिति भिक्षुभिः

6.30

एतैर्यमायं संबन्धः सार्थरक्षणनिष्क्रयैः ।
द्वीपयात्रागतस्यासीदन्यस्मिन्नपि जन्मनि

6.31

अस्ति विस्तीर्णमार्गस्य स्वर्गवर्गावधिर्विधेः ।
पुरी वाराणसी नाम कौशलोत्कर्षहर्षभूः

6.32

यस्याममलकल्लोलवाहिनी सुरवाहिनी ।
सदा दयेव हृदयं प्रसादयति देहिनाम्

6.33

अहिंसेव सताम् सेव्या विद्येव विदुषां मता ।
क्षमेव सर्वभूतानां या विश्रम्भसुखस्थितिः

6.34

ब्रह्मकल्पे नृपे तस्या विकसत्कमलाश्रये ।
ब्रह्मदत्ताभिधे लोकं त्रैलोक्यमिव रक्षति

6.35

प्रियसेनाभिधानो ऽभूत् तत्र वैश्रवणोपमः ।
सार्थवाहो ऽर्थसार्थानाम् स्थानमब्धिरिवाम्भसां

6.36

तस्यासीत् सुप्रियो नाम सौजन्यनिलयः सुतः ।
प्रययौ यं समाश्रित्य गुणसार्थः कृतार्थताम्

6.37

दानशीलक्षमावीर्यध्यानप्रज्ञासमन्वितह् ।
धात्रा विलोभवायैव यः कृतः सुकृतश्रियः

6.38

तं सर्वविद्याः विशदाः कलाश्च विपुलाशयम् ।
विविशुः सरसोदारा महोदधिमिवापगाः

6.39

गुणालंकृतचारित्रं लक्षणालंकृताकृतिम् ।
पुरुषोत्तमलुब्धेव यं श्लाघ्यं श्रीरशिश्रियत्

6.40

कालेन सुकृतक्रीतं पितरि त्रिदिवं गते ।
चक्रे स्कन्धतटे तस्य व्यवहारभरः स्थितिम्

6.41

सो ऽचिन्तयदियं लक्ष्मीर्विपुलात्मक्रमागता ।
तथापि मन्ये पर्याप्ता न सर्वार्थिमनोरथे

6.42

किं तया सुमहत्यापि श्रिया सत्पुरुषस्थया ।
पूर्वागतार्थिउभुक्तेव या शेषार्थिषु निष्फला

6.43

रत्नाकरस्य वैपुल्यं निष्फलं वेधसा कृतम् ।
अद्यापि पूरितो येन नैको ऽप्यर्थी स वाडवः

6.44

अथवा पृथुसंकल्पः केनार्थी परिपूर्यते ।
जगामाब्धिरगस्त्यस्य चुलुकाचमनीयताम्

6.45

किं करोम्यतितापो ऽयं श्रीरेका बहवि ऽर्थिनः ।
न तदासाद्यते वित्तं यत् सर्वार्थिभरक्षमम्

6.46

पञ्च षट् पूरिता एवं नान्ये श्रीकौस्तुकादिभिः ।
इतिवाद्यापि तप्तो ऽन्तर्ज्वलदौर्वानलो ऽम्बुधिः

6.47

तस्मात् करोमि यत्नेन निंसंख्यद्रविणार्जनम् ।
न सहे दुःखनिःश्वासं विमुखस्य मुखे ऽर्थिनः

6.48

इति संचिन्त्य स चिरं सार्थेन महता वृतः ।
रत्नद्वीपपुरं गत्वा विदधे रत्नसंग्रहम्

6.49

ततः प्रतीपमायान्तं कृतार्थं तं वनेचराः ।
सार्थार्थरणोन्मुक्ता ददृशुर्दस्यवः पथि

6.50

सार्थार्थहरणे दृष्ट्वा स तेषां साहसोद्यमम् ।
निजसरव्स्वदानेन संररक्षानुयानिम्

6.51

पुनः क्रमेण तेनैव रत्नद्वीपगतागतिः ।
सार्थत्राणाय चौराणां षट्कृत्वः प्रददौ धनम्

6.52

तथैव त्वां पुण्यविपन्वानिसंप्राप्तस्तथैव तान् (?) ।
ददर्श चौरान् सार्थार्थहरणे अधिकादरान्

6.53

सो ऽचिन्तयदहो वित्तैर्महद्भिः परिपूरिताः ।
मयैते न निवर्तन्ते परार्थहरणोद्यमात्

6.54

जगत् संपूरयाम्यर्थैरियुक्त्वापि मयासकृत् ।
अहो नु दस्यवो नैते वराकाः परिपूरिताः

6.55

अचितोत्साहहीनस्य व्याहतोत्तरवादिनः ।
विकत्थनप्रतिज्ञस्य धिङ्मे जन्म कुजन्मनः

6.56

इति चिन्तयतस्तस्य तप्तस्यानुशयाग्निना ।
विजने प्रययौ रात्रिः संवत्सरशतोपमा

6.57

तं शोकपङ्कसंमग्नं गजेन्द्रमिव निश्चलम् ।
दीर्घोच्छ्वासं महेशाख्या स्वप्ने प्रोवाच देवता

6.58

सुमते मा कृथाः शोकं शरीरोच्छोषणं वृथा ।
सत्संकल्पाभिरूढस्य भविष्यति तवेप्सितम्

6.59

न तदस्ति जगत्यस्मिन् स्वप्नसंकल्पदुर्लभम् ।
यन्न सिध्यति यत्नेन धीराणां व्यवसायिनाम्

6.60

सा काप्यनुपमा शक्तिरेकस्यापि द्विजन्मनः ।
यदाज्ञास्पन्दितेनैव विन्ध्यः क्ष्मासमताम् ययौ

6.61

विषमं समतां याति दूरमायाति चान्तिकम् ।
सलिलं स्थलतामेति कार्यकाले महात्मनाम्

6.62

परार्थो ऽयं तवारम्भः फलत्येव न संशयम् ।
न भवन्ति विसंवादसंदिग्धाः सत्त्ववृत्तयः

6.63

रत्नानि बदरद्वीपे सन्ति त्रिदशसेविते ।
येषामेकप्रभावो ऽपि त्रिजगत्पूरणक्षमः

6.64

मर्त्यभूमिमतिक्रम्य सा हि भूमिर्महीयसी ।
आसाद्यते पुण्यमयी नासत्त्वैर्नाकृतात्मभिः

6.65

विषादस्त्यज्यताम् पुत्र स्थिरा बुद्धिर्विधीयताम् ।
बदरद्वीपयात्रायामुत्साहः परिगृह्यताम्

6.66

श्रूयतामेष तत्प्राप्त्यौ दिङ्भात्रानुक्रमक्रमः ।
स्फीतसत्त्वप्रभावस्त्वं संसारोत्तरणक्षमह्

6.67

अस्ति पश्चिमदिग्भागे समुल्लङ्घ्य महीयसाम् ।
शतानि सप्त द्वीपानां तथा सप्त महाचलान्

6.68

सप्तापताश्चानुलोमप्रतिलोमाभिधो ऽम्बुधिः ।
अनुकूलानिलैर्यस्मिन् पारमाप्नोति पुण्यवान्

6.69

ततस्तत्तुल्यनामाद्रिर्वातैस्तिमिरमिहकृत् ।
यत्राक्ष्णोर्दिशति स्वास्थ्यममोघाख्या महौषधिः

6.70

अथावर्ताभिधो ऽम्भोधिर्वैरम्भैर्यत्र वायुभिः ।
मज्जनोन्मज्जनैर्जन्तुः सप्तावर्तेषु तार्यते

6.71

आवर्ताख्यस्ततः शैलः शङ्खनाभो निशाचरह् ।
घोरः प्राणहरो यत्र त्रिदशत्रासकृत् स्थितः

6.72

कृष्णसर्पावृता यत्र शन्खनाभिर्महौषधिः ।
त्रायते पुण्यसंपन्नं नेत्रे शिरसि चार्पिता

6.73

अथ नीलोदनामाब्धी रक्ताक्षो यत्र राक्षसः ।
मकर्याभिभूतां बुद्धविद्याविद्वान् वशे (?)

6.74

अथ नीलोदनामाद्रिर्नीलग्रीवः क्षपाचरः ।
प्रतीप्तनेत्रो यत्रास्ते रक्षसां पञ्चभिः शतैः

6.75

तत्रओषधिममोघाख्याम् रक्षत्याशीविषः सदा ।
दृष्टिनिः श्वाससंस्पर्शदंष्ट्रोत्सृजद्विषानलः

6.76

उपोषधव्रतवता मैत्रेण करुणात्मना ।
लभ्यते सा समुत्सार्य कृष्णसर्पं महौषधिः

6.77

तं रक्षःशकटं शैलं निष्फलश्लक्ष्णकन्दरम् ।
तामज्जने शिखायां च कृत्वा तरति पुण्यवान्

6.78

अथ वैरम्भनामाद्रिः पारे यस्योत्तरा तटे ।
घोरा ताम्राटवी नाम महाशालवनान्तरा

6.79

महानजगरस्तत्र ताम्राक्षो नाम दुःसहः ।
आस्त यस्योग्रगन्धेन वायुनैव न जीव्यते

6.80

षण्मासान् स्वपतो यस्य लाला व्याप्नोति योजनम् ।
क्षुत्संतप्तस्य षण्मासानल्पीभवति जाग्रतः

6.81

वेणुगुल्मशिलाबद्धां गुहामुत्पाट्य मेदिनीम् ।
प्रायौषधीं दिवारात्रं ज्वलन्तीमञ्जनोचिताम्

6.82

तस्मादजगराद् घोरादन्यतो वा महौजसः ।
अवैराख्यां बुद्धविद्यां जपतो न भवेद्भयम्

6.83

ततः सप्त महाशैला वेणुकण्टकसंकटाः ।
ताम्रपटाङ्कपादेन तीर्यन्ते वीर्यशालिना

6.84

ततश्च शाल्मलीवनं सप्त क्षारतरङ्गिणीः ।
उत्तीर्यासाद्यते प्राङ्गुस्त्रिशङ्कुर्नाम पर्वतः

6.85

तत्र त्रिशङ्कवो नाम कण्टका वज्रभेदिनः ।
पादयोर्न विशन्त्येव ताम्रपट्टावनद्धयोः

6.86

त्रिशन्कुर्नाम तटिनी तत्रायःशङ्कुपर्वतः ।
उपस्कीलनदी तत्र ततो द्विधा द्विधा सरित्

6.87

अथाष्टादशवक्राख्यः पर्वतो निरवग्रहः ।
तत्तुल्यसंज्ञाथ नदी श्लक्ष्णि नाम गिरिस्ततः

6.88

अथाद्रिधूमनेत्राख्यो धूमनिर्दिग्धदिक्तटः ।
दृष्टिस्पर्शविषैर्व्याप्तः क्रूराशीविषमण्डलैः

6.89

तन्मूर्ध्नि पल्वलस्यान्तः शिलाबद्धा महागुहा ।
ज्योतीरसो मणिर्यस्यां जीवनी च महौषधिः

6.90

भित्त्वा गुहाम् तदभ्यक्रशिरःपादकरोदरः ।
वज्र-मन्त्रबलोपेतः क्रूरसर्पैर्न बाध्यते

6.91

अथोग्रसत्त्वसंकीर्णाः सप्ताशीविषपर्वताः ।
नद्यश्च तद्विधा यासामपारवारिसंपदः

6.92

एतदुत्तीर्य निखिलं पुण्यैः परहितोद्यतः ।
आरोहति सुधाशैलं शृङ्गैरालिङ्गिताम्बरम्

6.93

ततस्तस्यापरे पार्श्वे कल्पवृक्षोपशोभितम् ।
पुरं रोहितकं नाम दृश्यते स्वर्गसंनिभम्

6.94

अस्ति तत्र मघो नाम मघवानिव विश्रुतः ।
सार्थवाहो महासत्त्वः सर्वसत्त्वहिते रतः

6.95

बदरद्वीपयात्रायामुद्यतस्यानवद्यधीः ।
मार्गोपदेशं देशज्ञः स ते सर्वं करिष्यति

6.96

इत्युक्त्वोत्साह्य बहुशः शुभद्रैरिव सुप्रियम् ।
वचोभिरिचितैर्देवी सहसान्तरधीयत

6.97

प्रबुद्धः सुप्रियः सर्वं तत्तथेति विचिन्तयन् ।
प्रतस्थे सत्त्वमारुह्य निजोत्साहपुरःसरः

6.98

स व्रजन् विनितायासस्तेन निर्दिष्टवर्त्मना ।
पुण्यैर्द्वादशभिर्वर्षैः प्राप र्फितकं पुरम्

6.99

अत्रान्तरे कर्मयोगात् तत्र सार्थपतिर्मघः ।
व्याधिना दुश्चिकित्स्येन बभूवास्वस्थविग्रहः

6.100

अलब्धान्तःप्रवेशो ऽथ गृहे राजगृहोपमे ।
तस्य व्यलम्बत द्वारं सुप्रियः कार्यसिद्धये

6.101

ततो वैद्यापदेशेन स प्रवेशमवाप्तवान् ।
उपयोगकथाप्रज्ञा न कस्यादरभूमयः

6.102

आयुर्वेदविधानज्ञः स तस्यारिष्टलक्षणैः ।
षण्मासशेषमेवायुर्ज्ञात्वा चिन्तान्तरो ऽभवत्

6.103

तस्य प्रियहितप्रायो भैषज्यपरिचर्यया ।
अत्यल्पेनैव कालेन सुप्रियः प्रियतां ययौ

6.104

भैषज्ययुक्तिस्तत्प्रीत्या तस्य वल्लभतां ययौ ।
प्रियोपनीतं यत्किं चित् तत्सर्वं मनसः प्रियम्

6.105

प्रियोपचारैस्तस्याथ व्याधिराद्रावमाययौ ।
आधिः शाम्यति सत्सङ्गात् तओ व्याधिर्विशीर्यते

6.106

ततः संजातविश्रम्भः सुप्रियः प्रणयान्मघम् ।
चक्रे विदितवृत्तान्तं पश्चान्निजकथाक्षणे

6.107

बदरद्वीपयात्रायां तस्योत्साहं महात्मनह् ।
परार्थे निश्चलं ज्ञात्वा तमूचे विस्मयान्मघः

6.108

अहो बतास्मिन् संसारे विःसारे साररूपिणः ।
जायन्ते मणयः केचित् परचिन्तापरायणाः

6.109

नवं वयः प्रिया मूर्तिः परार्थप्रवणं मनः ।
पुण्योचितस्तथैवायं स्थाने गुणसमागमः

6.110

इयतीं भूमिमुल्लङ्घ्य परार्थे त्वमुपागतः ।
करोमि तव साहाय्यं किं त्वहं भृशमातुरः

6.111

निबद्धावधयः प्राणाः प्रयान्त्येव शरीरिणाम् ।
ते व्रजन्तु ममान्ते ऽपि त्वत्समाहितहेतुताम्

6.112

एवमेव व्ययो यस्तु व्ययः स परिगण्यते ।
परार्थे जीवितस्यापि व्ययो लाभशतैः समः

6.113

न मया बदरद्वीपं दृष्टं किं तु श्रुतं मया ।
महाब्धौ दिस्कमुद्देशं तैस्तैर्जानामि लक्षणैः

6.114

इत्युक्त्वा भूपतिं सुहृद्बन्धुवाक्ये ऽप्यनादरः ।
स मङ्गलप्रवहणं सुप्रियेण सहादधे

6.115

ततः प्रवहणारूढौ तौ योजन्शतान्यपि ।
पवनस्यानुलोम्येन जग्मतुर्विपुलाशयौ

6.116

स्थाने स्थाने जलं दृष्ट्वा नानावर्णं महोदधेः ।
किमेतदिति प्रपच्छ सुप्रियः कौतुकान्मघम्

6.117

जले लोहाचलाः पञ्च सन्त्यस्य पयसां निधेः ।
ताम्ररूप्यमयाश्चान्ये हेमरत्नमयाः परे

6.118

तेषां छायाविशेषेण नानावर्णः पदे पदे ।
दृश्यते ऽब्धिरयं दीप्तः प्राप्तान्तरोद्गतौषधिः

6.119

इत्युक्त्वा व्याधिनाक्रान्तः प्राप्तकालावधिर्मघः ।
प्राणान्मुमोच सत्कीतिविन्यस्तस्थिरजीवितः

6.120

वज्रलेपादपि दृढं यथा सत्त्वं महात्मनाम् ।
तथा यदि भदेदायुः किमसाध्यं भवे बह्वेत्

6.121

कूलावाप्तप्रवहणह् सुप्रियस्तद्वियोगजम् ।
शुचं संस्तभ्य विदधे सुहॄदस्तनुसत्क्रियाम्

6.122

एतदेवोन्नतं लक्ष्म सत्त्वोत्साहमहात्मनाम् ।
विच्छिन्नालम्बने काले यत्कर्तव्यदृढं मनः

6.123

पुनः प्रवहणारूढः स समुत्तीर्य वारिधिम् ।
रत्नपर्वतपार्श्वेन विवेश विकटाटवीम्

6.124

न वियोगैर्न चोद्वेगैर्नाभियोगैर्द्विषामपि ।
न रोगैः क्लेशभोगैर्वा हीयते महतां मतिः

6.125

स तत्राक्रान्तगगनं निरुद्धाशेषदिक्तटम् ।
दुरारोहं ददर्शाग्रे मूर्तं विघ्नमिवाचलम्

6.126

उपायहीनस्तं दृष्ट्वा गिरिं मूर्खमिवोद्धतम् ।
अधः पल्लवशय्यायाम् सुप्तः सो ऽचिन्तयत् क्षस्णम्

6.127

अहो बत कियान् कालः प्रयातः प्रस्थितस्य मे ।
बदरद्वीपनामापि न नाम श्रूयते क्कचित्

6.128

व्यवसायसहायो मे यो ऽभूत्पुण्यपणैः परम् ।
भग्नप्लव इवाकाले सो ऽपि कर्मोर्मिविप्लवैः

6.129

नष्टोपाये ऽप्युपाये ऽस्मिन् व्यवसायान्महीयसः ।
न नाम विनिवर्ते ऽहं सिद्धिर्निधनमस्तु वा

6.130

तदेकं जन्मयात्रासु पूज्यं जन्म जगत्र्त्रये ।
यस्मिन् परोपक्राराय जायते जीवितव्ययः

6.131

इति चिन्ताकुलं तत्र तं ज्ञात्वा सत्यसागरम् ।
नीलो नाम समभ्येत्य यक्षः प्राहाचलाश्रयः

6.132

पूर्वेण योजनं गत्वा त्रीणि शृङ्गाणि भूभृतः ।
वेत्रसोपाननिश्रेण्या समारुह्याथ गम्यताम्

6.133

इति यक्षोपदेशेन स विलङ्घ्य महाचलम् ।
ददर्शाग्रे समुत्तुङ्गश्रृङ्गं स्फटीकभूधरम्

6.134

तस्मिन्नेकशिलाश्लक्ष्णे दुर्गमे पक्षिणामपि ।
मुहूर्तमभवत्तस्य निर्व्यापारो मनोरथः

6.135

अभ्युन्नतम् निरालम्बं स्वसंकल्पमिवाचलम् ।
स तं विचार्य सुचिरं चित्रन्यस्त इवाभवत्

6.136

अथ चन्द्रप्रभो नाम यक्षः शैलगुहाशयः ।
अभ्येत्यः सत्त्वसंपन्नं तमभाषट वुस्मितः

6.137

क्रोशमात्रमितो गत्वा पूर्वेणापूर्वविभ्रमम् ।
दृश्यते चन्दनवनं बालानिलचलल्लतम्

6.138

तत्रास्ते प्रसरा नाम गुहालीना महौषधिः ।
लभ्यते देहरक्षायै समुत्तोल्य महाशिलाम्

6.139

तत्प्रभावकृतालोकं सोपानैः स्फटिकाचलम् ।
सहसैव समारुह्य गम्यतामीप्सिताप्तये

6.140

तत्क्षणात् कृतकार्थेव सा प्रयाति महाउषधिः ।
न खेदस्तत्कृते कार्यस्तडिल्लोलाः प्रियाप्तयः

6.141

इति यक्षोपदिष्टेन विधानेन स भूधरम् ।
समुत्क्रम्य ददर्शाग्रे नगरं हेममन्दिरम्

6.142

मेरूकूटैरिवाकीर्णं प्रकाशैरिव निर्मितम् ।
सवाश्चर्यैरिव कृतं तद् दृष्ट्वा विस्मितो ऽभवत्

6.143

महाहेमकपाटाभ्यां रुद्धद्धारम् विलोक्य तत् ।
निर्जनं वारसंचारं वनान्ते निषसाद सः

6.144

अत्रान्तरे दिनस्यान्ते व्योमानन्तपथाध्वगः ।
अवापास्ताचलोपान्तं परिश्रान्त इवांशुमान्

6.145

अस्तं गते सहस्रांशौ रजनीरमणी शनैः ।
तारापतिमिवान्वेष्टुं प्रससाराभिसारिका

6.146

अथ प्रकाशविबह्वैः सर्वाशापूरणोन्मुखः ।
बोधिसत्त्व इव स्वच्छः सुधादीधितिरुद्ययौ

6.147

स्फीटा तमः समूहस्य निःशेषप्रशमोचिता ।
मानसोल्लासिनी ज्योत्स्ना सत्त्ववृत्तिरिवाबभौ

6.148

तमोमोहं जहारेन्दुर्दिशां दिनवियोगजम् ।
परोपकारे हि परो दूरारोहो महात्मनाम्

6.149

सुप्रियश्चन्द्रकिरणैः पूर्यमाणतनुः क्षणम् ।
निद्रां कार्यसमुद्रोर्मिक्षोभमुद्रामवाप्तवान्

6.150

क्षपायाम् क्षीयमाणायां गुणदाक्षिण्यसादरा ।
जगाद देवता स्वप्ने महेशाख्या समेत्य तम्

6.151

अहो बत महासत्त्व सत्तत्त्वाभिनिवेशिना ।
परार्थे विपुलः क्लेशः कृतः सुकृतिना त्वया

6.152

अल्पशेषे प्रयासे ऽस्मिन् नोद्वेगं कर्तुमर्हसि ।
अपर्युषितसत्त्वानां स्वाधीनाः सर्वसिद्धयः

6.153

हैमं यदेतन्नगरं त्रीणि चान्यान्यतः परम् ।
सन्ति रत्नपुराण्यत्र विचित्राण्युत्तरोत्तरम्

6.154

तेभ्यो निर्यान्ति किन्नर्यश्चतश्रो ऽष्टौ च षोडश ।
द्वात्रिंशच्च क्रमेणैव त्वया द्वारि विघट्टिते

6.155

जितेन्द्रियस्य भवतस्तत्प्रमादमवेदिनः ।
किमन्यदचिरेणैव् वाञ्छिताप्तिर्भविष्यति

6.156

इत्युक्तः सादरं देव्या प्रतिबुद्धो ऽथ सुप्रियः ।
जघान नगरद्वारं त्रिः समभ्येत्य पाणिना

6.157

ततश्चतस्रः क् इन्नर्यो निर्ययुस्तरलेक्षणाः ।
आश्चर्यतरुमञ्जर्य इव लीलानिलाकुलाः

6.158

मानसिल्लासकारिण्यो नयनामृतवृष्टयः ।
वदनेन्दुसमुद्योतैर्दिवापि कृतचन्द्रिकाः

6.159

ताः संपूज्य स्मरोदारं सुप्रियं प्रियदर्शनाः ।
तस्याभिलाषप्रणयैरातिथ्यमिव चक्रिरे

6.160

चन्द्रकान्तसमासीनं कृतासनपरिग्रहाः ।
जीवनौषधयो जाताः स्मरस्येव सविग्रहाः

6.161

तास्तमूचुः समुन्मीलद्विलासहसितत्विषः ।
ददत्य इव कर्पूरं प्रेमोपायनताम् पुरः

6.162

अहो धन्या वयं यासां सद्गुणालकृताकृतिः ।
स्वयएम्वाभिगम्यो ऽपि भवानद्यागतो गृहम्

6.163

विधेषः कस्य पीयूषे चन्दने कस्य वारुचिः ।
इन्दौ मन्दादरः को वा साधुः कस्य न संमतः

6.164

स्त्रीणां यद्यपि सौभाग्यभङ्गाय प्रणयः स्वयम् ।
क्रमस्त्वद्दर्शनेनैव तथापि मुखरीकृताः

6.165

इदं च किन्नरपुरं वयं च प्रणयार्पिताः ।
रत्नं च सौभाषणिकं साधो स्वाधीनमेव ते

6.166

इति तासां वचः श्रुत्वा सुप्रियः प्रणयोचितम् ।
उवाच सत्त्वधवलां दिशन् दशनचन्द्रिकाम्

6.167

बहुमानास्पदं कस्य नेदं संभाषणामृतम् ।
आत्मनो ऽप्यादरस्थानम् बह्वतीभिः कृतादरः

6.168

श्लाघ्यं दर्शनमेवेदं तत्राप्ययमनुग्रहः ।
मुक्तालतास्तापहराः किं पुनश्चन्दनोक्षिताः

6.169

एवं विधानाम् स्वच्छानामैन्दवीनामिव त्विषाम् ।
आकृतीनाम् समुचिता रुचिरा लोकवृत्तयः

6.170

औचित्यचारुचरितं प्रसादविशदं मनह् ।
वात्सल्यपेशला वाणी न कस्यादरभूमयः

6.171

गृहीतो ऽस्माभिराचारः पूजापरिकरोचितह् ।
आत्मार्पणं कुलान्तं वः परायत्ता हि योषितः

6.172

कन्याभावादपक्रान्ता यूयं परपरिग्रहाः ।
विश्रम्भेण भगिण्यो मे जनन्यः स्नेहगौरवात्

6.173

परवित्तं विषं येषां जनन्यश्चान्ययोषितः ।
परहिंसात्महिंसौव पक्षास्तेषां निरत्ययाः

6.174

पौशुन्यासत्यपारुष्यभिन्नवादोज्झितं वचः ।
सदैव वदने येषाम् तेषाम् सर्वाशिषा दिशः

6.175

अभिध्यारहितं चेतो व्यापारपरिवर्जितम् ।
मिथ्यादृष्टिविहीनं च येषां ते सत्पथं श्रिताः

6.176

दशाकुशलमार्गेभ्यो निर्गतानां निसर्गतः ।
एते कुशलवर्गस्य मार्गाः स्वर्गे निरर्गलाः

6.177

धीरेव धन्यं धनमुन्नतानां विद्यैव चक्षुर्विजितेन्द्रियाणाम् ।
दयैव पुण्यं पुरुषोत्तमानां आत्मैव तीर्थं शुचिमानसानाम्

6.178

एवंविधो ऽयं गुणसंनिवेशः शीलेन वैमल्यमुपैति पुंसाम् ।
सद्रत्नमुक्तानिकरातिरितं शीलं सतामाभरणं वदन्ति

6.179

इत्युक्तमाकर्ण्य गुणानुरूपं सत्त्वार्थिना तेन जितेन्द्रियेण ।
तुष्टास्तमूचुर्भुवि चन्द्रलोकं ताः कौतुकायैवमुखैः सृजन्त्यः

6.180

मणेरिवानर्घगुणोज्ज्वलस्य दृष्टैव साधोरुचिता रुचिस्ते ।
ययैव मौलौ हृदये श्रुतौ च सद्भिः सदैवाभरणीकृतो ऽसि

6.181

मणिर्महार्हः प्रथितप्रभावः प्रगृह्यतामात्मसमस्त्वयायम् ।
ध्वजार्पितो वर्षति योजनानां सहस्रमेवार्थिसमीहितं यः

6.182

उक्त्वेति रत्नप्रवरं तरुण्यस्तस्मेइ ददुर्मूर्तमिव प्रसादम् ।
आदाय तं च प्रणयोपचारं सो ऽपि द्वितीयं पुरमाप रौप्यम्

6.183

तत्रादरात्तद्द्विगुणाभिरेव स पूजितह् किन्नरकामिनीभिः ।
क्रमेण तेनैव विशुद्धबुद्धिर्लेभे मणिं तद्द्विगुणप्रभावम्

6.184

* * * * * * * * * * * * * * * * ।
* * * * * * * * * * * * * * * *

6.185

प्राप्तश्च तं रत्नमयं चतुर्थं पुरं ततः सर्वपुराधिकश्चि ।
सो ऽभ्यर्थितस्तद्द्विगुणाभिरग्रे गुणाधिकः किन्नरसुन्दरीभिः

6.186

तथैव सद्धर्मकथाप्रसङ्गैस्तातोषितास्तेन सुसंयतेन ।
उत्फुल्लनीत्पलदामदीर्घकटाक्षविक्षिप्तकरास्तमूचुः

6.187

भ्रातास्ति नः किन्नरराजवंशरत्नाकरेन्दुर्बदराभिधानः ।
तस्यास्पदं द्वीपमिदं महार्हं स्वनामचिह्नं प्रथितं समृद्ध्या

6.188

रत्नं चेदम् नियमविधिना पोषधाख्यव्रतेन न्यस्तं भास्वत्किरणनिकरं पुण्यभाजां प्रयत्नात् वर्षत्येव स्थिरपरहितव्याप्तये गृह्यताम् तत्

6.189

इत्युत्पाट्यामरतरुफलं सादरं सुन्दरीभिः
प्रेमोद्दामप्रणयसुभगं दत्तमासाद्य रत्नम् ।
बालाहाख्यं विजितपवनं तं प्रकृष्टं तुरङ्गं
सो ऽप्यारुह्य स्वनगरमगाल्लब्धमार्गोपदेशः

6.190

तस्मिन् काले विपुलकुशलैः स्वर्गमार्गं प्रयाते
वाराणस्यां विशदयशसि क्ष्मापतौ ब्रह्मदत्ते ।
श्रीमान् सर्वप्रणयिफलदः सुप्रियः पौरमुख्यैर्
लोकत्राणे विनिहितमतिर्धर्मराज्ये ऽभिषिक्तः

6.191

ततः शिरःस्नानविधिक्रमेण तत्पञ्चदश्याम् ध्वजमूर्ध्नि रत्नम् ।
स पोषधोपोषित एव धृत्वा चकार विश्वं परिपूर्णकामम्

6.192

कृत्वा यात्राम् परहितफलां वत्सराणाम् शतेन
स्थित्वा राज्ये महति निखिलं पूरयित्वा च लोकम् ।
पुत्रं धृत्वा नरपतिपदे प्राप्य सर्वोपशान्तिं
तत्त्वज्ञो ऽसौ किमपि परमं ब्रह्मभावं जगाम

6.193

स्युरेते दस्यवः सर्वे पूर्वं ये पूरिता मया ।
रत्नद्रीपाभिगमने तस्मिन् सुप्रियजन्मनि

6.194

इति शास्ता स्ववृत्तान्तकथया विदधे विभुः ।
दानवीर्योपदेशेन भिक्षूणामनुशासनम्

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc