भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 5

5.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां मान्धात्रवदानं नाम चतुर्थः पल्लवः ॥
5. चन्द्रप्रभावदानम् ।
दुग्धाब्धिर्विबुधार्थनातिविधुरः क्षुब्धश्चकम्पे चिरं
कम्पन्ते च निसर्गतः किल फलोत्सर्गेषु कल्पद्रुमाः ।
एकः को ऽपि स जायते तनुशतैरभ्यस्तदानस्थितिर्
निष्कम्पः पुललोत्करं वहति यः कायं प्रदानेष्वति

5.2

अस्ति कौलासहासिन्यामुत्तरस्यामनुत्तरा ।
दिशि भद्रशिला नाम भुवनाभरणं पुरी

5.3

यस्यां सितयशःपुष्पाः सफलाः सर्वसंपदः ।
दानोद्यानलताः प्रीत्यै बभूवुः पुरवासिनाम्

5.4

यत्र त्रिपुरजिन्नेत्रशिखित्रस्तो मनोभवः ।
अबलाभिश्चलक्रीडभ्रूभङ्गैरेव रक्ष्यते

5.5

मुक्ताजालोज्ज्वला यत्र् अभाति हेमगृहावली ।
मेरोः शिखरमालेव विस्फुतत्स्फीततारका

5.6

तस्यां चन्द्रप्रभः श्रीमानभूद् भूमिभृतां वरः ।
कौलास इव यः कान्त्या चकार दिनचन्द्रिकाम्

5.7

यस्य देहप्रभापूरैः पूर्णिन्दुद्युतिहारिभिः ।
निशासु दीपकाभासु नाभूतु स्नेहगुणक्षयः

5.8

स्मरज्वरं भजन्ते ऽस्य दर्शनेनैव तारकाः ।
इति च्छत्रछलादस्य छादितं खमिवेन्दुना

5.9

प्रदिशत्येष सततं श्रियं सत्कोशसंश्रयाम् ।
इति तद्दर्शनेनैव संकोचं प्राप पद्मिनी

5.10

सेनाहंकारमुत्सृज्य त्यागशुभ्रश्रिया श्रियः ।
निर्दिष्टाश्छत्रमुकुटप्रकटाः पुरव्षिनाम्

5.11

शुशुभे विभवस्तस्य पुण्यालंकारणोन्नतेः ।
आरोहति पराम् कोटीं नम्रस्य धनुषो गुणः

5.12

चत्वारिंशत्सहस्राणि वत्सराणां शताणि च ।
बभूव देहिनामायुस्तस्य काले कलिद्विषः

5.13

तस्य षष्टिसहस्राणि पुरीणां पूर्णसंपदाम् ।
बभूवुर्लोकपालस्य लोकपालाध्काश्रियः

5.14

यज्वानः कीर्तितिलकास्तस्य पुण्यविभूषणाः ।
यज्ञधूमलताभङ्गैर्बभुर्लोलालकाः श्रियः

5.15

तस्य संपत्कुमुदिनीविकासेन सदोदितः ।
अभून्मन्त्री महाचन्द्रश्चद्रलोक इवोज्ज्वलः

5.16

येन निश्चललक्ष्येण प्रभोः प्रज्ञापताकया ।
राज्याब्धिकर्णधारेण पारमुत्तरितं यशः

5.17

महीधराभिधश्चासौ बभूवामात्यकुञ्जरः ।
भूमिभारसहस्तस्य दिङ्गाग इव पञ्चमह्

5.18

मन्त्रणाभिन्नमन्त्रस्य यस्य नीतिबृहस्पतेः ।
त्याजिताः प्रतिसामन्ताः शौर्यं विषमिवाहयः

5.19

तेनामात्येन स नृपः स च राज्ञा विभूषितः ।
गुणः सत्पुरुषेणेव गुणेनेव च सज्जनः

5.20

कृतज्ञः सरलः स्वामी सद्भृत्यो भक्तिनिर्भरः ।
सुकृतप्रभवेणैव भाग्ययोगेन लभ्यते

5.21

इयमेव चिरभ्रान्तिविश्रान्तिः सर्वसंपदाम् ।
यद्गुणज्ञतया वेत्ति स्वामिसत्पुरुषान्तरम्

5.22

तौ कदचिद्ददृशतुः स्वप्नमन्ये च मन्त्रिणह् ।
क्षयो यस्य फलं दानव्यसनेन महीपतेः

5.23

तौ दृष्ट्वा दुर्निमित्तानि प्रादुर्भूतानि शङ्कितौ ।
व्यग्रओ बभूवतुर्नित्यं शान्तिस्वस्तिककर्मसु

5.24

निमित्तदर्शनोद्विग्नास्तपिवनगता अपि ।
विश्वामित्रप्रभृतयः स्वामीत्यूचुर्महर्षयः

5.25

अत्राण्तरे ब्रह्मबन्धुः प्राग्जन्मब्रह्मराक्षसः ।
रौद्राक्षो नाम मात्सर्यक्रौर्यदौर्जन्यदुःसहः

5.26

श्रुत्वा दानोद्भवाम् कीर्तिं राज्ञः सर्वगुणोज्ज्वलाम् ।
निर्गुणः स गुणद्वेषि संतप्तः समचिन्तयत्

5.27

अहो बतास्य नृपतेर्गीयते गगने यशः ।
अनिशं सिद्धगन्धर्वगीर्वाणललनागणैः

5.28

सदा विशन्ति मे कर्णे तद्गुणस्तुतिसूचयः ।
किं करोमि प्रकृत्यैव सहे नान्यगुणोन्नतिम्

5.29

तद्गत्वा दानशीलस्य तस्य दानार्जितं यशः ।
करोम्येष शिरोयाच्ञाप्रतिषेधेन खण्डितम्

5.30

यशस्त्याज्यते दानोत्थं शिरश्चेन्न प्रदास्यति ।
अथ दास्यति विद्वेषप्रशान्तिर्मे भविष्यति

5.31

इति संचिन्त्य सुचिरं स कौर्यकठिनः शठः ।
गन्धमादनपादाण्तवासी भद्रशिलां ययौ

5.32

इन्द्रजालप्रयोगज्ञः स कृत्वा प्रशमोचितम् ।
वेषं कलुषसंकल्पः पुरीं प्राप महीपतेः

5.33

अस्मिन् भववने नित्यं गुणदोषसमाकुले ।
कल्पवृक्षाः प्रजायन्ते जायन्ते च विषद्रुमाः

5.34

अशेषनाशपिशुनैर्घोरसंत्रासकारिभिः ।
दुर्निमित्तैरिव खलैः खेदः कस्य न दीयते

5.35

गुणिद्वेषः प्रकृत्यैव प्रकाशपरिपन्थिनः ।
दोषआश्रयस्य को भेदः खलस्य तिमिरस्य च

5.36

स्वच्छन्दघाती साधूनां विद्वेषविषदुःसहः ।
दीर्घपक्षः खलव्यालकरालः केन निर्मितः

5.37

तस्मिन् प्रविष्टे नगरं रूपिणी पुरदेवता ।
उवाचाभ्येत्य भूपालं संत्रासतरलेक्षणा

5.38

शिरोयाचक एष त्वां ब्रह्मबन्धुरुपागतः ।
वध्यो ऽसौ जीवितोच्छेदी जगतो जीवितस्य ते

5.39

निरुद्धो नगरद्वारि स मया मलिनाशयः ।
मम तद्दर्शनत्रस्तं धृतिं न लभते मनः

5.40

इति ब्रुवाणां भूपालः प्रोवाच पुरदेवताम् ।
अर्थिसंरोधसंजातलज्जया नमिताननः

5.41

देवि याच्ञाभियातो ऽसौ प्रविशत्वनिवारितः ।
दिर्घोच्छ्वासं सहे नाहमाशावैफल्यमर्थिनः

5.42

याच्ञा प्रणयिनामर्थे पुण्यप्राप्तस्तनुव्ययः ।
युगसंख्यामपि स्थित्वा विपद्यन्ते हि देहिनः

5.43

एतदेव सुजातानां पूज्यं जगति जीवितम् ।
यदेषामग्रतो याति नार्थी भग्नमनोरथह्

5.44

क्रियतामानुकूल्यं मे भवत्या कुशलोचितम् ।
आशाविघाते संतापस्तस्य तूर्णं निवारताम्

5.45

इति भूमिभृतः श्रुत्वा वचो निश्चलनिश्चयम् ।
जगामादर्शनं देवी चिन्तासंतापमानसा

5.46

अथाययौ स कुटिलः खलः क्रकचचेष्टितः ।
दारुणः सरलस्यैव च्छेदाय स्वयमुद्यतः

5.47

तस्मिन्नृपगृहं प्राप्ते विवृतद्वारमर्थिनाम् ।
भूर्भूपतिक्षयभयाच्चकम्पे सधराधरा

5.48

नरेन्द्रचन्द्रमासाद्य स राहुरिच दुर्मुखः ।
समभ्यधाद्विधाय प्रागशिवार्थामिवाशिषम्

5.49

स्वस्ति राजन् द्विजन्मा हि विजने सिद्धिसाधकः ।
प्रातस्त्वामीप्सितप्राप्त्यै सर्वार्थिसुरपादपम्

5.50

दृष्टिर्वृष्टिरिवामृतस्य महती सौजन्यमित्रं मनः
क्षान्तिः क्रोधरजःप्रमार्जनदी दुःखार्तमाता मतिः ।
लक्ष्मीर्दानजलाभिषेकविमला सत्योपयुज्क्तं वचः
नित्यं यस्य स एक एव हि भवान् जातो जगद्बान्धवः

5.51

सिद्धये कथितं कैश्चिच्चक्रवर्तिशिरो मम ।
दीयतां त त्वदन्यो वा दातुं शक्नोति कः परह्

5.52

सन्ति स्पष्टार्थदाश्चिन्तामणिकल्पद्रुमादयः ।
दुर्लभार्थप्रदातारो विरलास्तु भवद्विधाः

5.53

इत्युक्ते तेन नृपतिर्निष्कम्पविपुलाशयः ।
अर्थिसंदर्शनानन्दनिर्भरस्तमभाषत

5.54

धन्यो ऽहं यस्य मे ब्रह्मन्नर्थिनामर्थसिद्धये ।
निर्विकल्पोपकरणं व्ययं याति सुजीवितम्

5.55

कदा प्राणाः परार्थे मे प्रयान्तीति मनोरथः ।
किमेतानि न पुण्यानि प्रार्थ्यन्ते ते यदि त्वया

5.56

आहोपकरणसिद्ध्यै श्लाघ्यं मे गृह्यतां शिरः ।
तत्तदेव स्थिरं लोके यद्यदर्थिसमर्पितम्

5.57

इत्युक्ते हर्षयुक्तेन भूभुजा सत्त्वशालिना ।
तमूचतुर्महामात्यौ महाचन्द्रमहीधरौ

5.58

निजजीवितरक्षैव धर्मस्ते प्रथमः प्रभो ।
त्वयि जीवति जीवन्ति सर्वे जगति जन्तवः

5.59

न दातुमर्हसि शिरः सर्वाधारं हि ते वपुः ।
दीयतां ब्राह्मणायास्मै हेमरत्नमयं शिरः

5.60

सर्वार्थैरर्थिसार्थानां पूर्यन्ते यैर्मनोरथाः ।
तेषां संरक्षणेनैव सर्वं भवति रक्षितम्

5.61

संकल्पो ऽयं द्विजस्यास्य क्रूरः कलुषचेतसः ।
मूलच्छेदोपजीव्यो हि न कल्पतरुरर्थिनाम्

5.62

हेमरत्नशिरः प्राप्य यात्वेष शिरसास्य किम् ।
चिन्तामणिर्विनिष्प्रेक्ष्यो भुज्यते न बुभुक्षितैः

5.63

इत्युक्ते मन्त्रिमुख्याभ्याम् हेमरत्नमयं शिरः ।
सिद्धो नैवोपयोग्यं तन्ममेति ब्राह्मणो ऽब्रवीत्

5.64

अथोन्मुमोच नृपतिर्मुकुटं मौक्तिकांषुभिः ।
श्रिरोविरहदुःखेन साश्रुधारमिवाभितः

5.65

मुकुटानि क्षणे तस्मिन्निपेतुः पुरवासिनाम् ।
दिग्दाहोन्मुखतुल्याभिरुल्काभिः सह भूतले

5.66

राज्ञा प्रदाने शिरसः सर्वथा परिकल्पिते ।
तौ चक्रतुस्तनुत्यागं मन्त्रिणौ द्रष्टुमक्षमौ

5.67

रत्नगर्भमथोद्यानं प्रविश्य पृथिवीपतिः ।
उत्फुल्लचम्पकस्याधः शिरश्छेत्तुं समुद्ययौ

5.68

उद्यानदेवता दृष्ट्वा तं शिरश्छेत्तुमुद्यतम् ।
मा कृथाः साहसं राजन्नित्युवाच शुचाकुला

5.69

कम्पमानाः प्रलापिन्यस्तं मत्तालुकुलस्वनैः ।
न्यवारयन्नवलता लोलपल्लवपाणिभिः

5.70

सो ऽपि निश्चलसंकल्पः प्रसाद्योद्यानदेवताम् ।
विमलां बोधिमालम्ब्य बभूव प्रणिधानवान्

5.71

अस्मिन् रत्नमयोद्याने पुण्यराशिसमुन्नतम् ।
स्तूपमस्तु प्रशास्तुस्तु सत्त्वसंतारणोचितम्

5.72

यत्किंचिदर्जितं पुण्यं संकल्पेन मयामुना ।
भवन्तु तेन संसारे निःसंसाराः शरीरिणः

5.73

ध्यात्वेति चम्पकतरोः शाखायां नृपतिः शिरः ।
बद्ध्वा कचकलापेन छित्त्वा प्रादाद्द्विजन्मने

5.74

अथ नरपते सत्त्वोत्साहस्फुटप्रणिधानतः
किमपि विमलैः पुण्यालोकैर्दिगन्तविसारिभिः ।
विगलितमहामोहौघान्तः श्रितः परिनिर्वृतिं
प्रविरतभवाभ्यासायासः क्षणादबह्वज्जनह्

5.75

इति प्राग्जन्मवृत्तान्तकथया भगवान् जिनः ।
भिक्षूणाम् विदधे शुद्धदानसद्धर्मदेशनाम्

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc