अवदानकल्पलता · अध्याय 4
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मणिचूडावदानं नाम तृतीयः पल्लवः ॥
4. मान्धात्रवदानम् ।
शोभन्ते भुवनेषु भव्यमनसां यन्नाककान्ताकर- प्रौढोदञ्चितचारुचामरसितच्छत्रस्मिताः संपदः ।
यच्चोत्सर्पति तर्पितश्रुति यशः कर्पूरपूरोज्ज्वलं
स्वल्पं दानकणस्य तत् फलमहो दानं निदानं श्रियः
अभूदुपोषधो नाम भूभृध्यस्य विभावतः ।
विबुधाभिमता कीर्तिः सुधा दुग्धोदधेरिव
वसुधामवतो यस्य वसुधामवतः पुरः ।
ननाम प्रणतौ कस्य न नाम नृपतेः शिरः
शुद्धा धीरिव धर्मेण दानेनेव दयालुता ।
विभूतिर्विनयेनेव भूषिता येन भूरभूत्
गुणिनः प्रांशुवंशस्य बभूवेन्दुद्युतेः स्थितिः ।
यस्य सर्वातपत्रस्य मूर्ध्नि सर्वमहीभृताम्
यस्येश्वरशिरःस्थायि शुभं गङ्गाजलोज्ज्वलम् ।
भ्रमत्यदभ्रं लोकेषु भुवनाभरणं यशः
कर्तु क्रतुसहस्राणां सहस्राक्षाधिकश्रियः ।
यस्य षष्टिसहस्राणि कलत्रं सुदृशामभूत्
कदाचिन्मुनिरक्षायै रक्षःक्षयकृतक्षणः ।
विचचाराश्वमारुह्य स तपोननभूमिषु
तत्र राजर्षिभिः कैश्चित्पुत्रेष्टिकलशं धृतम् ।
दूराध्वश्रमसंतप्तः स पयःपूर्णमापपौ
विजनासादितं पीत्वा स मन्त्रकलशात् पयः ।
राजधानीं समासाद्य गर्भं लेभे विभुर्भुवः
स्वप्नमायेन्द्रजालादि यस्याः कौतुकविप्रषुः ।
जयत्यद्भुतसंभारभूमिः सा भवितव्यता
विधेर्विविधवैचित्र्यचित्रकर्मविधायिनः ।
आश्चर्यरेखाविन्यासं कः परिच्छेत्तुमीश्वरः
कालेन तस्य मूर्धानं भित्त्वा बालों ऽशुमानिव ।
रूढव्रणस्य सहसा दिव्यद्युतिरजायत
तं राजजाया जगृहुर्जगत्साम्राज्यलक्षणम् ।
वात्सल्यप्रस्रुतक्षीराः पुण्यंमूर्तिमिवाश्रितम्
मां धारयिष्यति शिशुः श्लाघ्यो ऽयं जननीपदे ।
इति तासां मिथो वाक्यैर्मान्धाताभून्नृपात्मजः
तस्य प्रवर्धमानस्य बालक्रीडाविलासिनः ।
षडिन्द्रः प्रययौ कालः पुण्यक्रीडक्षयायुषः
नवयौवनमारूढः सर्वविद्यासु पारगः ।
स याते पितरि स्वर्गं भेजे राज्यं क्रमागतम्
यक्षो दिवौकसो नाम सुकृतेर्दासताम् गतः ।
अभिषेकोपकरणं दिव्यं तस्योपनीतवान्
स स्वर्णैर्बद्धमुकुटः कल्पितोष्णीषशेखरः ।
श्रदभ्रावतंसस्य मेरोः शोभामवाप्तवान्
सप्त रत्नानि तस्याथ प्रादुर्भूतानि तक्षणे ।
चक्राश्वमणिहस्तिश्रीगृहसेनाग्रगाण्यपि
बभुव चास्य पुत्राणां तुल्यरूपबलौजसाम् ।
सहस्रं विजितारातेर्भुजानामिव भूभुजः
वसुंधरां समस्ताब्धुइवेलाकलितमेखलाम् ।
निखिलां विदधे दोष्णि शेषविश्रान्तिर्निर्वृताम्
भुवनत्राणसंसद्धह् प्रत्यग्रकमलाश्रयः ।
चक्रवर्ती स सुकृतेर्विष्णोः कर इवाबभौ
त्रिजगज्जाह्नवी कीर्तिः प्रभावाभरणाः श्रियः ।
सो ऽयं सुकॄतवल्लीनां प्रथमं कुसुमोद्गमः
स कदाचिद्द्वनान्तेषु विकाशिकुसुमश्रियः ।
रुचिरं सचिवैः सार्धं विचचार विलोकयन्
ददर्श तत्र निष्पक्षान् विहगान् पादचारिणः ।
व्योममार्गगतिं स्मृत्वा प्रयातान् कृशतामिव
पक्षहीनानगतिकान् वृत्तिक्षीणान्निरम्बरान् ।
दरिद्रानिव तान् वीक्ष्य प्रोवाच कृपया नृपः
अहो वराकौर्विहगैः किमेतैः कुकृतं कृतम् ।
यदेते पक्षविकलाः कृच्छ्रचरणचारिणः
इत्युक्ते भूमिपतिना करुणाकुलितात्मना ।
पुरःस्थितो महामात्यः सत्यसेनस्तमब्रवीत्
श्रुतमेतन्मया देव कथ्यमानं वनेचरैः ।
कारणं पक्षपतने यदभूत् पक्षिणामिह
सन्ति पञ्च शतान्यत्र पुण्यधाम्नि तपोवने ।
तपःस्वाध्यायसक्तानां मुनीनां दीप्ततेजसाम्
तेषामद्ययनध्यानजपविघ्नविधायिनः ।
एते लोकाहलं चक्रुः खगास्तरूवने सदा
तस्मै विहगसंघाय कर्णापायकृते परम् ।
अतिसंवर्धमानाय चुकोप मुनिमण्डलम्
तदुर्भूतमहाशापतापल्पोषेण सर्वतः ।
क्षणेन पक्षिणां पक्षा व्यशीर्यन्त कृतागसाम्
त एते विहगाः पक्षरहिताः कृच्छ्रवर्तिनः ।
त्वद्विपक्षा इव वने श्रान्ताश्रचरणचारिणः
महामात्येन कथितं निश्मैतन्महीपतिः ।
उवाच करुणाक्रान्तस्तप्तः शापेन पक्षिणाम्
अहो तेजः परिणतं शान्तानामपि कानने ।
अङ्गाराणां मुनीनां च दहत्येवानिवारितम्
मिथ्यातपस्विभिः किं तैः स्वसुखाय न यैः कृतः ।
मनसः कोपतप्तस्य परिषेकः क्षमाम्बुभिः
प्रसन्ना धीर्मणो मैत्रं दया दानं दमह् क्षमा ।
येषां तेषां तपः श्लाध्यं शेषाणां कायशोषणम्
किं तपोभिः सकोपानां विल्पुतानां वनेन किम् ।
विभवैः किं सलोभानां दुर्वृत्तानां श्रुतेन किम्
एवं कलुषचित्तास्ते तीब्रमन्युपरायणाः ।
दुःसहा एव मुनयः प्रयान्तु विषयान्मम
इत्युक्त्वा प्राःइणोत्तेभ्यः संदेशं पुरुषैर्नृपः ।
यावती मद्वशा भूमिस्तावती त्यज्यतामिति
विहंगपक्षपातेन कुपितस्य महीपतेः ।
संदेशं मुनयः श्रुत्वा विलक्षाः समचिन्तयन्
चतुःसमुद्रपरिखामेखलायाः क्षितेः पतिः ।
नरेन्द्रो ऽयं क्क्व गच्छामः को देशो ऽस्य वशे न यः
इति संचिन्त्यं मुनयः पार्श्वं कनकभूभृतः ।
सुरसिद्धसमाकीर्णं जम्बूखण्डान्तिकं ययुः
अथ तस्य महीभर्तुः प्रब्ःआवेण महीयसा ।
अभूददृष्टशस्या भूद्याश्च रत्नाम्बरप्रसूः
पाकशासनवैलक्ष्यकरणास्तस्य शासनात् ।
सप्ताहं हेम ववृषुर्मेघाः संग्ःआतवर्षिणः
स प्रभावेण महता सह सैन्यैर्नभोगतिः ।
चक्रे पूर्वविदेहाख्यं द्वीपं दिव्यजनं वशे
बभूवुरग्रे सौन्यानि स्फीटशौर्यबलौजसां ।
भटानां व्योमगमने तस्याष्टादशकोटयः
गोदानीयं ततो द्वीपमथोत्तरकुरूनपि ।
पार्श्वानि स सुमेरोश्च शशासासतशासनः
सुखं विहरतस्तस्य मेरोः कनकसानुषु ।
बहुशक्रो ययौ कालश्चतुर्द्वीपमहीपतेः
स कदाचित् सुरान् द्रष्टुं व्याम्ना गच्चन् सुरोपमः ।
चकार नीलजलदैर्व्याप्ता इव गजैर्दिशः
अथ तेषां निरस्तानां मेरुपार्श्वे तपस्यताम् ।
मुनीनामपतन् मूर्ध्नि तद्गजाश्वशकृद्दिवः
ततस्ते क्रोधसंतप्तदृशा व्योमावलोकिनः ।
चक्रुः पिङ्गपर्भावल्लिकलापकपिला दिशः
कोपात्किमेतदित्युक्त्वा शापाग्निविसिसृक्षता ।
अभ्येत्य देवदूतस्तान् प्रहर्षाकुलितो ऽवदत्
एषा निःशेषभूपालमौलिविश्रान्तशासनः ।
पाकशासनतुल्यश्रीर्मान्धाता पृथिवीपतिः
नभसा नरदेवि ऽयं सह सैन्यैः प्रसर्पति ।
यस्य कीर्तनधन्येयं वाणी पुण्याभिमानिनी
न दृष्टो यस्य निर्दिष्टसर्वलोकसुखश्रियः ।
मोहः संबिन्मयस्येव विभवप्रभवो मदः
कौबेरं धनदव्यक्त्या कौमारं शक्तिमत्तया ।
ऐश्वरं वृषसंयोगाद्वैष्णवं श्रीसमागमात्
प्रतापप्रसरात् सौरमैन्दवं जननन्दनात् ।
ऐन्द्रं दृप्तबलच्छदाद्दिव्यं रूपं बिभर्त्ययम्
बलिः प्रयातः पातालं दधीचो ऽप्यस्थिशेषताम् ।
अस्य त्यागेन जलधिः क्षोभमद्यापि नोज्झति
श्रुत्वेति देवदूतस्य वचनं मुनिमध्यगः ।
ससर्ज दुर्मुखो नाम मुनिः शापजलं दिवि
प्रहसन्नथ तं प्राह सेनानां परिणायकः ।
महर्षे संहर रूषं मा कृथास्तपसः क्षयम्
वैफल्यलज्जां शापो ऽथं यास्यत्यग्रे महीपतेः ।
नैते बत खगा येषां यूयं पक्षक्षयक्षमाः
इत्युक्ते सौन्त्यपतिना शापस्तब्धामनीकिनीम् ।
दृष्ट्वाग्रे विस्मयादूचे किमेतदिति भूपतिः
संरब्धो ऽथ समभ्येत्य सेनापतिरुवाच तम् ।
तेषां देव महर्षीणां शापात् सैम्यं न सर्पति
इदं च चक्ररत्नं ते व्योम्नि शापविघूर्णितम् ।
धत्ते जलदसंरुद्धतिग्मदीधितितुल्यताम्
एतदाकर्ण्य नृपतिर्दृष्टा चाग्रे तथैव तत् ।
दृशैव दिवधे शापं विफलोच्चण्डविल्पवम्
देहक्षयं महर्षीणां परिरक्षन् कृपाकुलः ।
जटा न्यपातयद् भूमौ स लीलालसशासनः
अजितक्रोधमोहानां भारभूता वृथा वयम् ।
इतीव लज्जया तेषां लीनाः क्षितितले जटाह्
अथ मेरुशिरः प्राप्य नृपः सुरनिकेतनम् ।
पुरं सुदर्शनं नाम दर्दर्श प्रियदर्शनम्
नागास्तत्र कृतारक्षाः प्रख्यातोदकनिःसृताः ।
करोटपाणयो यक्षाः सुरा मालाधराभिधाः
सदामत्तास्तथा देवाः क्रोधोत्तम्भितसैनिकाः ।
महाराजकायिकाख्यास्त्रिदशा बलवत्तराः
महाराजाश्च चत्वारः संनद्धकवचायुधाः ।
जित्वा राज्ञा प्रभावेण निजसेनाग्रगाह् कृताः
ततः कल्पद्रुमोदारकोचिदारमनोहरम् ।
ददर्श पारिजाताख्यं संश्रयं त्रिदिवौकसाम्
मेरोर्मूर्ध्नि ततः शुभ्रप्रभां मालामिवामलाम् ।
सुधर्माख्यां सभां प्राप स्वभासोद्भासिताम्बराम्
हेमविद्रमवैदूर्यस्तम्भसंब्ःआरभास्वरः ।
प्रासादो वैजयान्ताख्यः प्रख्यातो यत्र राजते
यत्राब्जेर्वदनैर्भृङ्गैरलकैस्तुल्यतां गताः ।
पद्मिन्यः सुरनारीणां पद्मिनीनां सुराङ्गनाः
बिम्बतैस्त्रिदशैर्यत्र मणिभूस्तम्भभित्तिषु ।
सुरलोको बिभर्त्येको ऽप्यनेकसुरलोकताम्
रत्नतोरणहर्म्यांनिवहैर्यत्र चित्रिताः ।
व्याप्ता विभान्ति ककुभः शक्रायुधशतैरिव
यत्र बालानिलालोलकल्पपादपपल्लवैः ।
नृत्यद्धस्ता इवाभान्ति नन्दिन्यो नन्दनश्रियः
यत्र चैत्ररथं नाम देवोद्यानं मनोरमम् ।
धत्ते नित्योत्सवं प्रेमिकामं कामवसन्तयोः
सर्वकामं सर्वसुखं सर्वर्तुकुसुमोज्ज्वलम् ।
सर्वातिशयितं दृष्ट्वा देवानाम् सदनं नृपः
मुहूर्तविसम्यास्पन्दसानन्दस्निग्धलोचनः ।
अच्नितयत् सुकृतिनामिमास्ताह् फलभूमयः
ऐरावणं सुरपतेर्लोलालिओवलयाकुलम् ।
ददर्श तत्र सामोदं साकारमिव नन्दनम्
पुरंदरस्ततो ज्ञात्वा प्राप्तं भूमिपुरंदरम् ।
प्रत्युद्ययौ प्रमुदितः सह सर्वैर्मरुद्गणैः
पूजितः सुरराजेन रत्नराजिविराजितां ।
राजराजह् सभाभूमिं भेजे विरजसां वरह्
त्रिदशेषूपविष्टेषु रत्नपर्यङ्कपङ्क्तिषु ।
उपाविशन्नृपः श्रीमानासनार्धे शतक्रतोः
एकासनजुषोस्तत्र सुरेन्द्रमनुजेन्द्रयोः ।
रूपं गुणगणोदारम् निर्विशेषमदृश्यत
ततह् सर्वसुरोत्सृष्टस्पष्टलोचनषट्पदैः ।
पीयमानमुखाम्भोजं व्याजहार हरिर्नृपम्
अहो उदयः श्लाध्यस्ते तेजसा तेजसां निधे ।
भवता भूषिता भूमिर्द्यौश्च देवेन भास्वता
अभ्युन्नतप्रभावो ऽयं लसत्सितयशोंशुकः ।
भ्राजते ते त्रिभुवने साम्राज्यविजयध्वजः
त्वत्कथामृतपानस्य त्वद्दर्शनरसस्य च ।
प्रेर्यते श्रोत्रनेत्रेण सुखाख्याने सरस्वती
स्थिरीकृतस्त्वयैवायं सुकृताप्तविभूतिना ।
कर्मणां फलवादस्य निश्चरश्छिन्नसंशयः
अत एवेन्द्रियग्रामे चक्षुरेव स्पृहास्पदम् ।
पुण्यैः पुण्योचिताचारा दृश्यन्ते यद्भवद्विधाः
इत्युक्ते त्रिदशेन्द्रेण मान्धाता यशसां निधिः ।
त्वत्प्रसादप्रभावो ऽयमित्युवाच नताननः
इत्येवं पूज्यमानस्य तस्य नित्यादरैः सुरैः ।
षडिन्द्रः प्रणयौ कालस्त्रिदिवे वसतः सतः
तत्पराक्रमविध्वस्तसमस्तासुरमण्डलः ।
बभूव सुरराजस्य निरपायोदयो जयः
दीप्तदानवसंग्रामे तस्य शौर्यमहातरोः ।
विश्रान्तिं भेजिरे देवा भुजच्छायोपजीविनः
तस्य पुण्यपणक्रीतं भिञ्जानस्याक्षयं सुखम् ।
कालप्रवाहे महति प्रययुः षट् पुरंदराः
सत्कर्मफलभोगस्य लाञ्छनं विमलं मनः ।
कालुष्याज्जायते तस्य प्रत्यासन्नः परिक्षयः
अथ कालेन कालुष्यकलितस्य मनोरथः ।
अभूल्लोभाभिभूतस्य भूतपेरभिमानिनः
त्रिदशानामियं लक्ष्मीर्मद्बाहुबलपालिता ।
तदिमां न सहे तावदर्धासनविडम्बनाम्
अहमेकः सुरपतिः प्रभावान्न भवामि किम् ।
अयं मम भुजः सर्वजगद्भारभरक्षमः
च्यावयित्वा सुराशीशं स्वर्गसाम्राज्यसंपदम् ।
एकातपत्रतिलकां स्वयंग्राहोचितां बह्जे
इति चिन्तयतस्तस्य शक्रद्रोहाभिलाषिणः ।
शुभ्रप्रभा प्रभावश्रीर्मालेव म्लानताम् ययौ
घनोदयसमुत्सिक्ता सौजन्यतटपातिनी ।
लोलं कलुषयत्येव मानसं श्रीतरङ्गिणी
प्रमादो विपदां दूतो दुःसहो महतामपि ।
कुशलोन्मूलनायैव किल्बिषाकुलिता मतिः
पापसंकल्पमात्रेण क्षितौ क्षितिपतिः क्षणात् ।
पपात विस्रस्तफलश्छिन्नमूल इव द्रुमः
हन्ति विद्यामनभ्यासः श्रियं हन्ति मदोदयः ।
विद्वेषः साधुताम् हन्ति लोभः समुन्नतिम्
अहो बत महोत्कर्षशृङ्गारोहो महोदयः ।
विभवोद्भवमत्तानां सहसैव पतत्यधः
तेन सर्वविभुर्नाम पूजितः पूर्वजन्मनि ।
तत्फलादाप्तवान् राज्यं स्पृहणीयं मरूत्पतेः
सुराधिपाधिकः को ऽपि प्रभावो विस्मयावहः ।
अनल्पपिण्डस्तस्याभुत् पात्रदानांशसंभवह्
द्बन्धुमत्यभिधानायां नगर्यामुषितः शुचिः ।
वणिगुत्करिको नाम सो ऽभवत् पूर्वजन्मनि
विपश्यी नाम भिक्षायै सम्यक्संबुद्धां गतः ।
विवेश त द्गृहं सर्वसत्त्वसंतारणोद्यतः
पात्रे तस्य च चिक्षेप मुद्गमुष्टिं प्रसन्नधीः ।
फलानि तत्र चत्वारि पेतुः शेषाणी भूतले
तेन दानप्रभावेण मान्धाता पृथिवीपतिः ।
सर्वद्वीपपतिर्भूत्वा शक्रार्धासनमाप्तवान्
मुद्गशेषश्च्युतो यस्माद् भूतौ तस्यान्यचेतसः ।
तदसौ फलपर्यन्ते पतितस्त्रिदशालयात्
लुठति विकलकल्पा यत्र संकल्पमाला
स्फुरन्ति न च कदाचित् स्वप्नमायान्तरे या ।
भवति विभवभोगाभोगिनी भाग्यभाजा-
मतुलफलततिः सा दानकल्पद्रुमाणाम्
इत्याह भगवान् बुद्धः प्रीत्या दानफलश्रियम् ।
निजजन्मान्तराख्याने भिक्षूणामनुशासने
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0