भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 47

47.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शालिस्तम्बावदानं नाम षट्चत्वारिंशः पल्लवः ॥
47. सर्वार्थसिद्धावदानम् ।
स्वार्थप्रवृत्तौ विगतस्पृहाणां परोपकारे सततोद्यतानाम् ।
क्लेशेष्वभीता व्यसनैरनीता विघ्नैरपीडाकरमेति सिद्धिः

47.2

श्रावस्त्यां भगवान् पूर्वं जिनो जेतवनस्थितः ।
धर्माख्यानप्रसङ्गेन भिक्षुसंघमभाषत

47.3

आसीदखिलभूपालमौलिलालितशासनह् ।
सिद्धार्थो नाम सुकृती सार्वभौमो महीपतिः

47.4

सागराख्यस्य नागस्य सूनुर्जलधिवासिनह् ।
सर्वार्थसिद्धः पुत्रत्वं प्रययौ तस्य भूपतेः

47.5

स भाद्रकल्पिको बोधिसत्त्वः सत्त्वोज्ज्वलप्रभः ।
जातमात्रः क्षितितलं चक्रे पूर्णं स्वऋद्धिभिः

47.6

तस्य प्रवर्धमानस्य धर्मस्येव समुद्ययौ ।
समस्तभुवनव्यापि विबुधाभ्यर्चितं यशः

47.7

स कदाचिद्वरोद्याने स्यन्दनेन युवा व्रजन् ।
ददर्श वृद्धपुरुषं देवतानिर्मितं पुरः

47.8

तं विलोक्य जराजीर्णं जातवैराग्यवासनह् ।
संसारमिव निःसारं स शरीवममन्यत

47.9

उद्यानयात्राविरतः शनैः प्रतिनिवृत्य सः ।
दारिद्य्रविद्रुतच्छायानद्राक्षीत् कृपणान् पथि

47.10

दृष्ट्वा तानसुखक्लेष्टान् करुणाकृष्टमानसः ।
अचिन्तयदहो दुःखं सहन्ते भुवि दुर्गताः

47.11

अदानप्रभवं दुःखं वदन्तीति विसंगताः ।
पृथिव्यां रत्नपूर्णायां परपिण्डोपजीविनः

47.12

इदमेवाविसंवादि चिह्नं कलुषकर्मणाम् ।
दीनां यदेते याचन्ते पुरुषं पुरुषाः परम्

47.13

अहो दुष्कृतमेतेषामवधूताः पदे पदे ।
यदेते मार्गणोद्विग्ना भिक्षित्वापि बुभुक्षिताः

47.14

इति संचिन्त्य सुचिरं विश्चक्लेशक्षयोद्यतः ।
यदरिद्रं जगत्कर्तुं रत्नार्थी जलधिं ययौ

47.15

कथचिदिव संसक्तः स पित्रा दृढनिश्चयः ।
स्मारुह्य प्रवहणं रत्नद्वीपमवाप्तवान्

47.16

तत्र प्रवहणारूढान् वणिजः सहयायिनः ।
सो ऽब्रवीत्क्रियताम् कामं युष्माभिर्मणिसंग्रहं

47.17

एतैः सामान्यरत्नैस्तु मम नास्ति प्रयोजनम् ।
कोशे महान्ति भास्वन्ति सन्ति रत्नोत्तमानि नः

47.18

किं तु चिन्तामणिप्राप्त्यै विपुलो ऽयं ममोद्यमः ।
तेन विद्रुतदारिद्य्रां कर्तुमिच्छामि मोदेनीम्

47.19

श्रुतं मया नागराजः सागराख्यो महोदधौ ।
वसत्यस्ति गृहे तस्य चिन्तितार्थप्रदो मणिः

47.20

विलङ्घ्य विषमं मार्गं तमादातुं व्रजाम्यहम् ।
नास्ति धैर्यसहायानाम् दुर्गमं व्यवसायिनाम्

47.21

न च मद्विरहे किंचिद् व्यसनं वो भविष्यति ।
सत्यमेव परार्थो ऽयं यदि मे सुकृतोद्यमः

47.22

इत्युक्त्वा तान् समामन्त्र्य प्रतस्थे स्थिरनिश्चयः ।
महतीं धृतिमालम्ब्य सत्त्ववान् पार्थिवात्मजः

47.23

गुल्फमात्रेण सप्ताहं गत्वा गङ्गमवर्त्मना ।
जानुदघ्नेन सप्ताहं सप्ताहं पौरुषेण च

47.24

चत्वारि सप्तरात्राणि ततः पुष्करिणीजलैः ।
गत्वा दृष्टिविषान् घोरान् ददर्श फणिनः पुरः

47.25

मैत्रीयुक्तेन मनसा कृत्वा तानथ निर्विषान् ।
क्रूरकोपैर्वृतं यक्षैर्यक्षद्वीपमवाप सः

47.26

तत्र मैत्रेण मनसा वीतक्रोधान् विधाय तान् ।
शुश्राव तैरभिहितं विपुलोत्साहविस्मितैः

47.27

कुमार स्फीटसत्त्वेन तथा वीर्येणचामुना ।
नागराजस्य भवनं समाहितमवाप्य तम्

47.28

कालेन सम्यक्संबुद्धः सर्वज्ञस्त्वं भविष्यसि ।
श्रावकाश्च भविष्यामो वयं त्वदनुयायिनः

47.29

प्रसन्नैरिति तैरुक्तमभिनन्द्य नृपात्मजः ।
रक्षेवरावृतं प्राप राक्षसद्वीपमुत्कटम्

47.30

तथैव विगतक्रूरविकारैस्तैः स पूजितः ।
भूजोत्क्षेपेण निक्षिप्तः क्षणान्नागेन्द्रसद्मानि

47.31

स तत्र दीप्तविभवे दिव्योत्साससुखोचितः ।
अशृणोद्दीर्घदुःखार्तिसूचकं रोदनध्वनिम्

47.32

स तमाकर्ण्य सोद्वेगः प्रकृत्यैव दयार्द्रधीः ।
किमेतदिति पप्रच्छ दृष्ट्वाग्रे नागकन्यकाम्

47.33

सा तं बभाषे संसक्तशोकोष्मपिशुनैर्मुहुः ।
म्लानयन्तीं स्वनिश्वासौर्बिम्बाधरदलत्विषम्

47.34

गुणावान् नागराजस्य पुत्रः कमललोचनः ।
ज्योष्ठः सर्वार्थसिद्धाख्यः प्रियः पञ्चत्वमागतः

47.35

ततः प्रतिगतानन्दे विनिवृत्तसुखोत्सवे ।
धनेन रोदनेनास्मिन्न भवेद्भवने स्थितिः

47.36

इति तस्या वचः श्रुत्वा सो ऽन्तः परिचितां वहन् ।
स्वदेशदर्शनप्राप्तो नागराजान्तिकं ययौ

47.37

नागराजस्तमायान्तं परिज्ञाय प्रियासखः ।
एह्येहि पुत्रेति वदन् बभूवानन्दविह्वलः

47.38

मर्त्यजन्मकथाम् तेन स्वं चागमनकारणम् ।
श्रुत्वा निवेदितं नागः परिष्वज्य जगाद तम्

47.39

चिन्तामणिरयं पुत्र मम मौलिविभूषणम् ।
गृह्यताम् तव संकल्पं न वन्ध्यं कर्तुमुत्सहे

47.40

देयः कृतजगत्कृत्यो ममैवायं पुनस्त्वया ।
इत्युक्त्वास्मै ददौ दिव्यचूडं रत्न विमुच्य सः

47.41

हृष्टः प्रणम्य नागेन्द्रं ययौ प्रवहणान्तिकम्

47.42

समुद्रदेवता तत्र तं दृष्ट्वा श्रुततत्कथा ।
उवाच कीदृशः साधो प्राप्तश्चिन्तामणीस्त्वया

47.43

* * * * । * * * *

47.44

* * * * । * * * *

47.45

समुद्रे पतितं दृष्ट्वा रत्नं कृच्छ्रतरार्जितम् ।
स जगाद दृढोद्योगवैफल्योद्वेगनिश्चलः

47.46

अहो गुणोचिताकारा प्रणयान्मृदुवादिनी ।
विद्वेषकलुषं कर्म कृत्वा त्वं न विलज्जसे

47.47

परोत्कर्षेषु संघर्षशोकक्लेशमुपैति यः ।
शीतला अपि तस्यैता ज्वालावलयिता दिशः

47.48

परित्साहः प्रियो यस्य तस्य सत्त्वमहोदधेः ।
कर्पूरधवलं धत्ते त्रिलोकीतिलकं यशः

47.49

देवि प्रयच्छ मे रत्नमस्माद्विरम पातकात् ।
अपवादलतां कर्म न साधोरधिरोह्हति

47.50

लोभात्प्रमादाद्द्वेषाद्वा रत्नं चेन्न प्रयच्छसि ।
शोषयाम्येष जलधिं तदिमं ते समाश्रयम्

47.51

इत्युक्त्वा प्यसकृत्तेन सा रत्ने न ददौ यदा ।
स तदा स्वप्रभावेण शोषायाब्धेः समुद्ययौ

47.52

ध्यातमात्रं सहस्राक्षवचसा विश्वकर्मणा ।
निर्मितं सहसा तस्य पत्रमाविरभुत्करे

47.53

स तेनागस्त्यचुलुकाकारेणाम्भः पयोनिधेः ।
अन्तरीक्षे समुत्क्षिप्य चिक्षेप क्षमणोद्यतः

47.54

कृते भूभागशेषे ऽब्धौ तेनात्यद्भुतकारिणा ।
सुरनिर्भर्त्सिता भीता देवतास्मै मणीं ददौ

47.55

निर्व्याजं साहसं दीप्तिं रत्नानामिव तत्त्वतः ।
प्रभावं वेत्ति महतां मन्त्राणां तपसां च कः

47.56

स्फारस्तावदपारवारिविरसव्यापारहेलाबलात्
कल्लोलावलियन्त्रिताम्बरतया रत्नाकरः श्रूयते ।
गम्भीरः पुनरप्रमेयमहिमा को ऽपि प्रभावः सतां
यस्मिन् विस्मयधाम्नि चिन्तनविधावन्ते प्लवन्ते धियः

47.57

ततश्चिन्तामणिं बुद्ध्वा निजसार्थेन संगतः ।
राजसूनुः स्वनगरं प्राप पूर्णमनोरथः

47.58

कृतकृत्यः प्रहृष्टेनः स पित्रा तत्र पूजितः ।
ध्वजाग्रे रत्नमाधाय जगाद जनसंसदि

47.59

परार्थ एव यत्नो ऽयं नात्मार्थो यदि मे क्कचित् ।
तेन सत्येन लोको ऽय सर्वं यात्वदरिद्रताम्

47.60

इत्युक्ते सत्त्वनिधिना तेन दीनदयालुना ।
रत्नवृष्टिरपर्यन्ता निपपात महीतले

47.61

तेन रत्नसमूहेन दिक्षु सर्वासु भास्वता ।
ययौ जनस्य दारिद्य्रमयं निःशेषतां तमः

47.62

आशापाशवतां बलाप्त्रविशतां बाह्याङ्गणं श्रीमतां
द्वाःस्थाघातवताम् मुहुर्विचलतां द्वारोदरे सीदताम् ।
दीर्घैर्निःश्वसितैः शुचा निपतितां देहक्षयं काङ्क्षतां
दीनानां मणिराशिरश्मिशबलः श्रीसंगमः को ऽप्यभूत्

47.63

तच्छासनादुरगनायकमेव याते चिन्तामणौ विगतदैन्यजने च लोके ।
सर्वत्र दानरसिकस्य जनस्य चेतः सर्वार्थिसार्थविरताकुलितं बभूव

47.64

सर्वार्थसिद्धः क्षितिपालसूनुः यो ऽभूत्स एवाहमिहान्यदेहः ।
श्रुत्वेतिवृत्तं कथितं जिनेन ते भिक्षवस्तन्मयतामवापुः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc