भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 46

46.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कृतज्ञावदानं पञ्चचत्वारिंशः पल्लवः ॥
46. शालिस्तम्बावदानम् ।
दानैकतानमनसां पृथुसत्त्वभाजामुत्साहमानगुणभोगविभूटिपूतः ।
प्राकुण्यसंचयमयः कुशलभिधानः काले फलत्यविकलः किल कल्पवृक्षः

46.2

कोसलेन्द्रस्य भूभर्तुः श्रावस्त्याम् भगवान् पुरा ।
विजहार व रोद्याने सह भिक्षगणैर्जिनः

46.3

आदिमध्याण्तकल्याणं बह्वाभिभवसाधकम् ।
संदिदेश स सद्धर्मं त्रैलोक्यकुशलोद्यतः

46.4

अत्राण्तरे नागराजपुत्राः सागरवासिनह् ।
चत्वारः सुगतोदीर्णं सद्धर्मं परमामृतम्

46.5

अभिरत्याख्यया स्वस्रा प्रेरिताः श्रोतुमागताः ।
ते बलातिबल-श्वास-महाश्वासाभिधाः समम्

46.6

क्रकुच्छन्दस्य सुधियः काले भगवतः पुर ।
कनकाख्यस्य च मुनेः काश्यपस्य च यत्नतः

46.7

आजग्मुः श्रीसुखासक्ताः श्रोतुमप्रार्थिता अपि ।
तत्पुण्यपरिणामेन प्राप्ताः शाक्यमुनेः पुरा

46.8

तेषु प्रणम्य शास्तारं चरणालीनमौलिषु ।
विधाय मानुषं रूपमुपविष्टेषु पर्षदि

46.9

सद्धर्ममाययौ श्रोतुं कोसलेन्द्रः प्रसेनजित् ।
लक्ष्मीमन्दस्मितच्छायं निवार्य च्छत्रचामरम्

46.10

शास्तुः पादप्रणामाय विशतस्तस्य संसदि ।
अवकाशं नताश्चक्रुः सर्वे नृपतिगौरवात्

46.11

तस्याभिनन्द्यमानस्य वर्षाश्रमगुरोर्नृभिः ।
नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम्

46.12

तस्याभिनन्द्यमानस्य वर्णाश्रमगुरोर्नृभिः ।
नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम्

46.13

स संज्ञया समादिश्य निजं परिजनं पुरः ।
गमने निग्रहम् तेषां निर्विकार इवाभवत्

46.14

भगवानपि सर्वज्ञस्तस्य ज्ञात्वा च निश्चयम् ।
धर्मोपदेशपर्यन्ते प्रोवाच रचितस्मितः

46.15

न विद्वेषरजःपूर्णमनोमलिनदर्पणे ।
भाति धर्मोपदेशस्य प्रतिबिम्बप्रतिग्रहः

46.16

अविहितसमतानां कोपमोहाहतानां कृशमपि कुशलांशं नोपदेशः करोति ।
न हि वहुतरदोषे शुद्धिहीने शरीरे व्रजति हतमतीनाम् भेषजं भेषजत्वम

46.17

इति युक्तं भगवता हितमुक्तं महीपतिः ।
श्रुत्वापि न च तत्याज नागेषु विमनस्कताम्

46.18

भगवन्तं प्रणम्याथ प्रयाते स्वपदं नृपे ।
नागास्तत्सैनिकाबद्धमार्गे व्योमपथा ययुः

46.19

ते विचिन्त्य स्वभवने क्ष्मासंक्षयकृतक्षणाः ।
घोरनिर्घातमेघौघग्रस्तलोकाः समाययुः

46.20

तेषां व्यवसितं ज्ञात्वा सर्वज्ञः पक्षपातिनाम् ।
रक्ष्ःआक्षमं क्षितिपतेर्मौद्गल्यायनमादिशत्

46.21

अथ नागगणोत्सृष्टा वज्रवृष्टिर्महीपतौ ।
भूभर्तुस्तत्प्रभावेण प्रययौ पुष्पवृष्टिताम्

46.22

शस्त्रास्त्रवृष्टिर्निबिडक्षिप्ता तैरथ दुःसहा ।
मौद्गल्यायनसंकल्पाद्ययौ राजार्हभोज्यताम्

46.23

तत्प्रभावात्प्रयातेषु भोग्नोत्साहेषु भोगिषु ।
गत्वा ववन्दे सुगतं नृपतिर्वीतविप्लवः

46.24

स मौद्गल्यायनस्यार्घ्यमुचितं भोगसंपदा ।
भक्तिसंस्कारसुभगं विदधे जिअन्शासनात्

46.25

ततः स्वर्गोचिताम् भिक्षुर्विभूतिं वीक्ष्य भूपतेः ।
पप्रच्छ कौतुकवशात् सर्वज्ञं चरिताञ्जलिः

46.26

भगवन् कस्य पुण्यस्य प्रभावेण प्रसेनजित् ।
सर्वैर्विराजितं भोगैः प्राज्यं राज्यमवाप्तवान्

46.27

इक्षुस्तम्बवदेतस्य शालिस्तम्बश्च जायते ।
दिव्यपानान्नसंपत्तिः फलं तत्कस्य कर्मणः

46.28

इति पृष्टः प्रणयिना भिक्षुणा भगवान् जिनः ।
उवाच श्रूयतां राज्ञः कारणं भोगसंपदाम्

46.29

कोसले ऽस्मिन् जनपदे खण्डाख्यगुडकर्षकः ।
ददौ प्रत्येकबुद्धाय पूर्वमिक्षुरसौदनम्

46.30

भुक्तेनेक्षुरसान्नेन तेन वातगदार्दितः ।
प्रत्येकबुद्धस्तत्पुण्यैः प्रसन्नः सुस्थतां ययौ

46.31

राजा प्रसेनजित् सो ऽयं पुण्यवान् गुडकर्षकह् ।
तेन पुण्यप्रभावेण भोगभागी विराजते

46.32

उपकारः कृतज्ञानां निकारः क्रूरचेतसाम् ।
सुकृतांशश्च शाधूनामप्लो ऽप्यायात्यनल्पताम्

46.33

सर्वज्ञेनेति कथिते पूर्वपुण्ये महीपतेः ।
बभूव सुकृतोत्कर्षे भिक्षुराश्चर्यनिश्चलह्

46.34

अथ भक्त्या भगवतः कृत्वा राजाधिवासनाम् ।
उपनिन्ये स्वयं तां तां सुरार्हां भोगसंपदम्

46.35

परोपचारै रुचिरैरर्चिते काञ्चनासने ।
सुखोपविष्टं प्रोवाच नरनाथस्तथागतम्

46.36

भगवन् मे भवद्भक्तिविभक्तसुकृतश्रियः ।
चयह् कुशलमूलानामनिर्मुक्त्यै भविष्यति

46.37

विनयात्पार्थिवेनेति पूर्णपुण्याभिमानिना ।
पृष्टः स्मितसितालोकं जगाद सुगतः सृजन्

46.38

राजन् संसारमार्गो ऽयमनादिनिधनोद्भवः ।
हेलालङ्घ्यः कथं पुंसामप्राप्य क्लेशसंक्षयम्

46.39

चिरपरिचितैश्चक्रावर्तैरसक्तगतागतिः
प्रकृतिगहनः संसारो ऽयं सुखेन न लङ्घ्यते ।
असति हि विना योगाभ्यासं क्षये किल कर्मणां
स्फुटफलततिर्धर्मो ऽप्यस्मिन्निबन्धनताम् गतः

46.40

सर्वतो विनिवृत्तस्य दानाभ्यासेन भूयसा ।
ममापि धर्मसंसारो बभूव भूरिजन्मकृत्

46.41

धनिको नाम धनवान् वाराणस्यामभूत्पुरा ।
तापापहः फलस्फीटश्छायावृक्ष इवार्थिनाम्

46.42

दुर्भिक्षक्षपिते लोके विषमक्लेशविह्वले ।
भोज्यं प्रत्येकबुद्धानां सो ऽर्थितः पञ्चभिः शतैः

46.43

स तेषां परभोगार्हं दुर्भिक्षावधि भोजनम् ।
अकल्पयदनल्पश्रीः कोष्ठागारी गतस्मयः

46.44

शतपञ्चकसंघातैर्भोक्तुं तस्य गृहं ततः ।
क्रमात्प्रत्येकबुद्धानाम् सहस्रद्वयमाययौ

46.45

तस्य तत्पुण्यवासेन जातो लब्धफलश्रिया ।
दुर्भिक्षदानजनितो रत्नकोशस्तदाक्षयः

46.46

सुखं सनातनं पुण्यभोग्यत्वं प्रणिधानतः ।
शास्तुस्ततः परेणायं सम्यक्संबोधिमापितः

46.47

पुण्येन पापेन च वेष्टितेयं संसारिणां कर्मफलप्रवृत्तिः ।
सितासिता बन्धनरज्जुरेषा तत्संक्षये मोक्षपथं वदन्ति

46.48

इति क्षितीशः कथितं जिनेन मोहव्यपायेन निशम्य मोक्षम् ।
क्लेशक्षयार्हं शममेव मत्वा पुण्याभिमानं शिथिलीवकार

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc