भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 48

48.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सर्वार्थसिद्धावदानं सत्पचत्वारिंशः पल्लवः ॥
48. हस्तकावदानम् ।
मत्तेभकुम्भोच्चकुचाभिरामाः कर्पूरहारांशुविलासहासाः ।
प्रीतिप्रदाः पुण्यवतां भवन्ति प्रौढा युवत्यश्च विभूतयश्च

48.2

तथागते भगवति श्रावस्त्यां वनचारिणि ।
अभवत्सुप्रबुद्धाख्यः श्रीमान् गृहपतिः पुरा

48.3

बभूव हस्तको नाम तस्यातिदयितः सुतः ।
पूर्वार्जितानां पुण्यानां साकार इव संचयः

48.4

तस्य जन्मदिने जातश्चामीकरमयो महान् ।
एकीभूत इवाश्चर्यव्रजः प्रवरकुञ्चरः

48.5

स गजेन्द्रः कुमारश्च तत्पितुश्च मनोरथः ।
लोककौतुककोशाश्च पूर्णतां त्युल्यमाययुः

48.6

स शशीव शिशुः काले कलानिलयतां गतः ।
रुरुचे रुचिमान् सर्वलोकलोचनबान्धवः

48.7

स शनैः पूरिताभोगभुजस्तम्भविभूषणम् ।
लेभे मनोभवारम्भभवनं नवयौवनम्

48.8

कदाचिदथ भूभर्तुः स प्रसेनजितः सुताम् ।
तनुचीवरचिह्नेन सहजेन विराजिताम्

48.9

कन्यां चीवरकन्याख्यां लावण्यललिताननाम् ।
उद्यानदर्शनायातां ददर्शायतलोचनाम्

48.10

अक्लिष्टरूपामालोक्य तामपर्युषितद्युतिम् ।
विस्मयस्मरयोस्तुल्यमाययौ सहसा वशम्

48.11

सो ऽचिन्तयदहो कान्तमिदमत्यद्भुतं वपुः ।
यस्मिन् भाति मुखव्याजाददोषविशदः शशी

48.12

लावण्यमप्रतिममेव बिभति तन्वी बन्धूकबन्धुरधरो मधुरस्वभावः ।
द्रोहोद्यतः सरसविद्रुमपल्लवानां बिम्बप्रभाप्रसभभ्रमवन्ध्यकारः

48.13

वक्र्क्रं न क्षमते मदं शशमृतः क्लेश्नाति कान्तिः सुधाम्
उत्फुल्लोत्पलकाननस्य कुरुते दृष्टिः प्रभाभ्र्त्सनम् ।
मन्ये मन्मथसंगमोचिततनोः साप्त्न्यभीतिप्रदा
लीलायास्याः सहसा विलासलहरीशोषं विधत्ते रतेः

48.14

उद्वृत्ते कठिने परोधरयुगे नश्यद्विवेके चिरं
यस्या दोषमये ऽप्यहो गुणवता हारेण बद्धा स्थितिः ।
यच्चास्मिन्नवलम्बते ऽम्बुजधिया रोलम्बरेखा मुखे
लोलाक्ष्याः किमपि प्रशान्तनयने लीनं मुनीनां मनः

48.15

इति चिन्तयतस्तस्य वपुः पुष्पशरोपमम् ।
विलोक्य भूपतिसुता बभूवाश्चर्यनिश्चला

48.16

हृते लज्जांशुके तस्याः स्मरेण स्मितकारिणा ।
प्रत्यग्रपुलकाकीर्णं वपुः स्पष्टमदृश्यत

48.17

रुद्धा नवाभिलाषेण वैलक्ष्येण निवर्तिता ।
मनस्तत्रैव निक्षिप्य सा शून्येव शनैर्ययौ

48.18

राजधानीं समासाद्य लज्जाविस्मयमन्मथैः ।
मीलितेव निलीनेव प्रोषितेव बभूव सा

48.19

कुमारो ऽपि स्वभवने समुद्भूतमनोभाव्ः ।
तामेवेन्दुमुखीमग्रे संकल्पैरलिखन्मुहुः

48.20

स तां मानससर्वस्वं स्मरविद्यामिव स्मरन् ।
प्रदध्यौ कुर्लभाम् मत्वा तनयाम् चक्रवर्तिनः

48.21

जन्मान्तरे तनुर्यस्य तपःपरिचिता चिरम् ।
धन्यः स तामवाप्नोति लतां सुकृतशाखिनः

48.22

रम्यप्रदानपुण्येन तद्दर्शनमवाप्यते ।
न जाने तानि पुण्यानि येषां तत्संगमः फलम्

48.23

तद्वक्र्क्रशीतकिरणस्मरणोत्सवेन
तस्याश्च दुर्लभतया विरहोष्मणा मे ।
नो वेद्मि किं धृतिरियं किमयं विमोहः
किं जीवितं किमसुभिः सहः विप्रयोगः

48.24

तद्वक्र्क्रब्जजितः प्रसह्र भजते क्षैण्यं क्षपावल्लभः
तद्भूविभ्रमलज्जितं च विनतिं धते धनुर्मान्मथम् ।
तस्याह् पल्लवपेशलद्युतिमुषा शोषाधरेणार्दितं
नूनं प्राप्य पराजयं वनमहीं बिम्ब समालम्बते

48.25

इति पूर्णेन्दुवदनावदनध्याननिश्चलह् ।
निशां निनाय संत्यक्तः सेर्ष्ययेव सनिद्रया

48.26

कन्यादर्शनवृत्तान्तं ततस्तेन निवेदितम् ।
श्रुत्वा पितास्य संक्रन्तचिन्तापरिचितो ऽभवत्

48.27

स तमूचे वयं पुत्र राज्ञो ऽस्य पुरवासिनह् ।
स कथं ते दुहितरं चक्रवर्ती प्रदास्यति

48.28

अशक्यं नैव कुर्वन्ति समीहन्ते न दुर्लभम् ।
असंभाव्यं न भाषन्ते मानकामा मनीषिणः

48.29

चूतचम्पकवल्लीषु स्वाधीनासु निरादरः ।
चिन्तयन् पारिजातस्य लताम् शुष्यति षट्पदः

48.30

तव तस्याश्च संबन्धः प्राज्गन्मविहितो यदि ।
तदवश्यं भवत्येव निष्प्रयत्नफलोदयह्

48.31

आशापाशैरनाकृष्टं विचारैरकदर्थितम् ।
प्रयत्नभारैरश्रान्तं विधत्ते भवितव्यता

48.32

इत्याकर्ण्य पितुर्वाक्यं तत्तथेति विचिन्तयन् ।
न चेतः कन्यकानीतं समानेतुं शशाक सः

48.33

स गत्वा दन्तयुगलं ययाचे हेमकुञ्चरम् ।
नवसंदर्शने राज्ञः प्रीतियोग्यमुपायनम्

48.34

पुण्यबन्धेन करिणा दत्तं दन्तयुगं ततः ।
स हेममयमादाय द्रष्टुं भूमिपतिं ययौ

48.35

स रत्नरुचिरं प्राप्य भवनं पृथिवीपतेः ।
प्रविश्यः प्रणतः प्रीत्यै हेमदन्तद्वयं ददौ

48.36

भूभुजा विश्रुतगुणः प्रसादेनाभिनन्दितः ।
वरं गृहाणेत्युक्तश्च स न जग्राह किंचन

48.37

तस्यादीनद्युतेश्चक्रे मानमभ्यधिकं नृपः ।
औचित्यचारुचरितः प्रियः कस्य न निःस्पृहः

48.38

स सदा दर्शने राज्ञः काञ्चनाङ्गानि दन्तिनः ।
पुनर्जातनवाङ्गेन दत्ताणि प्रीयते ददौ

48.39

तमुवाच महीपालः सेवाप्रणययन्त्रितः ।
दूतीं मनःप्रसादय वदनद्युतिमुद्वहन्

48.40

प्रभूतहेमसंभारां गुर्वीं सोवामिमामहम् ।
न सहे प्रौरवार्गो हि भवणीयो महीभृताम्

48.41

संविभज्य जनानीतैः का प्रीतिर्मम काञ्चनैः ।
तवानर्घगुणा मूर्तिरियमेव मम प्रिया

48.42

लोभः पुरुषरत्नेषु भूषणार्हेषु शोभते ।
राज्ञां कोशेषु सीदन्ति हेमरत्नाश्मसंचयाः

48.43

समीहिततमं तुभ्यं किं प्रयच्छामि कथ्यताम् ।
निःशेषकोशदानेन न नामानुशयो ऽस्तु मे

48.44

राज्ञ्ं दृक्पातपात्रेण प्राप्यन्ते यदि न श्रियः ।
तदनर्थं गतार्थिन्या को ऽथः पार्थिवसेवया

48.45

इत्युक्तः क्षितिपालेन कुमारः कलिताञ्जलिः ।
तमभाषत भूपाल दातुमर्हति को ऽपरः

48.46

अनर्थितेन रत्नानि विबुधेभ्यः प्रयच्छता ।
तदुन्निद्रं समुद्रस्य मुद्रितं भवता यशः

48.47

महतापि प्रयत्नेन पूर्यते न महाशयः ।
अल्पकानां तदैर्श्वर्यं दारिद्यं तन्महीयसाम्

48.48

किं तु त्वद्भुजगुप्तानां धर्ममार्गेण जीवतां ।
जनानां नास्ति दारिद्यं द्रविणं येन मृग्यते

48.49

धनार्थिनो न तु वयं न च सेवाधिकारिणः ।
धनं धनं धनधियां मान एव मनस्विनाम्

48.50

मीलद्गुणेन परमेश्वरसेवनेन नुर्मूलताम् सुमनसां सहसा गतानाम् ।
दैन्यात्पुनः कृपणपण्यपथे च्युतानां न स्पर्शमात्रमपि साधुजनः करोति

48.51

अर्थित्वान्मरणम् वरं तनुभृताम् दैन्यावसन्नात्मनां
अर्थी सर्वजनावमानवसतिः सत्कारयोग्यः शवः ।
कुम्भस्तावदधह् प्रयाति गुणवान् कूपावतारे परं
यावन्मोहतमःप्रवेशविवशः प्राप्तो ऽर्थिता लम्बते

48.52

सामान्या धनसंपदः क्रयकृषिप्राप्या सदा धीमतां
संतोषो यदि नास्ति तत्किमपरा भूमिर्निधानावृता ।
सन्त्येवातिशयप्रसादनिरतास्ता हेमरत्नक्रियाः
कस्येष्टः प्रियसंगमाय वपुषां सेवामयो विक्रयः

48.53

इत्यपारधियस्तस्य वचः श्रुत्वा महीपतिः ।
गॄह्यतामपरं किंचिदित्यभाषत सादरः

48.54

औचित्यचतुरालापः कर्कशो ऽपि नृपां प्रियः ।
कृपणश्चाटुकारो ऽपि कर्णशूलाय केवलः

48.55

और्दार्यपरितुष्टेन स राज्ञभ्यर्थितः परम् ।
तमूचे यदु तुष्टो ऽसि सुता मह्यं प्रदीयताम्

48.56

इत्युक्ते तेन नृपतिः संदेहान्दोलिताशयः ।
प्रातर्वक्ताहमित्युक्त्वा क्षणं क्ष्मातलमैक्षत

48.57

स कुमारं विसृज्याथ प्रधानामात्यमब्रवीत् ।
प्रसादरभसेनैव कृतं वाक्चापलं मया

48.58

चक्रवर्तिकुलोत्पन्ना कन्या पुण्यपणोचिता ।
कथं सामान्यपौराय गुणमात्रेण दीयते

48.59

ददामीति प्रतिश्रुत्य पश्चादनुशयाकुलः ।
कथं सराधनो भूत्वा भविष्याम्यर्थिनिष्फलः

48.60

कथं प्राप्तस्य तस्याहं प्रातर्द्रष्ट् मुखं पुरः ।
प्रियो ऽप्यप्रियतां यातः स मे दुर्लभयेच्छया

48.61

नूनं गुणोपपन्नो ऽपि प्रकृत्यैव शरीरिणाम् ।
वक्ति यावन्न देहीति तावद्गवति वल्लभह्

48.62

इति भूमिपतेः श्रुत्वाः वचो दोलावलम्बिनः ।
तमुवाच महामात्यः संचिन्त्यावसरोचितम्

48.63

अनालोचितपर्यन्ताः प्रत्यग्रसरसादराः ।
स्वभावरभसा एव भवन्ति प्रभुबुद्धयः

48.64

अशक्यार्थनया तेन लुब्धेनेव गुणोदयः ।
राजसेवाप्रवृत्तेन हेमहस्ती विनाशितः

48.65

वाच्यो ऽसौ भवता स्वैरं कन्यार्थी पुनरागतः ।
हेमहस्तिनमारुह्य प्राप्तः प्राप्स्यसि मे सुताम्

48.66

तेनोत्कृत्तः स्वहस्तेन कुतस्तस्य स कुञ्जरः ।
न चासौ तद्विरहितः पुनरायाति लज्जया

48.67

इत्यमात्यस्य वचसा नृपतिर्युक्तिमाश्रितः ।
प्राप्तं कुमारमन्येद्युस्तदेवाभिमुखो ऽवदत्

48.68

कुमारो ऽपि गॄहं गत्वा विवाहोचितमङ्गलैः ।
हौमद्विरदमारुह्य स्वजनेन सजाययौ

48.69

स्वर्णवारणसंरूढं तमायान्तं महीपतिः ।
विलोक्याश्चर्यविभवं मेने पुण्यवतां वरम्

48.70

कौतुकादथ भूपालस्तं गजं हेमविग्रहम् ।
आरुरोह महोत्साहः सुमेरुमिव वज्रभृत्

48.71

आरूढे पृथिवीपाले न चचाल स कुञ्जरः ।
प्रसर्सर्प कुमारेण पुनश्चालंकृतासनः

48.72

तं ज्ञात्वा नृपतिर्देवं तत्प्रभावेण विस्मितः ।
धन्यो ऽस्मीति वदन् कन्यां ददौ तस्मै स्मरश्रियम्

48.73

अभ्यर्च्य कन्यारत्नेन नृपतिः पुरुषोत्तमम् ।
हर्षोत्सवसमुद्धूतः सुधासिन्धुरिवाबभौ

48.74

ततः कुमारे दयितामादाय स्वगृहं गते ।
सफलो ऽभूदनङ्गस्य कार्मुकाकर्षणश्रमः

48.75

नवे वयसि भोगार्हे नवकान्तासमागमे ।
तस्याभूद्विभवोदारः सदा नवनवोत्सवः

48.76

ततः कदाचिद्भूपालः कृतकृत्यः प्रसेनजित् ।
पुण्यप्रभावं जामातुः कलयन् समचिन्तयत्

48.77

अहो दिव्यः प्रभावो ऽसौ कुमारस्य प्रदृश्यते ।
न हि सामान्यपुण्यानां पाको भवति तद्विधः

48.78

कुलं लक्ष्मीहर्म्यं हृतशशिमदा रूपलहरी
वयः संभोगार्हं गुणपरिचयो भूषणचयः ।
यशः पुण्योद्यानप्रसृतकुसुमोल्लासरुचिरं
न विद्मः कस्यायं कुशलपरिणामस्य विभवः

48.79

इति संचिन्त्य सुचिरं स संजातकुतूहलः ।
सर्वज्ञदर्शनावद्धमारुरोह मनोरथम्

48.80

स जातातरमाहूय सुतां च सचिवैः सह ।
भगवन्तं ययौ द्रष्टुं मनसा प्रथमं गतः

48.81

याते दृष्टिपथं जेतवने संत्यज्य वाहनम् ।
उपसृत्यः नृपः पद्भ्यां भगवन्तं व्यलोकयत्

48.82

स तं प्रणम्य तत्पादपद्मभूतिशिखामणिः ।
सुतां जामातरं चास्मै नम्रो नाम्ना न्यवेदयत्

48.83

उपविष्टेषु सर्वेषु प्रणामानतमौलिषु ।
पप्रच्छ राजा सर्वज्ञं भगवन्तं कृताञ्जलिः

48.84

अयं गुणगओपेतः कुमारः श्रीमतां वरः ।
हैमेव दन्तिनायातो भगवन् केन कर्मणा

48.85

इयं चीवरकन्या च मत्सुतास्य नवा वधूः ।
केन पुण्यप्रभावेण जीवितादधिवल्लभा

48.86

इति पृष्टः क्षितीशेन सर्वविद्भगवान् जिनः ।
तमूचे भूपते पुंसां पुण्योद्भूता विभूतयः

48.87

यदुदारो यदुचितो यद् भ्राजिंष्णु यदद्भुतम् ।
स्पृहणीयं च यल्लोके तत्तत्पुण्यसमुद्बह्वम्

48.88

विपश्वी भगवान् पूर्वं सुगतः सह भिक्षुभिः ।
चचार लोककृपया राज्ञो बन्धुमतः पुरे

48.89

तस्मिन्नवसरे तत्र कुमार्या सह दारकः ।
विक्रीडावर्त्मनि पुरः कृत्वा दारुमयं गजम्

48.90

तौ विलोक्य समायान्तं ध्मातजम्बूनदद्युतिम् ।
फुल्लपद्मदलाकारकरुणास्निग्धलोचनम्

48.91

भगवन्तं समुद्भूततद्भक्तिसरसोन्मुखौ ।
क्रीडागजं निवेद्यास्मै प्रणतौ तस्थतुः पुरः

48.92

भगवानपि सर्वज्ञस्तयोर्ज्ञात्वा मनोरथम् ।
दयया चरणस्पर्शं विदधे दारुदन्तिनः

48.93

सम्यक् चित्तप्रसादेन दृष्टौ भगवताथ तौ ।
प्रणीधानं विवाहाय चक्रतुर्दारकौ मिथः

48.94

कुलप्रभावविभवैर्भूयाज्जन्म ममोचितम् ।
वाहनं हेमदन्ती च कुमारस्येत्यभून्मतिः

48.95

दृष्ट्वा भगवतः कन्या संसक्त्रे चारुचीवरे ।
जन्मचीवरयुक्तां स्यामहमेतचिन्तयत्

48.96

स एष प्रणिधानेन जातस्तेनेह हस्तकः ।
इयं चीवरकन्या च तनुचीवरलक्षण

48.97

इति क्ष्रुत्वा क्षितिपतिस्तद्वृत्तं सुगतो ऽदितम् ।
मुकुटस्पृष्टतत्पादपद्मः स्वभवनं ययौ

48.98

याते सविस्मयं राज्ञि कुमारः सह जायया ।
कथ्यमानं भगवता धर्मं शुश्राव शुद्धधीः

48.99

ततस्तौ जातवैराग्यौ क्षीणसंसारवासनौ ।
प्रव्रज्यया जितक्लेशौ शुद्धां बोधिमवापतुः

48.100

विततसुकृतपुण्याभ्यासयोगेन पुंसां भवति कुशलभाजां धर्मकामार्थसंपत् ।
अभिमतमथ भुक्त्वा तत्फलं सदारास्ते विघनगगनकान्तिं शान्तिमन्ते भजन्ते

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc