भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 42

42.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कपिलावदानं नामैकचत्वारिंशः पल्लवः ॥
42. कनकवर्णावदानम् ।
सत्त्वेन सूर्यरुचयस्तमसि स्फुरन्ति धर्मेण रत्ननिचया नभसः तपन्ति ।
धैर्येण सर्वविपदः प्रशमं व्रजन्ति दानेन भोगसुभगाः ककुभो भवन्ति

42.2

भगवान् सुगतः पूर्वं श्रावस्त्यां जेतकानने ।
कुशलानां प्रपान्नानां विदधे धर्मदेशनाम्

42.3

पूर्वकल्पान्तरजने वत्सराष्टायुतायुषि ।
श्रीमान् कनकवर्णाख्यो बभूव पृथिवीपतिः

42.4

कनकाख्या पुरी तस्य शक्रस्येवामरावती ।
सर्वलोकेश्वरस्यापि वसतिर्वल्लभाभवत्

42.5

नायकार्हं यशःशुभ्रं चारुवृत्तगुणोचितम् ।
हॄदये यः प्रजाकार्यं मुक्ताहारमिवावहत्

42.6

प्रजाकर्मविपाकेन पुरे परमदारुणा ।
अवृष्टिरभवत् तत्र सर्वभूतभयप्रदा

42.7

सा धैर्यहारिणी सर्वलोकसंतापकारिणी ।
अवृष्टिः प्रययौ भूभृन्मानसायासहेतुताम्

42.8

कुण्ठसर्वप्रतीकारः स चिन्तास्तिमितं पुरः ।
उवाच सुचिरं ध्यात्वा प्रधानामात्यमण्डलम्

42.9

अवर्षोपनिपातो ऽयं प्रजानां निष्प्रतिक्रियः ।
करोति मे यत्नकृतं निष्फलं परिपालनम्

42.10

निवृत्तवर्षाः ककुभो भवन्त्यभ्राश्च स्वच्छकाः ।
प्रवृत्तबाष्पवर्षाश्च प्रजाः पापेन भूभुजाम्

42.11

त्राणं महाभयाद्राजा प्रजानां न करोति यः ।
तस्य स्पष्टं नटस्येव किरीटमुकुटग्रहः

42.12

तदा कॄतयुगं लोके यदा राजा प्रजाहितः

42.13

दुर्भिक्षक्षयिताः पृथुतरक्लेशावलीविह्वलाः ।
हाहाकारविशृङ्खलाः खलतरैरत्यर्दिता वल्लभैः
शोचन्त्यः प्रलयं प्रयान्तशरणाः पापैर्नृपाणां प्रजाः

42.14

तस्मात्समस्तकोषेण रक्षणीया मया प्रजाः ।
राज्ञां प्रजापरित्राणपुण्यं रत्नमयो निधिः

42.15

इत्युक्त्वा सर्वलोकस्य संचिन्त्य कोष्ठकोषयोः ।
स निनाय निजं सर्वं सदा भोग्योपभोग्यताम्

42.16

ततः कालेन तस्योग्रदुर्भिक्षेणान्नसंचयः ।
ययौ महाव्ययादेकपुरुषाशनशेषताम्

42.17

तस्मिन्नवसरे व्योम्ना समभ्येत्य रविप्रभः ।
प्रत्येकबुद्धस्तस्याथ विदधे भोजनार्थनाम्

42.18

नियमे संशये तस्मिन्नात्मनः प्राणधारणे ।
निर्विकल्प्य स ततस्र्वं ददौ तस्मै प्रसन्नधीः

42.19

स्वप्राणवृत्तिं तेनासौ कृत्वातिथ्यप्रसादिना ।
प्रययौ नबह्सा तस्य प्रसंशन् सत्त्वशीअल्ताम्

42.20

अथोद्ययौ व्यओममहाद्विपस्य नीलालिमालेव सदम्बुलेखा ।
मेघावली पश्चिमदिक्प्रलम्बा कपोलकालागुरुमञ्जरीव

42.21

ततः समस्तं गगनान्तरालमुत्फुल्लनीलोत्पलकाननाभम् ।
आच्छाद्यमानं सरसैर्बभासे भृङ्गप्रवन्धौरिव मेघसंघैः

42.22

ततः पपाताखिलभोज्यवृष्टिरिष्टा प्रजानां भुवि सप्त रात्रीः ।
धान्यादिवृष्टिस्तदनन्तरं च रत्नदिवृष्टिश्च ततः क्रमेण

42.23

इति स कनकवर्णः क्ष्मापतिर्भूपतीनां मुकुटमणिरिवोच्चैर्भ्राजमानः प्रजानाम् ।
अकृत सुकृतसंपत्प्रीणितह् प्राणरक्षां प्रभवति हि परार्थे सज्जनानां प्रभावः

42.24

भूपतिः कनकवर्ण एष यः सो ऽहमेव वपुषात्मनाधुना ।
इत्युदीर्य भगवान् जिनः सतां धीमतां व्यधित धर्मदेशनाम्

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc