भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 41

41.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामुद्रायणावदानं चत्वारिंशः पल्लवः ॥
41. कपिलावदानम् ।
यद्भूपालविशालदानबिभवप्रोद्भूतपुण्याधिकं
दानस्यातिकृशस्य सत्फलभरमप्नोत्यलं दुर्गतः ।
शुद्धस्यैव विवृद्धधर्मधवलश्रद्धासमृध्यान्वितं
निःसंसारविजृम्भितं तदुचितं चित्तस्य वित्तस्य च

41.2

जिने जेतवनारामविहारिणि महाधनह् ।
धीराभिधानः श्रावस्त्यामभूद् गृहपतिः पुराः

41.3

तस्य पण्डितनामभूत् पुत्रः सुकृतपण्डितः ।
अखण्डितयशःपुण्यदानालंकारमण्डितः

41.4

स बाल एव भिक्षूणाम् राजार्हैर्वस्त्रभोजनैः ।
शारिपुत्रप्रधानानां चकारातिथिसत्क्रियाम्

41.5

ततः कदाचिदक्षीणादुर्भिक्षक्षयिते जने ।
याच्ययाचकतुल्यत्वे पिण्डिच्छेदो ऽथिनामभूत्

41.6

भिक्षूणां संकटे तस्मिन् काले परमदारुणे ।
पण्डितः सुगताहूतः प्रतस्थे जेतकाननम्

41.7

तं व्रजन्तं तुरङ्गेण काञ्चनादामशोभिनम् ।
ऊचुर्विटाः समभ्येत्य गुणोत्साहासहिष्णवः

41.8

अर्थिसार्थार्थनाकल्पवृक्षस्त्वं दिक्षु विश्रुतः ।
शतानि पञ्च संप्राप्तास्त्वामुद्दिश्याशया वयम्

41.9

अलंकारांशुकयुगं प्रत्येकं नः समीहितम् ।
अधुनैवाविलम्बेन दीयताम् यदि शक्यते

41.10

इत्युक्तस्तैः सदाचारः सो ऽवतीर्य तुरङ्गमात् ।
साधु पूजां विधायैषां धीमान् क्षणमचिन्तयत्

41.11

भगवन्तमदृष्ट्वैव गच्छामि स्वगृहं यदि ।
आसन्नामृतपानस्य तं विघ्नं कथमुतशे

41.12

अदत्वा प्रियमर्थिभ्यो व्रजामि यदि निस्त्रपह् ।
कथं करोमि दानस्य तां स्वयं व्रतखण्डनाम्

41.13

इति चिन्तयतस्तस्य भित्त्वा भूमिं समुद्गतः ।
नागराजः स्वयं शेषः प्रादादर्थिसमीहितम्

41.14

दत्तानि नागराजेन वस्त्राण्याभरणानि च ।
स तेभ्यः प्रतिपाद्याशु ययौ निःशल्यतामिव

41.15

ते ऽपि दृष्ट्वा तदाश्चर्यं पुण्यां सुगतभावनाम् ।
सर्वार्थसंपत्सिद्धीनां जननीमेव मेनिरे

41.16

जातचित्तप्रसादास्ते तेनैव सहितास्ततः ।
भगवन्तं ययुर्द्रष्टुं विनष्टद्वेषकल्मषाः

41.17

भगवन्तमथालोक्य कुमारः प्रणताननः ।
तत्पादपद्मरजसा धन्यश्चक्रे ललाटिकाम्

41.18

हारं पुनश्चरणयोः शास्तुः शशिकरोज्ज्वलम् ।
विन्यस्य प्रणतानग्रे स तानस्मै न्यवेदयत्

41.19

धर्मदेशनया तेषां भगवान् ज्ञानवज्रभृत् ।
भित्त्वा सत्कायदृष्ट्यद्रिं स्रोतःप्राप्तिफलं व्यधात्

41.20

दृष्टसत्येषु यातेषु ततस्तेषु प्रणम्य तम् ।
कुमारंपण्डितं प्रीत्या भगवान् स्वयमभ्यधात्

41.21

वत्स पुण्यैरवाप्तो ऽसि पर्याप्तिं सुकृतश्रियाम् ।
दुर्भिक्षेस्वपि भिक्षूणां कुरु भोज्याधिवासनाम्

41.22

परिग्रहो मे भिक्षूणां शतान्यर्हत्रयोदश ।
अन्ये चान्विष्य कृच्छ्रार्ताः संविभज्यास्त्वया पुरे

41.23

इति श्रुत्वा भगवतः पण्डितः प्रमदाकुलः ।
भक्त्या संघस्य विदधे यावज्जीवं निमन्त्रणम्

41.24

ततः स्वगृहमभ्येत्य राजार्हैभिक्षुसंमतैः ।
संबुद्धप्रमुखं संघं सदा भोज्यैरपूजयत्

41.25

दरिद्रानदरिद्रांश्च याच्यानपि च याचकान् ।
अनुकम्प्यान् स विदधे दानेनान्यानुकम्पिनह्

41.26

शेषान् कृपणसंघातान् सो ऽन्विष्य करुणाम्बुधिः ।
रत्नराशिं ददौ तेभ्यो दौर्गत्यतिमिरापहम्

41.27

स रत्ननिकरस्तेषां जगामाङ्गारराशिताम् ।
नृणां भाग्यानि रत्नानि मणयः प्रस्थजातयः

41.28

ते तमूचुः समभ्येत्य स्वप्नदृष्टधना इव ।
रत्ननाम्ना त्वयास्माकं स दत्तो ऽङ्गारसंचयः

41.29

धनलाभेन महता सद्यः प्राप्तोन्नतिर्जनह् ।
तत्संक्षयात् क्षणेनैव परिभ्रष्टो न जीवति

41.30

इति तेषां वचः श्रुत्वा पण्डितः करुणानिधिः ।
तानूचे पुण्यदीनानां रत्नान्यायान्त्यरत्नताम्

41.31

युष्माभिर्न कृतः पूर्वं मोहात् सुकृतसंचयः ।
तेनायं रत्नराशिर्वः प्रयातो ऽङ्गारसारताम्

41.32

रत्नानि यत्ननिहितान्यपि यान्ति दूरं पुण्यक्षयादुपनयन्ति च भाग्ययोगात् ।
वित्तार्जनं पतितशोकनिमित्तमेव वित्तं हि चित्तमुचितं सुकृतप्रवृत्तम्

41.33

तस्माद् भवद्भिर्भोज्याय भिक्षुसंघो ऽधिवास्यताम् ।
भोगसंभारसंपत्तिमहं संपादयामि वः

41.34

इत्युक्तास्तेन तद्दत्तवित्तभोजनसंपदा ।
ते बुद्धप्रमुखं संघं दिनमेकमपूजयन्

41.35

संघं यथावदभ्यर्च्य प्रणीधानमकारि तैः ।
म् आकदाचन दारिद्य्रं स्यादस्माकमिति क्षणम्

41.36

ततस्ते पण्डितगिरा गत्वा ददॄशुरग्रतः ।
तमेवाङ्गारनिकरं प्रयातं रत्नराशिताम्

41.37

भवने पण्डितस्याथ कुमारस्य प्रभवतः ।
विवृतानां निधानानां निर्विघ्नं शतमुद्ययौ

41.38

स प्रसेनजिते राज्ञे धर्मज्ञः स्थितिरक्षणात् ।
ददौ निधानषड्भागं स चास्याङ्गारतामगात्

41.39

कुमारस्यैव सुकृतैर्भोग्यो ऽयं निधिसंचयः ।
इत्यन्तरीक्षाद्वचनं ततः शुश्राव भूपतिः

41.40

कुमारस्यैव वचसा तान्निधीन्निर्धितां पुनः ।
प्राप्तां विलोक्य साश्चर्यः प्रहिणोत्तद्गृहं नृपः

41.41

ततस्तदखिलं वित्तं वितीर्य विपुलाशयः ।
कुमारः संपदां चक्रे स्थितिं दुर्गतवेश्मसु

41.42

अथ निःसारसंसारविचारविरतस्पृहः ।
अनित्यतां स संचिन्त्यः दीरः पितरब्रवीत्

41.43

अनुजानीहि मां तावत् गन्तुं तात पतोवनम् ।
इमा जन्मशतोच्छिष्टाः क्लिष्टा मम विभूतयः

41.44

त्रैलोक्यसंपत्संप्राप्तिर्यस्मिन् व्रजति भोग्यताम् ।
तदिदं सर्वभूतानामायुर्भाजनमल्पकम्

41.45

शीते यस्य करोमि संततमृदुस्पर्शांशुकौर्गूहनं
संतापे रचयामि यस्य शिशिरश्रीखण्डचर्चार्चनम् ।
यस्यार्थे विषशस्त्रवह्निभुजगव्रातात्परं मे भयं
प्राप्तः सो ऽप्यमपायतः परिहृते ऽप्यायाति कायः क्षयम्

41.46

भोगाद्विरक्तः प्रव्रज्यामादाय दयितां वने ।
विहरामि हरन् चिन्तां चिन्तातप्तस्य चेतसः

41.47

इत्युक्त्वा स परित्यज्य विषयस्नेहबन्धनम् ।
कृताभ्युओपगमः पित्रा शारिपुत्राशमं ययौ

41.48

तत्र प्रव्रजितस्तेन पात्रपाणिः सचीवरः ।
तस्यैवानुचरो भूत्वा विचचार यतव्fअतः

41.49

स दृष्ट्वा कर्षकैर्धारां क्षेत्रात् क्षेत्रप्रवर्तिताम् ।
निर्दिष्टेन पथा यान्तीं विस्मयादित्यचिन्तयत्

41.50

अहो विहितमार्गेण गच्छतामप्यचेतसाम् ।
जलानां कर्मसंसिद्धर्दृश्यते नतु देहिनाम्

41.51

संचिन्त्येति व्रजन्नग्रे दृष्ट्वा यष्टीकृतं शरम् ।
प्रतप्तमिषुकारेण प्रदध्यौ धीमतां वरः

41.52

तापात् प्रगुणतामेते यान्ति निश्चेतनाः शराः ।
न तु संसारसंतप्ता अपि वक्राः शरीरिणः

41.53

इति ध्यायन् विलोक्याग्रे तक्ष्णा शकटचक्रताम् ।
नीतानि दृढरूपाणि पुनश्चिन्तां समाययौ

41.54

अहो नु घटनायोगाद् यान्ति कर्मण्यतां क्षणात् ।
निश्चेतनानिद् आरूणि न चित्तानि शरीरिणाम्

41.55

इत् चंचिन्त्य संयातः सुधर्मनियमादरः ।
वत्सलं पितरं पुत्र इवाचार्यमुवाच सः

41.56

आर्य एव प्रयात्वद्य पिण्डपाताय मत्कृते ।
अहं तु भवतादिष्टं चिन्तयामि निजव्रतम्

41.57

इत्युपाध्यायमभ्यर्थ्य भक्तकृत्याय पण्डितः ।
तस्मिन् याते तदादिष्टं विहारागारमाविशत्

41.58

तत्र यष्टीकृततनुः कृत्वा प्रतिमुखीं स्मृतिम् ।
स प्रदध्यौ निजं धर्मं बद्धपर्यङ्कनिश्चलः

41.59

तस्मिन् समाधिसंनद्धे वसुधा सधराधरा ।
विचचालाखिलाम्भोधिजललोलदुकूलिनी

41.60

शक्रस्तं ध्याननिरतं ज्ञात्वा निर्विघ्नसिद्धये ।
दिदेश दिक्षु रक्षायै दिक्पालान् सेन्दुभास्करान्

41.61

भगवानथ सर्वज्ञस्तस्य सिद्धिमुपस्थिताम् ।
पाकात् कुशलमूलानां ज्ञात्वा क्षणमचिन्तयत्

41.62

आसन्नार्हत्पदस्यास्य शारिपुत्रः समेत्य चेत् ।
द्वारमुद्धाटयेन्मध्ये विघ्न एष न संशयः

41.63

तस्मादागच्छतस्तस्य गत्वा स्वयमहं पुरः ।
करोमि कालहाराय नानाप्रश्नाश्रयाः कथाः

41.64

इति संचिन्त्य भगवान् स्वयं तद्दिशमागतः ।
भिक्षोरागच्छतस्यस्य व्ज्लम्बं कथयाकरोत्

41.65

सुरप्रभावान्निःशब्दे नभोगतविहंगमे ।
लोके निर्वातदीपस्य तुल्यतां प्राप पण्डितः

41.66

स्रोतः प्राप्तिफलादूर्ध्वं सकृदागाम्यवाप्य सः ।
अनागामिफलं प्राप्य ततो ऽर्हत्फलमाप्तवान्

41.67

ततः कथान्ते सुगते प्रयाते निजमाश्रमम् ।
शारिपुत्रः प्रविश्यर्कमिव शिष्यं व्यलोकयत्

41.68

तं दृष्ट्वा सहसोत्तीर्णं विशीर्णभवबन्धनम् ।
सिद्धिं युगशतप्राप्यां तस्य ताम् प्रशशंस सः

41.69

तां तस्यार्हत्पदप्राप्तिं श्रुत्वा जगति विश्रुताम् ।
भिक्षुभिर्भगवाण् पृष्टस्तत्कथामब्रवीज्जिनह्

41.70

भगवान् काश्यपः पूर्वं वाराणस्यां तथागतः ।
सह भिक्षूसहस्राणां विंशत्या पुरवासिभिः

41.71

श्रद्धाप्रणीतैः शुचिभिः सर्वभोग्यैर्मनोनुगैः ।
उवास पूजितह् कंचित् कालं सत्त्वहितोद्यतः

41.72

भिक्षुपूजापरे तत्र वर्तमाने गृहे गृहे ।
अचिन्त्ययद्विनिःश्वस्य दुर्गतो नाम दुर्गतः

41.73

धिङ् मामतीव दारिद्य्रात् नीचं निष्कुशलक्रियम् ।
नैको ऽपि मन्दभाग्येन येन भिक्षुर्निमन्त्रितः

41.74

त्याज्या जनस्य सकलव्यवहारबाह्याः वाक्यप्रमाणपदसंधिषु नैव योग्याः ।
नष्टक्रिया विगतकारकतर्कहीनाः शब्दा इवार्थरहिताः पुरुषा भवन्ति

41.75

इति चिन्तानलाक्रान्तं निन्दितं धनहीनतः ।
तं समाहूय को ऽप्येत्य सुकृतप्रेरको ऽभ्यधात्

41.76

क्षीणार्थेनापि भवता जन्मान्तरशुभाप्तये ।
यथाकथंचिदेको ऽपि भिक्षुः किं न निमन्त्रितः

41.77

इत्युक्तस्तेन संसक्तशल्यः पुनरिवाहतः ।
भिओक्षुभोजनवैकल्यात् स भृधं व्यथितो ऽभवत्

41.78

कथंचित्क्ष्ःउत्परिक्षामः स गत्वा श्रेष्ठिमन्दिरम् ।
यत्नेन प्राप मूल्यांशं दारुपाटनकर्मणा

41.79

कृत्वा तत्रैव तद्भार्या शुद्धतण्डुलखण्डनम् ।
तदंशभृतिमूल्याप्तं भक्त्या भर्त्रे न्यवेदयत्

41.80

समुद्यतस्य तस्याथ भिक्षुभोजनसिद्धये ।
शुद्धये शुद्धसत्त्वस्य शक्रो ऽभूदनुसाधकह्

41.81

दिव्यवर्णरसामोदे भोज्ये शक्रेण साधिते ।
प्रीत्या प्रच्छन्नरूपेण भिक्षुं लेखे न दुर्गतः

41.82

विभूतिमोहितैर्गूढैः पूर्वं पुरनिवासिभिः ।
संघे निमन्त्रिते दुःखात् दुर्गतो मर्तुमुद्ययौ

41.83

कृपया तस्य भगवान् स्वयमभ्येत्य काश्यपः ।
शुद्धिसिद्धिं परिज्ञाय चक्रे भोज्यप्रतिग्रहम्

41.84

अहो ऽहं भवतो भोज्यं प्रयच्छामीति भूभुजा ।
प्रयत्नात् प्रार्तितो ऽप्यर्थं नैवामन्यत दुर्गतः

41.85

गुणद्रविणसंपूर्णः स्यां दरिद्रप्रसादनः ।
भगवन्तमथाभ्यर्च्य प्रणीधानं चकार सः

41.86

स्वाश्रमं काश्यपे याते सुरेन्द्रे च दिवं गते ।
दुर्गतस्य गृहं सर्वं दिव्यरत्नैपूरयत्

41.87

विश्वकर्मा ततस्तस्य विदधे शक्रशासनात् ।
भवनं रुचिरोद्यानं रत्नस्तम्भविभूषितम्

41.88

संप्राप्तविमलैश्वर्यः सहितं सर्वभिक्षुभिः ।
सप्ताहं विभवैर्भोगैः स काश्यपमपूजयत्

41.89

क्षुत्क्षामाङ्गनमर्थिभिः परिहृतद्वारं रुदद्दारकं
गेहं निश्चलकज्जलान्यपि स्थलीकोणस्वनन्मक्षिकम् (?) ।
चुल्लीसुप्तबिडालबालमपरं यस्याभवद्रौरवं
श्रीस्तस्यैव नृपस्पृहास्पदतयाश्चर्यं न कस्य स्वयम्

41.90

तेन दानप्रभावेण सुधाशुद्धेन दुर्गतः ।
जन्मान्तरे पण्डिततामवाप्यार्हत्त्वमागतः

41.91

इति पण्डितपूर्वजन्मवृत्तं कथितं सर्वविदा गुणादरेण ।
अवधार्य विशुद्धदानपुण्यं कुशलार्हं प्रशशंस भिक्षुसंघः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc