भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 43

43.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कनकवर्णावदानं नाम द्विचत्वारिंशः पल्लवः ॥
43. हिरण्यपाण्यवदानम् ।
सर्वोपकारप्रणयी प्रभावः सर्वोपजीव्या महती विभूतिः ।
पुण्याङ्कुरार्हस्य फलं विशालपलार्हमेतत् प्रथमं हि पुष्पम्

43.2

जिने जेतवनारामविहाराभिगते पुरा ।
श्रावस्त्यां देवसेनाख्यः श्रीमानासीद्गृहाधिपः

43.3

हिरण्ंयपाणिस्तस्याभूत्पुत्रः सत्पुत्रमानिनः ।
यस्य हेममयं जातं पाणिद्वितयमद्भुतम्

43.4

रूप्यलक्षद्वयं तस्य प्रातः प्रातः करद्वये ।
प्रादुरासीत्स तेनाभूदर्थिनां कल्पपादपः

43.5

तस्य व्यक्तविवेकेन परिपाकेन भूयसा ।
काले कुशलमूलानां जिने भक्तिरजायत

43.6

अथ जेतवन गत्वा बह्गवन्तं तथागतम् ।
स दृष्ट्वा विदधे तस्य सानन्दः पादवन्दनम्

43.7

भगवानपि संषारतापप्रशमचन्दिकाम् ।
सुधासखीं दिदेशास्मै दृशं कुशलवृतिकाम्

43.8

स शास्तुर्दर्शनेनैव संमोहतिमितोज्झित ।
बभासे सुर्यकिरणप्रबुद्धकमलोपमः

43.9

भगवान् विदधे तस्य ततः सद्धर्मदेशनाम् ।
यया धर्ममयं चक्षुरक्षुण्णालोकमुद्ययौ

43.10

प्राक्पुण्यपरिणामेन जातवैराग्यवासनः ।
प्रणम्य विमलप्रज्ञः स सर्वज्ञमभाषतः

43.11

शरण्य शरणाप्तस्य भगवन् भवहारिणी ।
अशेषक्लेशनाशाय प्रव्रज्या मे विधीयताम्

43.12

चपलं प्राणिनामायुष्ततो ऽपि नवयौवनम् ।
विद्युद्विलासचपलास्ततो ऽप्येता विभूतयः

43.13

इति तस्य ब्रुवाणस्य सुगतानुग्रहोदिता ।
पपात वितरजसः प्रव्रज्या वपुषि स्वयम्

43.14

रक्तचीवरसुव्यक्तां बिभ्राणः स विरक्तताम् ।
पात्रग्रहेण तत्याज पुनः संसारपात्रताम्

43.15

तस्य तामद्भुतां सिद्धिं प्रत्यक्षं वीक्ष्यं भिक्षवः ।
तत्पूर्ववृत्तं पप्रच्छुर्भगवन्तं स चाब्रवीत्

43.16

वाराणस्यां पुरा राजा कृकिर्नाम तथागते ।
काश्यपाख्ये भगवति प्रयाति परिनिर्वृतिम्

43.17

शरीरमस्य सम्कृत्य स्तूपं रत्नमयं व्यधात् ।
स्वर्गावगाहनप्रौढं मूर्तं पुण्यमिवोन्नतम्

43.18

तस्मिन्नारोप्यमाणायां यष्टयां पूजापरिग्रहे ।
कितवः कन्दलो नाम निदधे रूपकद्वयम्

43.19

चित्तप्रसादशुद्धेन तेन पुण्येन भूयसा ।
हिरण्यपाणिः प्राप्तो ऽद्य महतां स्पॄहणीयताम्

43.20

भवति विभवस्त्यागोदारः समग्रगुणो भुवि
प्रसरतिः यशः शुक्लं लोके सुधांशुसहोदरम् ।
परिणतिपदे पुण्यं धत्ते यदल्पमनल्पतां
विमलमनसः श्रद्धाशुद्धं तदेव विजृम्भितम्

43.21

इति प्रभावं कथितं जिनेन पुण्यानुभावस्य हिरण्यपाणेः ।
श्रुत्वैव हर्षादरविस्मयानां स भिक्षुसंघः प्रणयी बभूव

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc