भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 40

40.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कपिलवदानं नाम एकोनचत्वारिंशः पल्लवः ॥
40. उद्रायणावदानम् ।
तुल्यमेव पुरुषेण भुज्यते कायभाजनगतं शुभाशुभम् ।
देहिनां विविधकर्मजं फलं न ह्यभुक्तमुपयाति संक्षयम्

40.2

भगवान् सुगतः पूर्वं पुरे राजगृहाभिधे ।
कलन्दकनिवासाख्ये विजहार वनान्तरे

40.3

बिम्बिसारः क्षितिपतिस्तत्राभूद्विश्रुतः श्रिया ।
आकरः सरव्रत्नानां रत्नाकरम् इवापरः

40.4

बभूव समये तस्मिन् रौरुकाख्ये पुरे नृपः ।
श्रीमानुद्रायणो नाम यशश्चन्द्रमहोदधिः

40.5

तस्य चन्द्रप्रभा नाम पत्नी चन्द्राननाभवत् ।
शिखण्डी युवराजश्च सूनुर्विक्रमकर्कशः

40.6

हिरुको भिरुकश्चेति तस्यामात्यौ बभूवतुः ।
गणनीयौ न विनये ययुः शुक्रबृहस्पती

40.7

जाता भूमिभुजः प्रीतिर्लेखखत्विषस्तयोः ।
रवेर्दूरस्थितस्यापि कमलाकरयोरिव

40.8

अपूर्वरत्ननिचयप्रेषणैर्बहुशस्तयोः ।
परिपूर्णं परं प्राप सख्यं प्रेम विधानतः

40.9

दूरस्थापि परं प्रीतिः सतां कीर्तिरिवाक्षया ।
संसक्तापि खलप्रीतिस्तृणज्वालेव न स्थिरा

40.10

कदाचिद्दिव्यरत्नाङ्कं कवचं काञ्चनोज्ज्वलम् ।
प्राहिणोद् बिम्बिसाराय सारमुद्रायणो नृपः

40.11

विषह्सस्त्राग्निरक्षार्हं विचित्ररत्नकं च तत् ।
सुहृत्प्रेषितमादाय प्रोवाच सचिअवान् नृपः

40.12

इदं मे प्रहितं तेन सौजन्यमिव भूभुजा ।
सर्व रक्षाक्षमं वर्म गाढप्रेमनिवेदकम्

40.13

न पश्याम्यस्य सदृशं प्रतिदेयं तथाधिकम् ।
अल्पप्रतिक्रिया शल्यमुपकारापकारयोः

40.14

उचितं चिन्त्यतां किंचित् प्रेषणीयमतो ऽधिकम् ।
सर्वैर्भद्भिरित्युक्त्वा नॄपश्चिन्ताकुलो ऽभवत्

40.15

अथ धीमान् महामात्यश्चिरं ध्यात्वा तमब्रवीत् ।
वर्षकाराभिधो विप्रः सर्वविद्यासु पारगः

40.16

अतो बहुगुणं रागन्नेकमेवास्त्युपायनम् ।
तस्य संप्रेषने यत्नः क्रियतां यदि शक्यते

40.17

य एष भगवान् बुद्धः स्थितस्त्वद्विषयान्तिके ।
देवानामादरस्थानं पटस्तत्प्रतिमान्वितः

40.18

अशेषलोककल्याणकलिकाकल्पपादपः ।
चित्रे स्वप्ने ऽथ संकल्पे पृथुपुण्यैः स दृश्यते

40.19

इति मन्त्रिवचः श्रुत्वा तथेत्युक्त्वा महीपतिः ।
गत्वा भगवते नम्रस्तमेवार्थं न्यवेदयत्

40.20

अनुज्ञातस्ततस्तेन नृपश्चित्रकरान् वरान् ।
आदिदेशाशु भगवत्प्रतिमोल्लेखकर्मणि

40.21

जिनस्यालोकयन्तस्ते मूर्ति रूपव्शीकृताः ।
ययुः प्रमाणग्रहणे प्रगल्भा अप्यशक्तताम्

40.22

संक्रान्तां निमलपटे छायां भगवतस्ततः ।
सुवर्णभावनाभिख्यां ते शनैः समपूरयन्

40.23

प्राःइणोदथ भूपालस्तं बुद्धप्रतिमापटम् ।
जगन्नयनपुण्यानां मूर्तानामिव संचयम्

40.24

बिम्बिसारस्य हस्ताङ्कलेखामुद्रायणो नृपः ।
पटस्य पुरतः प्राप्ताम् हृष्टः स्वयमवाचयत्

40.25

सुगतचरणपद्मन्यासपुण्योपकण्ठात्
त्रिदशपुरविशेषान्मागधोदाररदेशात् ।
कुशलकलितमूर्तिर्भूपतिर्बिम्बिसारः
क्षितितलतिलकं त्वां धर्मबन्धुर्ब्रवीति

40.26

एतत्ते प्रहितं हितं भवमहामोहामये भेषजं
राजद्वेषविषापहं भगवतो बिम्बं शशाङ्कत्विषः ।
तृष्णापच्छमनं प्रसन्नमधुरं त्वन्नेत्रपात्रार्पितं
धन्यः पुण्यरसायनं पिब हठादाकण्ठमुत्कण्ठितः

40.27

सन्मार्गे विनियोजनं स्गुणगणाधाने सदाध्यापनं
दुर्व्यापारनिवारणम् थिरसुखप्राप्तौ परिप्रेरणम् ।
निर्व्याजोपकृतौ निरन्तरतया सर्वात्मना वर्तनं
कर्तव्यं किमतः परं प्रियहितं कल्याणमित्रैः सताम्

40.28

इति लेखार्थमास्वाद्य सुहृत्प्रेमामृतोचितम् ।
राजा गजाधिरूढस्य पटस्य प्रययौ पुरः

40.29

अभिनन्द्य तमानन्दात् सामात्यः सपुरोहितः ।
हेमसिंहासनोत्सङ्गे स प्रसार्य न्यवेशयत्

40.30

लावण्यपुण्यनिलयं दृष्ट्वा तत्सौगतं वपुः ।
नमो नमह् प्रबुद्धायेत्यवदजगतीजनः

40.31

बुद्धाभिधानं श्रुत्वैव पुलकालंकृताकृतिः ।
पुष्पवर्षे सुरैर्मुक्ते विस्मितो ऽभून्महीपति

40.32

पुण्यं भगवतः श्रुत्वा स तत्र चरितामृतम् ।
पयोदानादसोत्कण्ठनीलकण्ठतुलां ययौ

40.33

द्वादशाङ्गं पटस्याध सानुलोमविपर्ययम् ।
प्रतीत्यसमुत्पादं च दृष्ट्वा मोहं मुमोच सः

40.34

स्रोतःप्राप्तिफलेनैवं दृष्टसत्यो ऽथ भूपतिः ।
दिदेश प्रतिसंदेशं सख्युर्भिक्षुर्विसर्जनैः

40.35

बिम्बिसारस्ततस्तस्मै कृत्वा भगवतो ऽर्थनाम् ।
कात्यायनं च व्यसृजत् शैलाख्याम् चापि भिक्षुणीम्

40.36

उद्रायणस्य नॄपतेरार्यः कात्यायनो ऽथ सः ।
पूजाविधायिनस्तत्र विदधे धर्मदेशनाम्

40.37

धर्मदेशनया तस्य संगतः सुमहान् जनः ।
स्रोतःसकृदनागामिफलार्हत्पदमाप्तवान्

40.38

तस्मिन् गृहपती ख्यातौ तिष्यपुष्याभिधौ पुरे ।
शान्त्यै प्रव्रज्य तस्याग्रे परिनिर्वृतिमापतुः

40.39

कालेन विहितै स्तूपौ देहान्ते ज्ञातिभिस्तयोः ।
तन्नामचिह्नावद्यापि वन्दन्ते चैत्यवन्दकाः

40.40

देव्याश्चन्द्रप्रभायाश्च शओलाख्या सापि भिक्षुणी ।
क्रमेणान्तःपुरे चक्रे सततं धर्मदेशनाम्

40.41

कदाचिदथ भूपालह् क्रीडगारगतां प्रियाम् ।
तामज्ञासीन्निमित्तज्ञः सप्ताहावधिजीविताम्

40.42

ज्ञातसंसारचरितस्ततस्तां वशुधाधिपः ।
अनुजज्ञे शुभपदं प्रातुं प्रव्रज्यया पुरः

40.43

स्वाख्याते धर्मविन्मये भिक्षुक्या नृपतेर्गिरा ।
देवी प्रव्रजिता देहं दिने तत्याज सप्तमे

40.44

चातुर्महाराजिकेषु देवेषु सहसैव सा ।
प्रयाता देवकन्यात्वं जगाम जिनकाननम्

40.45

तत्र पूर्णेन्दुवदना दिव्याभरणभूषिता ।
दृष्ट्वा शाक्यमुनिं हृष्टा सा पपातास्य पादयोः

40.46

प्रकीर्णदिव्यपुष्पायास्तस्याश्चक्रे तथागतः ।
धर्मोपपादनं येन दृष्टसत्या जगाम सा

40.47

सा गत्वा नगरं पत्युर्व्योम्ना मूर्तिरिवैन्दवी ।
विबोध्य निशि सुप्तस्य चक्रे बोधिप्रकाशनम्

40.48

यातायां स्वपदं तस्यां प्रभाते वसुधाधिपः ।
प्रव्रज्याभिमुखः पुत्रमभिषिच्य शिखण्डिनम्

40.49

प्रजात्राणाय निक्षिप्य तं महामात्ययोस्ततः ।
नृपतेर्बिम्बिसारस्य सुहृदः स ययौ पुरम्

40.50

बिम्बिसारस्तमायातं विगतच्छत्रचामरम् ।
नृपोपचारैः प्रणतः प्रीतिपूतैरपूजयत्

40.51

विश्रान्तमासनासीनं स तमूचे सविस्मयः ।
हृष्ठः संदर्शनेनास्य श्रीवियोगेन दुःखितः

40.52

राजन्ननन्तसामन्तमौलिविश्रान्तशासनः ।
पाकशासनतुल्यस्त्वं कथमेवमुपागतः

40.53

अभिन्नवक्र्क्रप्रकृतेर्गुप्तमन्त्रस्य धीमतः ।
परेण राज्यहरणं वीर संभाव्यते न ते

40.54

इति पृष्टः स सुहृदा सस्मितस्तमभाषत ।
राजन् वृद्धिविभूतिर्मे न प्रिया सर्वगामिनी

40.55

विषयास्वादवैमुख्याद् वितृष्णेन मया स्वयम् ।
उत्सृष्टमिव संत्यक्तमैश्वर्यं भोगभाजनम्

40.56

त्वया कल्याणमित्रेण सुगतप्रतिमापटः ।
यो ऽसौ हिताय प्रहितः स् अवैराग्यगुरुर्ममः

40.57

अधुना त्वत्प्रसादेन गत्वा भगवतो ऽन्तिके ।
इच्छाम्यवाप्तुं प्रव्रज्यामगारादनगारिकः

40.58

इति सख्युर्वचः श्रुत्वा तत्तथेति विचिन्त्य च ।
सादरस्तद्विवेकेन बिम्बिसारस्तमब्रवीत्

40.59

धन्यो बहुमतश्चासि सतां त्वं पृथिवीपते ।
कथं संसारविमुखी जाता ते मतिरीदृशी

40.60

संतोषविभवो भोगसुभगः शोभसे परम् ।
लक्षणं शुद्धसत्त्वानां वैराज्याभरणं मनह्

40.61

किं साम्राज्यमहौजसा सरजसा दुःसाधनैः साधनैः
किं भोगैः क्षणभोजनैः कुलषदैः किं सत्त्वदुःखैः सुखैः ।
संसारोपरमाय चेतसि सतां जन्मान्तरोपार्जितं
वैराग्यं कुरुते पदं यदि महामोहप्ररोहापहम्

40.62

येन प्राणमनःप्रिया वसुमती संत्यज्यते लीलया
त्रैलोक्याभिमते ऽपि यः स्मरसुखे वैमुख्यदीक्षागुरुः ।
संमोहव्य्सनातुरं जगदिदं येनानुकम्पास्पदं
पुण्यैः को ऽपि स जायते मतिमतां संसारवामः शमह्

40.63

इत्युक्त्वा बिम्बिसारस्तं नीत्वा वेणुवनाश्रमम् ।
सप्रणामं भगवते तद्वृत्तान्तं न्यवेदयत्

40.64

उद्रायणो ऽपि सुगताकारं सुचिरचिन्तितम् ।
विलोक्य हर्षादात्मानं कृतकृत्यममन्यत

40.65

पर्णामव्यग्रशिरसा संसारच्छेदिनि तनौ ।
पपात भगवद्दृष्टिस्तस्य प्रव्रज्यया सह

40.66

भिक्षुभावमथासाद्य पात्रपाणिः स चीवरी ।
नगरे पिण्डपातार्थी चकार जनविस्मयम्

40.67

प्रजाः शिखण्डी धर्मेण पालयित्वा प्रसन्नधीः ।
यातः कालेन कालुष्यमधर्माभिरतो ऽबह्वत्

40.68

कलुषं काञ्चनरुचिव्यक्तविद्युद्विलासिनी ।
न कस्य कुरुते लक्ष्मीर्मेघमालेव मानसम्

40.69

अनायत्तं महामात्यौ हिरुको भिरुकश्च तम् ।
अधर्मकर्मनिरतं क्रुद्धौ तत्यजतुः प्रभुम्

40.70

तत्पदे विहितौ राज्ञा सचिवौ दण्डमुग्दरौ ।
चित्तानुवृत्तिकुशलौ स्वैरं सक्तं तमूचतुः

40.71

प्रजारञ्जनसंसक्ता राजदौर्जन्यवादिनः ।
स्वयशःख्यापनायैव जायन्ते धूर्तमन्त्रिणः

40.72

न धर्मं न सुखं नार्थं न कीर्ति न च जीवितम् ।
गणयन्ति प्रभोरर्थे ते भृत्या भव्यभक्तयः

40.73

नाखण्डिता नाक्षयिता नातप्ता नाप्यपीडिताः ।
कुर्वन्त्यर्थक्रिया राज्ञस्तिलतुल्याः किल प्रजाः

40.74

इति ब्रुवाणौ तौ राज्ञा नियुक्तौ राज्यचिन्तने ।
लोभात् प्रवृत्तौ दुर्नीतौ हन्तुं निःशरणाः प्रजाः

40.75

निर्विचारे दुराचारे कुमतौ पृथिवीपतौ ।
लुप्तसत्ये महामात्ये प्रजानां जीवितं कुतः

40.76

उद्रायणो ऽथाचिरेण कदाचिद् वणिजंपथि ।
निजदेशागतं वार्तां पप्रच्छ नृपराष्ट्रयोः

40.77

सो ऽवदद्देव कुशली सुतस्तव महीपतिः ।
किं तु सन्मन्त्रिरहितः कुमन्त्रिवशमागतः

40.78

तत्र प्रजानां विततोपतापः को ऽपि प्रवृत्तः प्रभुशासनेन ।
येनाद्य तत्कुत्सितदेशजन्म दिवानिशं शोचति पौरलोकः

40.79

यत्र ध्वान्तं सृजति तरणिर्यत्र चन्द्रो ऽग्निवर्षी
यत्रोदेति प्रकटममृतादुत्कटः कालकूटः ।
यत्र त्राता हरति नृपतिर्जीववृत्तिं प्रजानां
तत्राक्रन्दं प्रसॄतविपुलोपप्लवं कः शृणोति

40.80

इत्यासक्तनृपायासखिन्नस्यार्तिमयं वचः ।
दुःसहं वणिजः श्रुत्वा स तमूचे कृपानिधिः

40.81

दद्गिरा त्वमितो गत्वा तूर्णमाश्वासय प्रजाः ।
स्थापयिष्याम्यहं धर्मे स्वयमेत्य शिखण्डिनम्

40.82

इत्युक्तस्तेन सानन्दः स्वदेशं शनकैर्वणिक् ।
गत्वा प्रजानां विदधे स्वैरमाश्वासनं पुरः

40.83

प्रवादे प्रसृते तस्मिन्नमात्यौ दण्डमुद्गरौ ।
अतीतभूपागमनत्रस्तौ भूपतिमूचतुः

40.84

सर्वत्र श्रूयते देव प्रवादः साधुनिन्दितः ।
वृद्धः प्रव्रजितो राजा राज्यार्थी यत्नवानिति

40.85

तीव्रव्रतपरिक्लिष्टः संभोगाभिमुखादरः ।
लज्जां प्रव्रज्यया सार्धं त्यक्त्वा स पुनरेष्यति

40.86

राजन्नपक्कवैराग्यास्त्यजन्ति सहसैव यत् ।
तत् पूर्वाभ्यधिकं तेषां प्रयाति प्रियतां पुनः

40.87

लोकस्थितिविरुद्धेषु विषयेषु विशेषतः ।
स्पृहा संजायते जन्तोरपथ्येष्विव रोगिणः

40.88

सुखोत्सेकात्परित्यक्तं प्रहस्तमुपागतम् ।
प्रायः सर्वं भवत्येव जडस्याम्रमिव प्रियम्

40.89

तस्माद्भवन्तमुत्सार्य प्रतापनिधिमासनात् ।
क्षीणः शशीव स्थविरः स राज्यं भोक्तुमिच्छति

40.90

चीवरोद्विग्नगात्रस्य वरवस्त्राभिलाषिणः ।
जातास्य मुण्डिते मूर्ध्नि रत्नाङ्कमुकुटस्पृहा

40.91

रत्नहर्म्येषु नवतासंभोगविभवोद्भवम् ।
त्यक्त्वा विलासमायासं वनवासं सहेत कः

40.92

मृदुशयनसुखार्हा ये कथं शेरते ते
हरिणखरखुरोद्यत्कत्कण्टकासु स्थलीषु ।
मधु विधुकरशीतं यैर्निपीतं कथं ते
वनजगजमदोष्णं तिक्तमम्भः पिबन्ति

40.93

अधुनैव तवासन्नप्रवेशविषमस्थितेः ।
आद्यंमतं न्यायविदां राजपुत्र निपातनम्

40.94

तस्मादनागतो राजा पूर्वं वध्यस्तव प्रभो ।
दीपं हन्ति पतङ्गो हि न दग्धश्चेत्समापतन्

40.95

तयोरिति गिरा क्षिप्रमभूद् भूपतिराकूलः ।
खलमेघैः कलुषतां नीतं कस्य न मानसम्

40.96

स तौ बभाषे साशङ्कः क्रकचक्रूरतां गतः ।
बाधः साधारणश्चायं युवयोर्मम चाग्रतः

40.97

भवद्भ्यामेव विनयोपायविश्रान्तया धिया ।
विचार्य कार्यतात्पर्यं यद् युक्तं तद्विधीयताम्

40.98

इति राज्ञा कृतोत्साहौ तौ विसृज्याशु घातकान् ।
उद्रायणस्याग्रपथं वधायैव बबन्धतुः

40.99

सो ऽपिप्रज्ञापरित्राणे नियोक्तुं पुत्रमुद्यतः ।
भगवन्तं समभ्येत्य व्रजामीति व्यजिज्ञपत्

40.100

सर्वज्ञेनाभ्यनुज्ञातः स्वकृतं भुज्यतामिति ।
कर्मपाशसमाकृष्टः स ययौ रोरुकं पुरम्

40.101

तस्माद्व्रजन्तं निर्व्याजमाचारमिव दुर्जनाः ।
दुष्टामात्यप्रयुक्तास्ते जग्नुर्वर्त्मनि घातकाः

40.102

तस्य चाईवरपात्रादीन् गृहीत्वा निहतस्य ते ।
व्यदेवयन् कृतं प्रीत्यौ राजाकार्यममात्ययोः

40.103

ततः पापप्रहृष्टाभ्यां नृपस्ताभ्यां प्रदर्शितम् ।
दृष्ट्वा मुमोह सहसा रक्ताक्तं चीवरं पितुः

40.104

स लब्धसंज्ञः शनकैः शुशोच न तथा गुरुम् ।
यथा पतितमात्मानं घोरे नरकगह्वरे

40.105

सो ऽवदद्वत्स संप्राप्तं फलं खलजनान्मया ।
ऐश्वर्यमधुलुब्धेन पापपातमपश्यता

40.106

अहो बत निरालम्बे घोरे नरकसंकटे ।
उन्नतारोहिणां सद्यः पातकं खलसंगतम्

40.107

कृतमेतन्महत्पापं दुष्टामात्यधिया मया ।
पतितस्य ममेदानीं पावको ऽपि न पावकह्

40.108

तुल्यं पितुश्चार्हतस्य वधे का मम निष्कृतिः ।
पीतं यत्र मयैकस्मिन् पात्रे सदहनंविषम्

40.109

वृद्धे पितरि निःसङ्के शमं प्रव्रज्ययाश्रिते ।
स्वचित्त निशितं शस्त्रं लोभाद्व्यापारितं मया

40.110

यत्संचिन्तितमेव कम्पजनकं श्रोतुं नयत् शक्यते
दृष्टं यच्च करोति शोककलनां निश्चेतनानामपि ।
यत्र क्रैर्यमपि प्रयाति मृदुतां तीव्रानुतापाग्निना
तत्रापि प्रसरन्ति निर्घृणधियाम् निस्त्रिंशतीक्ष्णाः क्रियाः

40.111

इत्युक्त्वा दुःकह्संतप्तः प्रलापमुखराननः ।
न्यवारयत्तयोः कोपात्प्रवेशं दुष्टमन्त्रिणोः

40.112

गुणान्तरं परिज्ञाय भिरुकं हिरुकं च सः ।
आनिनाय प्रसाद्याशु पुराणौ सचिवौ पितुः

40.113

ततश्चिन्ताकृशे राज्ञि शोकात् पाण्डुरताम् गते ।
स्वैरं तज्जननीमेत्य दुष्टामात्याववोचताम्

40.114

देवि त्वतनयः श्रीमान् स्वभावसरलाशयः ।
राज्यरक्षां न जानाति स्वजनोच्छेदकर्कशाम्

40.115

पिता प्रव्रजितो ऽप्यस्य राज्यं हर्तुमुपागतः ।
आवाभ्यां प्रशमं नीतस्तत्र का नाम वाच्यता

40.116

नीचतन्त्रोपपन्नश्चेत् क्रमो ऽयमशुभक्रमः ।
राज्याभिलाषिणो भिक्षोस्तस्यापि स कथं क्रमः

40.117

आवां पितृवधक्रिधाद् वारितौ भूभुजा पदात् ।
स्वयमद्यापि शोकेन किं मिथ्या परिशुष्यते

40.118

सुकृतं कृतमावाभ्याम् प्रभोर्दुःखकृशाङ्गता ।
भवन्ति सर्वभावेषु भृज्या एवापराधिनः

40.119

गतं शोचति किं राजा यत्कृतं कृतमेव तत् ।
उपेक्ष्यते त्वया देवि कस्माच्चिन्ताकृशः सुतः

40.120

ताभ्यामित्युदितं श्रुत्वा सा राजजननी शनैः ।
ऊचे तरलिका नाम तद्वाक्यविहितादरा

40.121

आनन्तर्यमिदं कर्म द्वयोर्नरकपातकम् ।
युष्मन्मतादुपनतं राज्ञः पूर्वकृतेन वा

40.122

अहं तु वारयाम्यस्य शोकं पितृवधोद्भवम् ।
अर्हद्वधोद्भवं दुःखं भवद्भ्यामपि वार्यतां

40.123

इति तौ स्वैरमादिश्य सा गत्वा पार्थिवान्तिकम् ।
तमुवाच शुचाक्रान्तं परिक्षीणमिवोडुपम्

40.124

धर्माधर्ममयं पुत्र राज्यं राज्ञां बहुच्छलम् ।
पापानां शङ्कया तस्मिन् किं शुचा परिशुष्यसि

40.125

पितुर्वधात् प्रतप्तो ऽसि यदि नाम गुरुप्रियः ।
तत्रोच्यते समुत्सृज्य लज्जां त्वद्दुःखसंकटे

40.126

स्वैरं जातस्त्वमन्येन न स तद्धर्मतः पिता ।
स्वेच्छाहारसुखाः पुत्र स्त्रियो हि निरपत्र्पाः

40.127

इत्यप्रियमपि श्रुत्वा राजा तद्वचनं रहः ।
पितृवैशसपापोग्रदुःखसंतापमत्यजत्

40.128

प्रकुर्वन्त्यस्ताद्रेरुदयगिरिणा क्लेशकलनां
क्षणात् क्षोणीक्ष्माभृद्विघटनवोनोदं विदधति ।
सृजन्त्येता वह्निं सपदि सलिलात्तच्च दहनाद्
अशाध्यं नारीणां न हि भवति किंचित्र्त्रिभुवने

40.129

अथ सो ऽर्हद्वधेनैव शल्यतुल्येन पीडितः ।
नृपः पप्रच्छ धर्मज्ञान्निष्कृतिं तस्य कर्मणः

40.130

ततस्तौ दुष्टसचिवौ तिष्यपुष्याख्यचैत्ययोः ।
मार्जारपोतौ धृत्वान्तःसक्तावामिषशिक्षया

40.131

निषिद्धावपि धाष्टर्येन प्रविश्य नृपतेः सभाम् ।
तमूचतुस्तीव्रतापसंतापप्रशमार्थिनम्

40.132

देव मिथ्यैव भवता चित्तमायास्यते भृशम् ।
सर्वकल्याणा लोके ऽस्मिन् नार्हन्तः सन्ति ते मताः

40.133

यदि सत्यं भवेयुस्ते नभसो राजहंसवत् ।
ऋद्धिमन्तः कथं तेषामन्येन वधसंभवः

40.134

न सन्ति तस्मादर्हन्तः कुतस्तद्वधपातकम् ।
सीमाविवादः कस्तत्र् यत्र ग्रामो न विद्यते

40.135

तिष्यपुष्यौ गृहपती यावर्हत्पदमापतुः ।
मार्जारावन्तरे जातौ तावेवाद्य् अस्वचैत्ययोः

40.136

प्रकटौ तौ च दृश्येते प्रत्यक्षं कस्य संशयः ।
प्रत्ययो यदि नास्त्येव स्वयं किं न निरीक्ष्यते

40.137

इत्युक्त्वा भूपतेः कृत्वा खलौ दोलाकुलं मनः ।
जग्मतुः सहितौ तेन चैत्यसंदर्शनाय तौ

40.138

अपूर्वकौतुकावेशात् तत्र संघटिते जने ।
विलोकनोद्यते राज्ञो सामात्ये दुष्टमन्त्रिणौ

40.139

आमिषाभ्याससंबद्धतिष्यपुष्याभिधानयोः ।
धूर्तौ चक्रतुराह्वानं शनैर्बालबिडालयोः

40.140

तौ तिष्यपुष्यावर्हन्तौ मार्जारौ स्थो युवां यदि ।
प्रदक्षीणं वा क्रियतां तेन सत्येन चैत्ययोः

40.141

मांसदानक्षणे ताभ्यामिति वाचमुदीरितौ ।
तूर्णं निर्गत्य मार्जारौ चक्रतुस्तौ प्रदक्षिणम्

40.142

तद्दृष्ट्वा सहसावाप्तप्रत्यये सानुगे नृपे ।
याते दुर्जनमायैव जगज्जयमहीं ययौ

40.143

मुष्टौ वायुं दृषदि कमलं चित्रमाकाशदेशे
जिह्वाग्रे च प्रचुररचनासृष्टिसंहारलीलाः ।
किं वा नान्यत् पशुशिशुधियां मोहनायेन्द्रजालं
मूर्तं धुर्ताः क्षणपरिचितप्रत्ययं दर्शयन्ति

40.144

निष्प्रत्ययपरो राजा ततः सौगतदर्शने ।
आर्यकात्यायनस्याग्रे श्रद्धापूजामवारयत्

40.145

राजधान्यां निषिद्धो ऽथ बहिरेव ससानुगः ।
विनेयकृपया तत्र तस्थौ शैला च भिक्षुणी

40.146

ततः कदाचिदायान्तं दृष्ट्वा कात्यायनः पुरः ।
नृपतिं जनसंपातादवमानभयाद् ययौ

40.147

प्रेषितं पूर्वमन्त्रिभ्यां व्रजन्तमवलोक्य तम् ।
दुष्टामात्यौ नरपतिं दीर्घवैराववोचताम्

40.148

राजन्नमङ्गलनिधिर्मुण्डो ऽयं विशिरः पथि ।
दृष्टो ऽद्य भिक्षुरस्माभिर्न विद्मः किं भविष्यति

40.149

न पश्यामि मुखं राज्ञः पापस्येति भणत्यसौ ।
तथा हि क्षणमेकान्ते गत्वा दूरमितः स्थितः

40.150

श्रुत्वैतद्दुर्जनामर्षादुवाचानुचरान् नृपः ।
एष दूरस्थितः पांशुमुष्टिभिः पूर्यतामिति

40.151

पूर्यमाणः स तैः पांशुमुष्टिभिर्दुष्टचेटकैः ।
दिव्यां कुटीं प्रवेशेन परिहाराय निर्ममे

40.152

अमर्षकोपिताः सर्पाः व्याघ्रा वा पीतलोहिताः ।
शान्तेरायान्ति मृदुतां नत् उ भूपतिचेटकाः

40.153

ततः प्रयाते नृपतौ पांशुराशिशतावृतम् ।
दुःखादूचतुरभ्येत्य हिरुको भिरुकश्च तम्

40.154

आर्य कृच्छ्रमवाप्तो ऽसि राज्ञा क्रूरेण दुष्कृतैः ।
लोचनानि धिगस्माकं यैरिदं दृश्यते पुरेः

40.155

मोहान्धः पातकश्वभ्रे दुर्जनैः पातितो नृपः ।
कर्मणो वयमप्यस्य दर्शनात् पापभागिनः

40.156

भूरियम् भूरिपापार्ता त्याज्या प्राज्यमतेस्तव ।
दुःसहः खलसंवासः त्यागः कस्य न संमतः

40.157

प्रयाति न शमः शमं क्षयमुपैति नैव क्षमा
भवन्ति न च बुद्धयः परुषरोषदोषस्पृशः ।
वसन्ति न विमानना मनसि शल्यतुल्याः सतां
न दुष्टजनवर्जनादपरमास्ति लोके सुखम्

40.158

ऐश्वर्यं गुणिनामधोनिपतनायासप्रयासप्रदं
गाम्भीर्यं तिमिराकारं प्रविशतां प्राणापहं प्राणिनाम् ।
नष्टा सापि निकृष्ट्दुष्ट्कुटिलव्यालैरुपादेयता
कूपस्येव खलस्य नास्ति तदहो दोषालियुक्तं यतः

40.159

तयोरिति वचः श्रुत्वा महाकात्यायनो ऽवदत् ।
न निकारे ऽपि मे कोपः कर्मणो गतिरीदृशी

40.160

एतावदेव मे दुःखं यन्मूढस्य महीपतेः ।
खलसंगमदोषेण भयं महदुपस्थितम्

40.161

प्रथमे हि महावायुः पुरेअस्य निपतिष्यति ।
द्वितीये पुष्पवृष्टिश्च वस्त्रवृष्टिस्ततः परे

40.162

रूप्यवृष्टिश्चतुर्थे च हेमवृष्टिश्च पञ्चमे ।
रत्नवृष्टिस्ततः षष्ठे पांशुवृष्टिश्च सप्तमे

40.163

तया सबन्धुराष्ट्रो ऽसय् न भविष्यति भूपतिः ।
तस्माद् भवद्भ्यां गन्तव्यं रत्नान्यादाय भूयसे

40.164

इति तद्वचनं श्रुत्वा विनिश्चित्य तथेति तौ ।
हिरुकः श्यामकं पुत्रं तस्योपस्थापकं व्यधात्

40.165

भिरुकश्च सुतां श्यामावतीमादाय पाणिना ।
अभ्येत्य भिक्षुकीं शैलां प्रणयादिदमब्रवीत्

40.166

आर्ये भवत्या मे कन्या घोषिलस्य गृहप्रभोः ।
गृहे समर्पणीयेयमासन्नप्रतिपन्नया

40.167

एवमुक्त्वार्पयित्वा तावमात्यौ जग्मतुर्गृहम् ।
शैलापि कन्यामादाय प्रययौ घोषिलालयम्

40.168

ततः क्रमेण तदभूद्यथोक्तं भिक्षुणा पुरे ।
ज्ञानदीपवती प्रज्ञा यथातत्त्वं हि पश्यति

40.169

षष्ठे ऽह्नि रत्नवर्षे ऽथ पतिते रत्नपूरिताम् ।
ययतुर्नावमादाय तावमात्यावलक्षितौ

40.170

तौ दक्षिणां दिशं गत्वा चक्रतुर्नगरद्वयम् ।
हिरुको हिरुकाख्यानं भिरुकाख्यं तथापरः

40.171

परे ऽह्नि पांशुवर्षेणमहता पतता नृपः ।
सबन्धुराष्ट्रः प्रलय्ं प्रययौ नरकातिथिः

40.172

सदण्डिमुद्गरे राज्ञि याते किल्बिषशेषताम् ।
तं मन्त्रिपुत्रमादाय व्योम्ना कात्यायनो ययौ

40.173

तमेवानुगता प्रीत्या नभसा पुरदेवता ।
तदाज्ञया खवचनीकर्वटे विदधे स्थितिम्

40.174

भिक्षुपुण्यानुभावेन भाग्यैर्मन्त्रिसुतस्य च ।
अधिष्ठानेन देव्याश्च श्रीमत्तदबह्वत् पुरम्

40.175

तत्राथ देवता चक्रे चैत्यं कात्यायनस्य सा ।
सुरवत्यां यदद्यापि वन्दन्ते चैत्यवन्दकाः

40.176

मन्त्रिसूनुमथादाय लग्नं चीवरकर्णिके ।
लम्बनं स ययौ व्योम्ना देशं कात्यायनः परम्

40.177

लम्बते लम्बते को ऽयमित्युक्ते विस्मयाज्जनैः ।
बभूवुस्ते जनास्तत्र लम्बका इति विश्रुताः

40.178

अत्रान्तरे दिवं याते तत्रापुत्रे महीपतौ ।
स कृतः श्यामको राजा लक्षणज्ञिस्तदाज्ञया

40.179

गत्वा भोक्कानकं नाम दिशा कात्यायनस्ततः ।
जनन्यास्तत्र संशुद्धां विदस्धे धर्मदेशनाम्

40.180

सा दृष्टसत्या पुत्रस्य यष्टीमादाय सादरम् ।
वन्द्यमाद्यपि महती यष्टिचैत्यमकारयत्

40.181

श्रावस्तीमथ सोत्कण्ठः प्राप्य कात्यायनः शनैः ।
जिनं विलोक्य सानन्दश्चक्रे तत्पादवन्दनम्

40.182

उद्रायणसुतकथाम् तत्र तेन निवेदिताम् ।
आकर्ण्य भिक्षुभिः पृष्टः सर्वज्ञस्तानभाषत

40.183

लुब्धकह् कालपाशाख्यः कर्वटोपान्तकानने ।
सकूटां मृगबन्धाय निदधे वागुराम् पुरः

40.184

यन्त्रं पाशावृतं दत्वा याते तस्मिन् यदृश्छया ।
प्रत्येकबुद्धस्तं देशं प्राप्य विश्रान्तिमाप्तवान्

40.185

तस्य पुण्यानुभावेन बन्धं न विविशुर्मृगाः ।
न हि शुद्धात्मनामग्रे प्राप्नोत्यकुशलं जनह्

40.186

लुब्धको ऽपि ततो ऽभ्येत्य पाशानालोक्य निर्मृगान् ।
प्रत्येकबुद्धं क्रोधान्धो विषदिग्धेषुणावधीट्

40.187

तस्य सायकविद्धस्य ज्वलज्ज्वलनतेज्सः ।
प्रभावमद्भुतं दृष्ट्वा पादयोर्निपपात सः

40.188

अकार्यकरणोद्वेगसंतापादथ लुब्धकः ।
निनिन्द शोचन्नात्मानं संत्यज्य शरवागुराः

40.189

परिनिर्वाणमाप्तस्य तस्यास्थीनि निधाय सः ।
छत्रध्वजादिसंभारैः स्तूपं चक्रे सदार्चितम्

40.190

लुब्धकस्तेन पुण्येन बभूवोद्रायणो नृपः ।
वधात् प्रत्येकबुद्धस्य बहुशो वधमाप्तवान्

40.191

नन्दनाम्नो गृहपतेर्मदलेखाभिधा सुता ।
बभूव धनधन्यादिस्फूतिः कर्वटवासिनः

40.192

सा कदाचिन्मदोत्सिक्ताः गृहमार्जनरेणुभिः ।
प्रत्येकबुद्धमायान्तं पथि मोहादवाकिरत्

40.193

तस्मिन्नेव दिने तस्याश्चिरचिन्ताभिरर्थितः ।
वरः स्तनभरार्ताया वरणार्थी समाययौ

40.194

मूध्नि प्रत्येकबुद्धस्य पांशुमुष्टिउनिपातनात् ।
प्रत्यासन्नविवाहाहमिति भ्रातरमाह सा

40.195

ततस्तस्याह् प्रवादेन चिक्षिपुर्वरणाप्तये ।
मूर्ध्नि प्रत्येकबुद्धस्य रजांसि प्रौढकन्यकाः

40.196

गुणाकारप्रवृत्तेन प्रययेन विमोहिताः ।
निर्विचार्य प्रवर्तन्ते विरुद्धेष्वपि वस्तुषु

40.197

प्रवृत्तपातकाचारे तस्मिन् बुद्धबुधाभिधौ ।
निवारणं गृहपती कर्मणस्तस्य चक्रतुः

40.198

सैव कन्या नरपतिः शिखण्डी पापभागभूत् ।
प्रवादकर्ता तद्भ्राता भिक्षुः कत्यायनो ऽप्ययम्

40.199

जातौ गृहपती रूढदुष्टाचारनिवारणात् ।
पुरिपतापान्निर्मुक्तौ हिरुको भिरुकश्च तौ

40.200

इति भगवतः श्रुत्वा वाक्यं विचार्य च भिक्षवः
फलपरिणतिं ज्ञात्वा चित्राम् शुभाशुभकर्मणाम् ।
खलजनवचस्तुल्यं शत्रुं विचारसमं गुरुं
सुकृतसदृशं बन्धुं लोके न किंचन मेनिरे

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc