भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 39

39.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां क्षान्त्यवदानमष्टत्रिंशः पल्लवः ॥
39. कपिलावदानम् ।
अत्यन्तमुन्नतिमतां महतां विनाशदोषस्य दुर्जनसमागम एव हेतुः ।
कूलद्रुमाः किल फलप्रसवैः सहैव सद्यः पतन्ति जलसंगतिभिन्नमूलाः

39.2

रुचिरागारशालिन्याम् वैशाल्यां भगवान् पुरा ।
वल्गुमत्यास्तटे नद्या विचचार तथागतः

39.3

तस्याः कैवर्तसर्थेन गम्भीरे ऽम्भसि दुस्तरे ।
कदाचिद् घोरमकरः क्षिप्त्वा जालं समुद्धृतः

39.4

अष्टादशशिराः सिःसद्विरप्रखराननः ।
नृणां सहस्रैराकृष्टः पर्वताकारविग्रहः

39.5

तं दृष्ट्वा तत्र वित्रस्ताह् स्रस्ताकर्षणरज्जवः ।
आश्चर्यनिश्चलदृशो न तस्थुर्न ययुः क्षणम्

39.6

गणनां गहनाश्चर्यविशेषशतशालिनाम् ।
संसारे कर्मवैचित्र्ये विकाराणां करोति कः

39.7

अत्रान्तरे तमुद्देशं भगवान् भूतभावनः ।
जिनह् समाययौ सर्वजनत्राणकृतक्षणह्

39.8

सवृद्धबालललनं जनं कौतुकसंगतम् ।
दृष्ट्वा तत्राकरोत्तीरे भगवानासनग्रहम्

39.9

भिक्षुसंघैः परिवृतं दृष्ट्वा तत्र तथागतम् ।
जनो ऽभूदुन्मुखः सर्वः प्रत्यावृत्तः इवोदधिः

39.10

तं विलोक्यैव विनताः कैवर्ताः प्राणिबन्धनम् ।
विशालजालं सहसा संसारमिव तत्यजुः

39.11

मत्स्यकुम्भीनक्रादिसंसारं तद्गिराम्भसि ।
त्यक्त्वा ते विरताटोपा बभूवुः किल्बिषद्विषः

39.12

तैर्न्यस्तं भगवान् दृष्ट्वा महाकमरमग्रतः ।
तं जगाद सृजन् दन्तकान्त्यैव करुणानदीम्

39.13

अपि त्वं कपिलः पुत्र किं न् अस्मरसि दुष्कृतम् ।
वचोदुश्चरितस्यायं परिपाको ऽनुभूयते

39.14

साप्यकल्याणमित्रं ते जननी क्काद्य वर्तते ।
सर्वज्ञेनेत्यभिहितः स्मृत्वा जातिमुवाच सः

39.15

विभो भवामि कपिलः स्मरामि निजदुष्कृतम् ।
वचोदुश्चरितस्यायं परिपाको ऽनुभूयते

39.16

याता मे नरकं माता नरकादेशिनी पुरा ।
इत्युक्त्वा मकरस्तत्र रुरोद परुषस्वरम्

39.17

तं शोकसागरे मग्नं बभाषे भगवान् पुनः ।
अकाले किं करोम्यद्य तिर्यग्योनिगतस्य ते

39.18

अपुण्यप्रारम्भे रभसहसितोल्लासविहिते
प्रमत्तानां याते नरकपरिपाकप्रणयिताम् ।
अशान्तेः संतापं रुदितशरणानि प्रतिनिशं
भृशं क्लेशावेशैर्दिशति विषतुल्यैरनुशयः

39.19

क्षणं दुःखक्षयायैव मयि चित्तं प्रसादय ।
प्रसन्नमानसः काले यास्यसि त्रिदशालयम्

39.20

शृणु वत्स हितं चेदं विचार्य कुरु चेतसि ।
अनित्याः सर्वसंस्काराः शान्तिनिर्वाणमक्षयम्

39.21

इत्याज्ञयाः भगवतस्तस्मिन् याते प्रसन्नताम् ।
जनसंघः स सुचिरं बभूवाश्चर्यनिश्चलः

39.22

आर्यानन्दः प्रणयिना जनेनाभ्यर्थितस्ततः ।
तत्पूर्ववृत्तं पप्रच्छ भगवन्तं कृताञ्जलिः

39.23

स तेन पृष्टः प्रोवाच विमपज्ञानलोचनः ।
अस्याकुशलशीलस्य वृत्तान्तः श्रूयतामयम्

39.24

भद्रकाख्ये पुरा कल्पे वर्षायुतयुगायुषि ।
जने बभूव भगवान् काश्यपाख्यस्तथागतः

39.25

कृकिर्नाम महीपालः कल्पशाल इवार्थिनाम् ।
अभवत् समये तस्मिन् वाराणस्यां बहुप्रदः

39.26

कदाचिद्विबुधास्थाने सहस्राक्षमिवापरम् ।
आसीनं वादिसिंहाख्यस्तं विद्वानाययौ द्विजः

39.27

अविलम्बितसंप्राप्तदर्शनासनसत्कृतिः ।
स दत्ताशीर्नरपतिं शिष्यश्रेणिवृतो ऽभ्यधात्

39.28

स्वस्ति स्वस्तिमते बुधाधिपसभासीनाय तुभ्यं विभो
लुब्धाः सच्चरितामृते तव परं संदर्शने रागिणः ।
सद्वेषाः परभूपनाम्नि मुखरास्ते सुद्गुणोदीरणे
कस्मात्सर्वगुणाश्रयेण भवता दुषैर्वयं योजिताः

39.29

यद्याचका अपि निरन्तररत्नवर्षे नानार्थिसार्थपरिपूरकताम् प्रयान्ति ।
सर्वं भवानुपमपुण्यनिधे वदान्य निर्दैन्यदानविभवस्य विजृम्भितं ते

39.30

राजन् किंचित्परिचितगुणैः सेवया सद्गुरुभ्यः
प्राप्तो ऽस्माभिर्विबुधविजयी को ऽपि विद्यांशलेशः ।
अस्यां विद्वत्कमलभरसौम्यप्रभायां सभायां
तस्योत्कर्षं कतिपयपदं प्रत्ययं दर्शयामः

39.31

निजगुणगणने धीर्लज्जते सज्जनानां मुखरयति तथापि प्रौढवादाभिलाषः ।
इयति जगति राजन् क्षिप्रमान्विष्यताम् मे प्रतिवचनरुचिशेदस्ति कश्चिद्विपश्चित्

39.32

संदर्भगर्भगम्भीरमिति तस्योत्कटं वचः ।
श्रुत्वा क्षितिपतिः क्षिप्रं विलक्षः समचिन्तयत्

39.33

अप्राप्तप्रतिमल्लो ऽयं यदि यायान्मदोद्धतः ।
तदेष मम् अदेशस्य यशःखण्डनदिण्डिमः

39.34

गुणापमानकृद् यत्र मूर्खो भवति भूपतिः ।
न करोति जनस्तत्र विद्यार्जनपरिश्रमम्

39.35

विवेकविमलालोके धर्मारामे महीपतौ ।
लोके विद्याः प्रवर्तन्ते सदाचारक्रिया इव

39.36

तस्मादस्य प्रयत्नेन कर्तव्यो मदनिग्रह ।
विद्यादरिद्रता देशे दोष एव विशांपतेः

39.37

इति संचिन्त्य नृपतिर्विप्रं कर्वटवासिनम् ।
आनिनाय महामत्यैरन्विषय विदुषां गुरुम्

39.38

अभूभृत्सभामुपाध्याय प्रेत्य तं तर्ककर्कशम् ।
चकार वादिसिंहस्य दर्पकेसरकर्तनम्

39.39

तस्य तेन जितस्याशु विजिताशेषवादिनः ।
मौनसूत्रं समापेदे लज्जितेव सरस्वती

39.40

आरूढाः शुभ्रमहसं नक्षत्राणामिवोदयाः ।
उपर्युपरि दृश्यन्ते गुणोत्कर्षा मनीषिणाम्

39.41

वादिसिंहं विसृज्याथ दत्वा भूरि धनं नृपः ।
ददौ द्विजाय जयिने कर्वटं नगरोपमम्

39.42

लब्धराजगजाश्वो ऽथ चरुकेयूरकङ्कणः ।
उपाध्यायः स्वभवनं प्रविवेश सह श्रिया

39.43

भुजैर्जिता भूमिभुजां वणिजां सागरार्जिताः ।
विद्यावतां विराजन्ते गुणोत्कर्षर्जिताः श्रियः

39.44

कालेन श्रीमतस्तस्य पुत्रजन्मोत्सवो ऽभवत् ।
सुखे ऽपि सुखसंपत्तिर्लक्षणं पुण्यकर्मणाम्

39.45

कपिलो नाम स शिशुस्तेजःपिङ्गशिरोरुहः ।
वर्धमानमतिर्विद्वान् पितुरभ्यधिको ऽभवत्

39.46

कुले महति वैदुष्यं विभवोद्भवः ।
विभवे सत्सुतोत्कर्षः फलं सुकृतशाखिनः

39.47

कदाचिद्व्याधिसंयोगात्प्रत्यासन्नतनुक्षयः ।
विजने पुत्रमाहूय सो ऽवदत् पुत्रवत्सलः

39.48

बाल्ये गुणार्जनं पुत्र परलोकसुखार्जनम्

39.49

उत्तमर्ण इव प्राप्ते काले सुगणितावधौ ।
अधुना विवशः क्काहं क्क सा विद्या क्क तद्धनम्

39.50

गुणपुष्पे सुखफले बद्धमूले धनैर्जने ।
वने वज्र इवाकालकालः पततिः दुःसहः

39.51

क्षपयति सकलाभिर्जन्म विद्याकलाभिः क्षणिकसुखनिमित्तं संनिधत्ते च वित्तम् ।
पशुशिशुषु मनुष्यः प्रीयते मोहशिष्यः तनुविरहमूर्हूर्ते सर्वमन्यत् स चान्यः

39.52

इदं तु ते हितं वच्मि स्नेहमोहवशीकृतः ।
संसारसारशरणं वत्स वेत्सि बहुश्रुतः

39.53

सन्तः प्रणम्याः परुषण् न वाच्यं कार्यः प्रयत्नेन परोपकारः ।
पापावपाते सततं हि पुंसामेतानि पुण्यान्यवलम्बनानि

39.54

अलोभशोभाभरणा विभूतिरद्वेषसक्तिः स्वसुखेष्वमोहः ।
मूलत्रये ऽस्मिन् कुशलद्रुमस्य वसत्यशेषाखिलसत्फतश्रीः

39.55

यावत्तपति तीक्ष्णांशुरस्मिन् भुवनमण्डले ।
तावत्त्वत्सदृशः पुत्र विद्वान् वादी न विद्यते

39.56

भिक्षुभिस्तु न कर्तव्यस्त्वया वादः कदाचनह् ।
गम्भीरज्ञानदुर्बोधप्रबुद्धा बौद्धबुद्धयः

39.57

पुरा भिक्षुर्मया पृष्टः पदस्यार्थं जहास माम् ।
प्रश्नं कर्तुं न जानीषे विद्वानिति जगाद च

39.58

तस्माद् भिक्षुविवादस्ते परं पाण्डित्यपीडनम् ।
बलप्रभावकामो हि गिरिं मूर्ध्नां न ताडयेत्

39.59

इत्युक्त्वा तनयं विप्रः परलोकभुवं ययौ ।
कायावसथपान्थानां देहिनाम् न चिरस्थितिः

39.60

वाग्मी कालेन कपिलः खण्डिताखिलपण्डितः ।
नृपाद्बहुग्र्णं प्राप धनमानमहोदयम्

39.61

ततः कदाचिदेकान्ते कपिलं काचराभिधा ।
संप्राप्तं वादिसाम्राज्यं जगाद जननी शनैः

39.62

वादिदर्पच्छिदा पुत्र दिग्द्वीपजयिना त्वया ।
दुर्जनाः श्रमणाः कस्माद्दर्पान्धाः परिवर्जिताः

39.63

परोत्कर्षाधिरूढस्य प्रतिपक्षे क्षमारतेः ।
अक्षमो ऽयमिति व्यक्तं क्षणेन क्षीयते यशः

39.64

इति मातुर्वचः श्रुत्वा सो ऽवदद् बिदुषो वचः ।
न वादः श्रमणैः कार्यः पित्राहमिति वारितः

39.65

इयं दुर्जीविकास्माकम् पत्रालम्बनवादिनाम् ।
क्रियते गुणमान्यानां मानम्लानिर्मुखे यया

39.66

धिगेतच्चण्डपाण्डित्यं गुरुविद्वेषदुःसहम् ।
महतां सुखभङ्गाय सदा तस्मिन् समुद्यमः

39.67

यस्यां न मया सा बुद्धिः सा श्रीर्लोभं निहन्ति या ।
दर्पो न यस्य विद्या सा शक्तिर्या च क्षमावती

39.68

एवमेव न कर्तव्यः परैर्विद्वेषविग्रहः ।
किं मातर्जगताम् पूज्यभिक्षुभिः ख्यातलक्ष्मभिः

39.69

विजेतुं न च ते शक्याः प्रंआनपरिनिष्ठिताः ।
प्रतिपक्षैरविक्षिप्तं येषां नैरात्म्यशासनम्

39.70

इति पुत्रवचः श्रुत्वा कुपिता तमुवाच सा ।
अभूत्तव पिता नूनं पापश्रमणचेतकः

39.71

महति ब्राह्मणकुले जातः प्राज्ञो बहुश्रुतः ।
भिक्षपक्षे निपतितः कथं त्वमपि तादृशः

39.72

पृथुप्रमाणखङ्गेन कुरु श्रमणनिग्रहम् ।
अविदार्याभ्रसंघातं तीर्क्ष्णांशुर्न विराजते

39.73

इत् स प्रेरितो मातुर्गिरा तद्भक्तियन्त्रितः ।
भिक्षूणामाश्रमपदं शनैर्गन्तुं समुद्ययौ

39.74

व्रजन् स संमुखायातं भिक्षुं जिज्ञासया पथि ।
ग्रन्थसारं प्रमाणं च पप्रच्छ समयोचितम्

39.75

स तेन पृष्टः प्रोवाच गाढशब्दार्थनिर्णयम् ।
लक्षत्रयप्रमाणं न शस्त्रं तीर्थिकदुर्लभम्

39.76

कुतः पारे ऽतिवर्तन्ते क्क च वर्त्मातिवर्तते ।
सुखदुःखे च लोकस्य क्कचित् समभिबन्धतः

39.77

इति गम्भीरशब्दार्थं शास्तुर्भगवतो वचः ।
अनुपासितसर्वज्ञैर्ज्ञायते न यथा तथा

39.78

एतदाकर्ण्य कपिलः श्लोकगाम्भीर्यविस्मितः ।
ययौ भगवतः पुण्यं काश्यपस्य तपोवनम्

39.79

तथा भिक्षुगणं दृष्ट्वा प्रसन्नहृदयाननः ।
अचिन्तयत् तदश्रद्धां विहाय गतमत्सरः

39.80

एतेषां द्वेषकालुष्यात् क्रौर्यं कः कर्तुमर्हति ।
येषां संदर्शनेनैव वैमल्यं लभते मनः

39.81

इति संचिन्त्य स चिरं तद्विवादपराङ्मुखः ।
दूराध्वखिन्नः स्वगृहं गत्वा प्रोवाच मातरम्

39.82

मिथ्यैवाहं त्वया मातः प्रेरितः कलिकर्मणि ।
अजयाः श्रमणा लोके गूढार्थग्रन्थवादिनः

39.83

श्लोकमात्रं मया श्रुत्वा भिक्षोरेकस्य वर्त्मनि ।
अज्ञातार्थेन वैलक्ष्यात् सुचिरं वीक्षितां क्षितिः

39.84

तद्ग्रन्थेष्वकॄताभ्यासस्तान् वक्तुं कह् प्रगल्भते ।
कथयन्ति स्वशस्त्रं ते न हि प्रव्रजितादृते

39.85

इति तेनोदितं श्रुत्वा जननी तमभाषत ।
आयासिताहं भवता गर्भभारेण केवलम्

39.86

संघर्षमर्षशून्येन दैन्यात् सर्वप्रणामिना ।
धर्षणानिर्विमर्षेण क्रियते पुरुषेण किम्

39.87

लोके सकलरत्नानां तेजसैव महार्घता ।
को ह्यर्थः पुरुषप्राणैस्तेजोजीवनवर्जितैः

39.88

मिथ्या तद्ग्रन्थलाब्ःआय प्रव्रज्या गृह्यते न किम् ।
मूर्ध्नि कृत्तेषु जायन्ते किं केशेषु कुशः पुनः

39.89

इति मातुर्गिरा तस्य मनः कलुषतां ययौ ।
सहसा कालवातालीरजोरुद्धमिवाम्बरम्

39.90

ततः स कूटप्रशमप्रणयी भिक्षुकाननम् ।
गत्वा गृहीत्वा प्रव्रज्यां शास्त्रं सौगतमाप्तवान्

39.91

कालेन धर्मकथकः स विद्वान् गुणगौरवात् ।
सिंहासनं समारुह्य विदधे धर्मदेशनाम्

39.92

जनन्या प्रेरितस्तस्यां देशनायां क्रमेण सः ।
भिक्षुधर्मविरुद्धार्थं अव्क्तुं समुपचक्रमे

39.93

धर्मप्रहारव्यथितैर्भिक्षुभिः स पदे पदे ।
निवार्यमाणस्तानूचे कृत्वा विकृतमाननम्

39.94

अज्ञात्वा दर्पमुखरैरयथा बहुवादिभिः ।
भवद्भिः स्थूलदन्तोष्ठैर्व्याख्या मम विसूदिता

39.95

यूयं गर्दभमर्कटोष्ट्रवदना द्वीप्यास्यपश्वानना
मार्जारैणवराहकुक्कुरमुखा दुर्दर्शवक्र्क्रः परम् ।
सह्या मौनजुषो ऽपि नैव विकटाटोपं रटन्तः किमु
भ्रूभङ्गैरिति भिक्षुसंघमसकृन्निर्भर्त्सयन् सो ऽभ्यधात्

39.96

तस्य वाक्यशरैस्तीक्ष्णैर्विकृत्ता इव भिक्षवः ।
अनुक्त्वैव प्रतिवचस्त्यक्त्वा तं ययुरन्यतः

39.97

तेन वाक्पातकेनाथ पश्चात्तापमुपागतः ।
तत्याज जननीमेव प्रव्रज्याम् न तु तां द्विजः

39.98

श्रमणैर्मे हृतः पुत्र इति सा विप्रलापिनी ।
उन्मादिनी तनुं त्यक्त्वा प्रपेदे नरकस्थितिम्

39.99

ततः कालेन कपिलः स्वयं कलितकिल्बिषः ।
देहान्ते वाक्यपारुष्यादिमां मकरतां गतः

39.100

तान्येतानि मुखान्यस्य यान्यूचे भिक्षुभर्त्सने ।
फलं सदृशरूपं हि कर्मबीजात् प्रजायते

39.101

इत्युक्त्वा तत्र भगवान् धर्ममादिश्य शाश्वतम् ।
जनस्यानुग्रहं चक्रे नानाबोधिविधायकम्

39.102

ततः प्रयाते स्वपदं जिने तन्मयमानसः ।
कमरः प्रोज्झिताहारस्त्यक्त्वा देहं दिवं ययौ

39.103

चातुर्महाराजिकेषु देवेषु विशदद्युतिः ।
श्रीमान् स जातः सुगते क्षणं चित्तप्रसादनात्

39.104

ततः पूर्णेन्दुवदनः स्रग्वी रुचिरकुण्डलह् ।
स साकार इवानन्दः सुगतं द्रष्टुमाययौ

39.105

प्रकीर्णदिव्यकुसुमः किरीटस्पृष्टभूतलः ।
प्रभापूरितदिक्चक्रस्तं भक्त्या प्रणनाम सः

39.106

चक्रे तस्योपविष्टस्य भगवान् धर्मदेशनाम् ।
यया स्रोतःफलं प्राप्य सत्यदर्शी जगाम सः

39.107

तृणमिव गुरुकायो ऽप्युद्धृतः पापपङ्काद्
इति स जननिकायः सो ऽपि दुःखाज्जिनेन ।
व्यसननिपतितानां लीलया पुण्यशीला
निखिलमतुलमूलं क्लेशमुन्मूलयन्ति

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc