अवदानकल्पलता · अध्याय 3
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां श्रीसेनावदानं नाम द्वितीयः पल्लवः ॥
3. मणिचूडावदानम् ।
अस्मिन्नद्भुतसर्गे मकराकरजायमानमणीवर्ते ।
को ऽपि प्रकटितसुगतिः पुरुषमणिर्जायते (भव्यः)
अस्ति सौभिप्रभापूरकर्पूरपरिपाण्डुरम् ।
साकेतं नाम नगरं सौभाग्यतिलकं भुवः
सेव्यैः प्रभासत्त्वमयैर्गङ्गाविमलमानसैः ।
तीर्थैरिव स्थितं यत्र पवित्रः पुण्यकर्तृभिः
यशःकुसुमिते यत्र पुण्यसौरभनिर्भरे ।
रमन्ते सुकृतोद्याने नन्दने पुरवासिनः
तत्राभूद् भूपतिर्भुरिगुणरत्नमहोदधिः ।
भीतुर्यशःशशाङस्य मेहचूड इति श्रुतः
सदा सदाश्रयार्हेण कलिकालापहारिणा ।
कृतः कृतयुगेनेव येन धर्मधरो जनः
महीपतिः क्षमाशक्तः श्रीवृतः करुणारतः ।
वल्लभो ऽभूत् प्रजानां यः प्रख्यातो विजितेन्द्रियः
अमरासवसंपूर्णमहिंसासत्रदीक्षितः ।
ददौ यः सर्वभूतानां पुण्यामभयदक्षिणम्
निर्मदो यः प्रभावे ऽपि विभवे ऽपि प्रियंवदः ।
क्षमाशीलः प्रभुत्वे ऽपि यौवने ऽपि जितेन्द्रियः
गम्भीरेणोन्नतिमता शूरेण शशिकान्तिना ।
सत्पक्षेण क्षितिभृता येनातन्यत विस्मयः
राज्ञस्तस्याद्वितीयस्य बभूवाभरणद्वयम् ।
त्यागपूर्णं च कारुण्यं तारूण्यं सुकृतश्रियः
पद्माकरस्य तस्याभूद्देवी कान्तिमती प्रिया ।
प्रभातश्रीरिव सदा निर्दोषाभ्युदयोत्सवा
नीतिः प्रभुगुणेवेन त्यागेन श्रीरिवोज्ज्वला ।
रराज राजचन्द्रेण सा शीलेनेव चारुता
सदानन्दनविख्यातयशःप्रसरया तया ।
मेरूस्त्रिदिवलक्ष्म्येव बभौ भूमिभृतां वरः
काले कल्याणनिलयं भर्तुः सा गर्भमादधे ।
भूत्यै भुवनपद्मस्य दिवाकरमिवादितिः
अरणिः पावकेनेव वेलेवाब्धेः सुधांशुना ।
ब्रह्माब्जेनेव गोविन्दनाभिर्गर्भेण सा बभौ
तस्या गर्भानुभावेन दोहदाभिमतं नृपः ।
ददौ सर्वार्थिसार्थेभ्यो वाञ्छिताभ्यधिकं वसु
पुनर्भूमिभुजा पृष्टा दोहदं शुभगर्भिणी ।
सरस्वतीव सा चक्रे स्वयं सद्धर्मदेशनाम्
पूर्णपुण्यमणिर्धर्मनिधिर्विधिसमुद्धृतः ।
वुपद्विपुलदुःखेभ्यः सदा रक्षति रक्षितः
कान्तारदुर्गेषु परिच्युतानां तापातुराणां परलोकमार्गे ।
स्निग्धः प्रवृद्धः फलपूरिताशः छायातरुर्धर्मसमो ऽस्ति नान्यः
आलोकस्तिमिरे विपद्विषमणिः पाते करालम्बनं
याच्ञाकल्पतरुर्जगज्जयरथः पाथेयमन्थे पथि ।
दुःखव्याधिमहौषधं भवभयोद्भान्ताशयाश्वासनं
तापे चन्दनकाननं स्थिरसुहृद्धर्मः सतां बान्धवः
इत्यादि धर्मधवलं श्रुत्वा नृपवधूवचः ।
धर्मैकशरणः श्रीमान् बभूव भुवने जनः
ततः कालेन संपूर्णं द्यौरिवामृतदीधितिम् ।
असूत दारकं देवी जगत्तिमिरदारकम्
अजायतास्य सहजश्चूडालंकरणं मणिः ।
प्राग्जन्मान्तरसंसक्तो विवेक इव निर्मलः
स बभौ सुभगस्तस्य मूर्ध्नि पुण्यमयो मणिः ।
यस्य प्रभाप्रभावेण यामिन्यो दिनताम् ययुः
सोष्णीषस्य मणेस्तस्य पीयूषस्यन्दिबिन्दिवः ।
नयन्ति हेमताम् लोहं दुरितं शमयन्ति च
शिशोर्जातिस्मरस्याथ वचसा तस्य भूपतिः ।
ददौ हेम सदार्थिभ्यः सर्वं मणिरसोद्भवम्
पुष्परत्नध्वजच्छत्रपताकाव्यजनांशुकैः ।
अपूरयन् पुरं व्योन्मस्तस्य जन्मनि देवताः
सुप्रकाशोदिताशेषविद्याविद्योतितात्मनः ।
मणिचूड इति ख्यातं नाम तस्याकरोन्नृपः
स चकाराशयं हर्षपीयूषोच्छलितं पितुः ।
अभिजातः सुतो जातः पारिजात इवोदधेः
पौलोमीव जयन्तेण जननी पूज्यजन्मना ।
बभौ तेन कुमारेण कुमारेणेव पार्वती
ततः कालेन सुकृतसोपानैः पृथिवीपतौ ।
दिव्यधामसमारूढे मणिचूडो ऽभवन्नृपः
अर्थिचिन्तामणेस्तस्य दानेन परिपूरिते ।
लोके पुण्यसुखालोके नार्तो ऽभून्न च याचकः
तस्य भद्रगिरिर्नाम बभूवं गजपुंगवः ।
प्रभोरिवानुकारेण दानार्द्रकरपुष्करः
तं कदाचिन्महास्थानस्थितं भुवननायकम् ।
भवभूतिः समभ्यायाद्भृगुवंशभवो मुनिः
दिव्यकान्यां समादाय लावण्यललिताननाम् ।
मूर्तामिव प्रभालक्ष्मीमक्षीणस्य क्षपापतेः
कुचयोरविवेकेन रागेण चरणाब्जयोः ।
नेत्रयोश्चापलेनेव सा जगत्यतिलज्जिता
तपःश्रियेव सहितं तं कन्यानुगतं मुनिम् ।
अओऊजयत् प्रजानाथः कृतासनपरिग्रहम्
कन्यापि नृपमालोक्य धीरं गम्भीरसुन्दरम् ।
परपीडासु कारुण्यान्न्यस्तचापमिव स्मरम्
चूडारत्नस्य कीरणैर्दुरितक्षयकारिभिः ।
लिखन्तं कुङ्कुमेनेव दिक्षु रक्षाक्षरावलिम्
विक्षेपक्षिप्तमरुता चामरेण विराजितम् ।
सोच्छासेनेव सत्त्वेन जगत्संतारणं विना
रत्नोदारेण हारेण हृदयग्रहकारिणा ।
पातालविपदां शान्त्यै शैषेणेव निषेवितम्
वहन्तं महता दोष्णा क्षमां चित्तेन च क्षमाम् ।
प्रययौ साभिलाषस्य विस्मयस्य विधेयताम्
गृहीत्वा मुनिरुत्सङ्गे कुरङ्गतरलेक्षणाम् ।
जीवनीं तामनङ्गस्य जगाद् जगतीपतिम्
उदितेन जगन्नेत्रशतपत्रविकाशिना ।
भवता भाति लोको ऽयं देवेन च विवस्वता
अहो नु तव नास्त्येव विभूतिसुलभोद्भवः ।
साधोरिव गुणद्वेषः संमोहोपचितो मदः
लोकनाथस्य ते लोककारुण्यपूर्णचेतसः ।
राजन् मैत्रीजुषा कीर्तिः स्थिरा पारमिता परम्
अखेदसरलो दाता निर्व्याजसुकृतो भवान् ।
अत एव विशेषेण माननीयो मनीषिणाम्
पद्मोदरसमुद्भूता कन्या कमललोचना ।
होमावशेषपयसा वर्धितेयं मयाश्रमे
गृह्यतामग्रमहिषी पत्नीत्वे भवता नृप ।
विष्णोः श्रीरिव योग्येयं तवैव पुरुषोत्तम
यज्ञपुण्यफलं पूर्णं कालेन मम दास्यसि ।
इत्युक्त्वा विधिना राज्ञे कन्यां दत्वा ययौ मुनिः
प्रियां पद्मावतीं राजा रतिं प्राप्येव मन्मथः ।
अरंस्त रुचिरोद्याने सुकृते पुण्यवानिव
ततः कालेन सा पुत्रं वंशवल्लिव मौक्तिकम् ।
असूत पद्मचूडाख्यं गुणानां दर्पणं पितुः
शक्रादिभिर्लोकपालैरनुल्लङ्घ्यमहोदयः ।
संस्तूयमानचरितः स्वयं कमलजन्मना
यशःसौरभसंभारसंपूरितदिगन्तरः ।
सर्वार्थिसार्थकल्याणकलनाकल्पपादपः
स्मृत्वा मुनेर्वचः काले कर्तुं विपुलदक्षिणाम् ।
अहिंसावसुसंपूर्णामाजहार महीपतिः
तस्मिन् यज्ञे समाजग्मुः सर्वकामैरनर्गले ।
मुनयो भार्गवमुखा नृपा दुष्प्रसहादयः
वर्तमाने मखे तस्मिन् निःसंख्यवसुवर्षिणि ।
रक्षोरूपः समुत्तस्थौ वह्निमध्यात् सुरेश्वरः
उपसृत्य स भूपालं कृशो विकृतविग्रहः ।
क्षुप्तिपासार्दितो ऽस्मीति ययाचे पानभोजनम्
शासनादथ भूभर्तुस्तस्मै विविधभोजनम् ।
उपनिन्युः परिचिताः पानं च परिचारकाः
ततः किंचिद्विहस्यैव क्षितिपं प्राह राक्षसः ।
नेदमस्मत्प्रियं राजन् वयं हि पिशिताशनाः
सद्योहतस्य मांसेन रुधिरेण च भूयसा ।
तृप्तिरुत्पद्यते ऽस्माकं दीयतां यदभीप्सितम्
सर्वकामप्रदो ऽसीति त्वमहं समुपागतः ।
ददामीति प्रतिश्रुत्य न निषेधस्तवोचितः
इति रक्षवचः श्रुत्वा करुणकुलितो नृपः ।
अहिंसानियमेनाभूदर्थिवैमुख्यदुःखितः
सो ऽचिन्तयत्तदा दैवाज्जातो ऽयं धर्मसंशयः ।
न सहे दुःसहां हिंसां नं नैष्फल्यमर्थिनः
न च मांसं शरीरेभ्यो लभ्यते वैशसं विना ।
नाहं पिपीलकस्यापि कायक्लेशलवं सहे
दत्वाहं सर्वभूतेभ्यः पुण्यामभयदक्षिणम् ।
कथमस्मै प्रयच्छामि मांसं प्राणिवधोद्भवम्
इति संचित्य नॄपतिस्तमूचे करुणाकुलः ।
स्वशरीरसमुत्कृत्तमसृङ्भांसं ददामि ते
इत्युक्ते भूमिपतिना बभूवाकुलितं जगत् ।
न च देहव्ययोत्साहं सचिवास्तसय सेहिरे
प्रणयाद्वार्यमाणो ऽपि भूपालैर्मुनिभिस्तथा ।
ददौ स्वदेहमुत्कृत्य तस्मै मांसमसृग्वसाम्
आकण्ठं पीतरक्तेन राक्षसेन क्षितिप्रभोः ।
भक्ष्यमाणेषु मांसेषु क्ष्ःअणं ख्षितिरकम्पतः
ततः पद्मावती देवी पतिं दृष्ट्वा तथागतम् ।
विलपन्ती निपतिता मोहमूर्च्छाकुलाभवत्
मनुजेन्द्रस्य देवेन्द्रस्तद्दृष्ट्वा सत्त्वमूर्जितम् ।
रक्षोरूपं परित्यज्य तमुवाच कृताञ्जलिः
अहो नु कर्मणा राजन् दुष्करेण तवामुना ।
रोमाञ्चकञ्चुकाकीर्णः कायः कस्य न जायते
अहो पुण्यमसामान्यमहो सत्त्वमनुत्तरम् ।
अहो धरियममर्यादं राजान् विरजसस्तव
दुःखिताः परदुःखेषु निर्लोभा दुर्लभेषु च ।
विपक्षेषु क्षमावन्तः सन्तः सुकृतसेतवः
समुन्मिषति को ऽप्येष सत्त्वोत्साहो महात्मनाम् ।
त्रैलोक्यं करुणार्द्राणां येन यात्यनुकम्प्यताम्
उक्त्वेति दिव्यौषधिभिस्तं कृत्वा स्वस्थविग्रहम् ।
प्रसाद्य लज्जावनतः शक्रः स्वनिलयं ययौ
ततः समाप्ते विधिवद्यज्ञे राज्ञां महीपतिः ।
चक्रे मुनिवराणां च पूजां त्रिदशपूजितः
स रत्नवर्षैर्यज्ञान्ते कन्याग्रामपुरप्रदः ।
सहितं त्रिदशार्हेण हरिणा हेममालिना
ददरु राजगजं ब्रह्मरथाख्याय पुरोधसे ।
योजनानां शतं तूर्णं एकेनाह्ना प्रयाति यः
तस्मै समर्पितं दृष्ट्वा राज्ञा ब्न्हद्रगिरिं गजम् ।
अभूद्दुष्प्रसहो राजा तत्स्पृहाकृष्टमानसः
प्रयातेष्वथ भूपेषु विस्मितेषु मखश्रिया ।
समर्पिते यज्ञफले भार्गवाय महीभुजा
तमुवाच समभ्येत्य स्वस्तिवादपुरःसरम् ।
मरीचिशिष्यो वाहीकः प्राप्तपूजासनो मुनोः
राजन्नध्ययनस्यान्ते गुरुर्मे गुरुदक्षिणाम् ।
ईहते परिचर्यार्थी सामान्यजनदुर्लभाम्
एकस्त्वमेव विधिना निर्मितो दुर्लभप्रदः ।
बहवो जातु जायन्ते न लोके कल्पपादपाः
देवी पद्मावती पुत्रसहिता गुरवे मम ।
तपःकृशाय वृद्धाय दीयताम् परिचारिका
इत्युक्ते मुनिना राजा दयिताविप्रयोगजाम् ।
रुजं संस्तभ्य मनस तमूचे धैर्यभूधरः
प्रयच्छामि मुने तुभ्यमीप्सीताम् गुरुदक्षिणाम् ।
सहितां युवजारेन जीविताभ्यधिकां प्रियाम्
इत्युक्त्वा ससुतां तस्मै ददौ पद्मावतीं नृपः ।
स्वजीविते विनिस्नेहस्त्यागः सत्त्वमयात्मनाम्
आदाय राजदयितां विरहक्लेशकातराम् ।
सपुत्रामाश्रमं गत्वा प्रददौ गुरवे मुनिः
अत्रान्तरे दुष्प्रसहः कुरुराजः क्षितीश्वरम् ।
दृप्तो ययाचे दूतेन भूत्यै भद्रगिरिं गजम्
पुरोहितार्पितं राजा न ददौ द् विरदं यदा ।
तदा विपुलसौन्येन स्वयं योद्धुं समाययौ
बलिना कुरुराजेन रुद्धेषु पुरवत्मसु ।
बभूव भूमिपालस्य सैन्यं रणरसोद्भटम्
स वीरकुञ्जरहरिः शक्तो ऽप्यरिविदारणे ।
जनक्षयभयोद्विग्नः कारुण्यात् समचिन्तयत्
अहो ऽनुकूलमित्रम् मे राजा दुष्प्रसहः परम् ।
मातङ्गलोभमोहेन सहसा शत्रुतां गतः
स्नेहान्ताः सुजनैः स्नेहा निःस्नेहान्ताश्च मध्यमैः ।
दुर्जनैर्घोरवैरान्ता भवन्ति प्राणहारिणः
अहो बिभवलिभेन क्षणक्षयिणि जीविते ।
समुद्यमो ऽयमस्माकं परप्राणनिपातने
हिंसयापप्रशान्तानाम् सक्तानां कलिकर्मसु ।
रणरक्ताभिषिक्तानां भक्तार्थो ऽयं समुद्यमः
सेवाविक्रीतजीवानां चण्डपिण्डार्थिनामयम् ।
कलहो दुःसहः क्रुर्यपिशुनानां शुनामिव
अहो विभवलुब्धानाम् परसंतापशीतलाः ।
स्वसुखायैव धावन्ति नृशंसचरिता धियः
ये युधि सिद्धिसंनद्धा रक्तान्ताम् भुञ्जते श्रियम् ।
कुतः क्रुरतरे तेषां हृदये करुणाकणः
एष दुष्प्रहसो राजा लुब्धो विबह्वमोहितः ।
न वध्यः सापराधो ऽपि कारुण्यायतनं मम
इति चिन्तयतस्तस्य कारुण्यात काननैषिणः ।
प्रत्येकबुद्धाश्चत्वारः स्वयं व्योम्ना समाययुः
प्रातपूजासनाः श्रुत्वा सर्वज्ञास्तत्समीहितम् ।
राज्ञः प्रशमशीलस्य प्रसन्नास्तत्त्वमूचिरे
संमोहपटलान्धेषु संसारिषु दयालुता ।
शोभते तव भूपाल सत्त्वलोकविवेकिनः
क्रियतामीप्सितं राजन् बोधौ बुद्धिर्निधीयताम् ।
संप्रति प्रतिरोधे ऽस्मिन् वनमेव विगाह्यताम्
स्वैरनिर्ज्नरज्नङ्कारकीर्णसंतोषशीकराः ।
विविक्तकाननोद्देशाः शमिनामेव वल्लभाः
इत्युक्त्वानुग्रहधिया विधायास्य वियद्गतिम् ।
प्रभाप्रसाधितदिशस्ते तेन सहिता ययुः
यातेषु स्वपदं तेषु हिमवत्तटकाननम् ।
संप्राप्य पृथिवीपालः प्रयतप्रशमो ऽभवत्
विवेकविमलास्तस्य धियः सत्त्ववतामिव ।
बभुः प्रियनिवुः पूर्णनिर्वाण्यो (?)वनभूमयः
भूधरान्तरिते तस्मिन् सहसा भूपभास्वति ।
शुशुचुर्मोहतिमिरप्राप्तशोकप्रजाः प्रजाः
ततस्तत्सचिवा जग्मुर्मरीचं मुनिमाश्रमे ।
शक्तं राज्यस्य रक्षायै राजपुत्रैं ययाचिरे
मुनिना निर्विकारेण दत्तमादाय मन्त्रिणः ।
राजसूनुं स्वनगरे चक्रुः सैन्यसमुद्यमम्
मुनिना निर्विकारेक दत्तमादाय मन्त्रिणः ।
सुभटाग्रेसरह् प्राप कुरुराजं रणाजिरे
स तेन हतविध्वस्तभग्नस्यन्द्नकुञ्जरह् ।
पलायनपरित्राणः प्रययौः हस्तिनापुरम्
बलिना राजपुत्रेण जिते दुष्प्रसहे युधि ।
मन्त्रिभिस्तद्भुजन्यस्ता भूमिः शेषधृतिं ययौ
राज्ञो दुष्प्रसहस्याथ कालेन कलुषात्मनह् ।
बभूवावृष्टिदुर्भिक्षमरकोपल्पवः पुरे
स विचिन्त्यानुतापार्तस्तीब्रां जनपदापदम् ।
न विवेद परित्राणं विफलस्वस्तिकक्रियः
पृष्ठा विपत्प्रतीकारं तेनामात्यास्तमूचिरे ।
दुःसहो ऽयं महाराज प्रजानां व्यसनोद्भवः
मणिचूडस्य भूभर्तुर्यदि चूडामणिः प्रभो ।
लभ्यते स सुधास्यन्दी तेनेयं तीर्यते विपत्
चारेभ्यः श्रुतमस्माभिः स राजा हिमवत्तटे ।
स्थितः संसारवैमुख्यविवेकविमलाशयः
अर्थितः स ददात्येव विश्वचिन्तामणिर्मणिम् ।
पुत्रदारशरीरादि नादेयं तस्य किंचन
इति मन्त्रिवचः श्रुत्वा तथेत्याधार्य चेतसि ।
स द्विजान् मणियाच्ञायौ विससर्ज तदन्तिकम्
अस्मिन्नवसरे राजा मणिचूषश्चरन् वने ।
मरीचेराश्रमोपान्तमवाप विपुलं मुनेः
देवी पद्मावती तत्र फलमूलधृतव्रता ।
व्रजन्ती विजने भीता विपुने मुनिशासनात्
शबरैर्मृगयायातैर्दृष्ट्वा कष्टदशां श्रिता ।
जुघृक्षुभिः कम्पमान् आचुक्रोश करुणस्वरम्
आकर्ण्य करुणाक्रन्दे कुररूईकूजितोपमम् ।
हा राजन् मणिचूडेति त्रायस्वेति सुदुःसहम्
सहसाभिद्रुतः कान्ताम् ददर्श नृपतिर्निजाम् ।
राहुसंत्रासितस्येन्दोर्द्युतिं निपतितामिव
वीतरागाङ्गवसनां निरञ्जनपरिग्रहाम् ।
वदन्तीमिव संभोगसंयोगानामनित्यताम्
तां राजहंससुगताम् विहारस्तनमण्डलाम् ।
अश्रुकाषायनयनां विलोक्य करुणावनीम्
संसारचरिताश्चर्यविचारेष्वपि कर्कशम् ।
कृपाकृपाणीनिर्लूनमिवासीर्भूपतेर्मनः
एकाकीनं वने देवी विगतच्छत्रचामरम् ।
दृष्ट्वा नाथमनाथैव लोकनाथं तथागतम्
तद्वियोगविषाक्रान्ता तद्दर्शनरसाकुला ।
शोकहर्षसमाकीर्णा बभूव भृशविह्वला
सा नीता शबरा राज्ञा शापभीताः प्रदुर्द्रुवुः ।
न नामाभ्युदये भानोर्दृष्टं सप्रतिभं तमह्
अत्रान्तरे शमद्वेषी सर् वभूताशयाशयः ।
मारः पुरुषरूपेण समेत्य नॄपमब्रवीत्
राजन् राजीवनयनां प्रियां प्रणयिणीमिमाम् ।
न त्यक्रुमर्हस्यजने वने वनजलोचन
इयं हि ते मनोवृत्तिरिव निःसुखतां गता ।
वर्जिता राज्यभोगेन राजराज न राजते
एतदार्कर्ण्य नृपतिस्तं विज्ञाय मनोभवम् ।
अन्तरायं विवेकस्य प्रत्यभाषत सस्मितः
जानामि त्वामहं काममकामं शमसंयमे ।
संतोषवताम् को नाम भवता न विमोहितः
इतिवादिनि भूपाले सहसान्तरिते स्मरे ।
बभूव विक्लवा देवी तप्ता विरहवह्निना
दुःखितां तामार्तदुःखां पतिभोगवियोगिनीम् ।
उवाचाश्वासयन् राजा जायां जितमनोभवः
देवि धर्मक्रियायुक्ता न शोकं कर्तुमर्हसि ।
दुःखावसानी विरसः सर्वो ऽयं भोगचिभ्रमः
देहिनां यदितासङ्गास्तरङ्गतरलायुषाम् ।
लोलपद्मपलाशाग्रस्खलज्जललवाकुलाः
इमा मुहूर्तनर्तक्यः कालमेघतडिल्लताः ।
संसारसर्परसना विलासचपलाः श्रियाः
भोगक्षणेनैव वियोगरोगो विभूतयः स्वप्नविवाहतुल्याः ।
वाताहता दीपशिखा सुखश्रीरुन्मत्तनॄत्यं भववृत्तमेतत्
सर्वोपजीव्या करुणा न लक्ष्मीः धर्मः प्रकाशः सततं न दीपाः ।
यशांसि रम्याणि न यौवनानि स्थिराणि पुण्यानि न जीवितानि
सत्यव्रतस्तामिति सान्त्वयित्वा विसृज्य जायां निलये महर्षेः ।
चचार संसारपराङ्भुखानां संतोषपुण्येषु तपोवनेषु
तदागतास्ते त्वरया विसृष्टाः पञ्च द्विजा दुष्प्रसहेन राज्ञा ।
तमर्थिनामकमकालबन्धुं विशुद्धसत्त्वं ददृशुर्वनान्ते
ते स्वस्तिवादं शनकौर्विधाय विशस्तधैर्या इव साध्वसेन ।
तमूचिरे सूचिततीव्रतपाः दीर्घोष्णनिश्वाससमीरणेन
राजन् पुरे दुष्प्रसहस्य राज्ञः क्रूरोपसर्गौर्हतशान्तवर्गः ।
जनः कृतः कृत्तसमस्तकामः प्रकाममार्तस्वनमात्रशेषः
अशोषदोषप्रशमैकहेतुः त्रैलोक्यरक्षाप्रथितप्रभावः ।
चूडामणिर्देव भवद्वितीर्णः करोति तस्योपनिपातशान्तिम्
दयायुषश्चन्दनपल्लवार्द्राः स्वच्छाशयाश्चन्द्रमणिप्रकाशाः ।
संतापकाले शरणं जनानां भवद्विधा एव भवे भवन्ति
इत्यर्थितस्तैरविलुप्तसत्त्वः संपूर्यमाणः करुणारसेन ।
उवाच संचिन्त्य जनोपतातं संक्रान्तमन्तः श्रुतिवर्त्मनेव
अहो स राजा सहते कथं नु देवोपघातेन निपीडितानाम् ।
विदारितान्तःकरणं प्रजानां वियोगःदुःखोद्भवमार्तनादम्
अयं मणिर्मस्तकमूलजन्मा निष्कृत्त्य तूर्णं प्रतिगृहृतां मे ।
धन्यो ऽस्मि यद्यर्थिजनस्य दुःखक्षये क्षणं कारणतां व्रजामि
इत्युक्तमात्रे वसुधाधिपेन धराधराम्भोधिमहीधरित्री ।
चिरं चकम्पे चकितेव तस्य शिरस्तटोत्पाटनतीव्रदुःखात्
ततः कृपाकोमलचित्तवृत्तेः सुतीक्ष्णशस्त्रैर्वचसा नृपस्य ।
सुतीक्ष्णशस्त्रादपि तीक्ष्णचित्तः स्वयं शिरः पाटयितुं प्रवृत्तः
तद्दुष्करं कर्म नरेश्वरस्य व्योम्नि विमानैर्नलिनासनाद्याः ।
सुराः सविद्याधरसिद्धसाख्याः समाययुद्रष्टुमलुप्तसत्त्वम्
विपाट्यमाने शिरसि प्रसह्य रत्नप्रभाविभ्रममादधानैः ।
स रक्तपूरैरभिक्षिक्तकायः सेहे व्यथामर्थिसुखे प्रवृत्तः
विल्प्क्य तं सत्त्व निबद्धधैर्यं तीव्रव्यथावेगनिमीलिताक्षम् ।
ययुर्विरामं न नृशंसवृत्तेर्विप्राः क्षणं राक्षसतामवाप्ताः
विचार्य राजा श्वशरीरदुःखं संसारिणां क्लेशमयं शरीरम् ।
एवंविधैर्दुःखसहस्रलक्षैराक्रान्तमित्यार्ततरो बभूव
सो ऽचिन्तयद्देहनिबद्धरत्नदानेन यत्पुण्य्फलं मयाप्तम् ।
तेनोग्रदुःखं कलयामि मा भूदपुण्यपाके नरके नराणम्
समुद्धृते रक्रवसवसिक्ते तस्मिन्मणौ निश्चलतालुमूलात् ।
मूर्च्छाकुलो ऽपि प्रययौ सहर्षं संपूरणेनार्थिमनोरथस्य
स कम्पमानाङ्गुलिपल्लवेन दत्वा स्वहस्तेन मणिं द्विजेभ्यः ।
निमीलयन् सम्तमसेन लोकं पपात तिग्मांशुरिवातिरक्तः
अलुप्तसत्त्वे पतिते पृथिव्यां तस्मिन् सुराणां सह पुष्पवर्षैः ।
मणिं समादाय ययुर्द्विजास्ते तूर्णं पुरं दुष्प्रसहस्य राज्ञः
स तेन् असद्यः शमितोपसर्गः स्वर्गोचितासादितभोगवर्गः ।
तद्बोधिसत्त्वस्य समस्तसत्त्वसंतारणार्हं प्रशशंस सत्त्वम्
अत्रान्तरे किंचिदवाप्तसंज्ञं नरेश्वरं विश्रुतरत्नदानम् ।
समाययुर्भार्गवगौतमाद्या मरीचिमुख्या मुनयो वनेभ्यः
मरीचिमेवानुगता च देवी पद्मावती वीक्ष्य परिक्षतं तम् ।
संमोहवेगाभिहता पपात क्षणं क्षितौ बाललतेव लूना
दिगन्तसंचारिणी चारणानां नभश्चराणां नृपसाधुवादे ।
सराजपुत्राः सह मन्त्रिमुख्यैः प्रजाः प्रजानाथमथोपजग्मुः
वीक्ष्यः क्षितीशं क्षतजोक्षिताङ्गमक्षीणसत्त्वं पतितं पृथिव्याम् ।
पृथव्यथाक्लेशजुषं जनानामभूदभूतार्थविकल्पजल्पः
कुठारिकैः कैश्चिदहो दयार्द्रः सर्वार्थिसेव्यः सरलः सुवृत्तः ।
दुरात्मभिः स्वार्थलवाभियुक्तैः छायातरुः कष्टमयः निकृत्तः
अहो परार्थोज्झितजीवितो ऽयं परां चमत्कारदशां प्रयातः ।
ससौरभच्छिन्नतनुर्गतात्मा भवत्युदारः सहकार एव
लुब्धस्य न स्वः स्वजनो ऽपि जन्तोः न कामकामस्य धने ऽनुरोधः ।
सर्वात्मना सत्त्वहितोद्यतस्य देहो ऽपि न स्नेहपदं दयालोः
येषां कृते दैन्यमयं प्रयाति सर्वात्मना चार्थिजनो ऽर्थिभावम् ।
त एव दीनोद्धरणव्रतानां प्राणाः परित्राणपणे तृणानि
इति प्रवादे विविधानुभावे विजृम्भमाणे मुनिमण्डलस्य ।
भूपालमभ्येत्य सबाष्पचक्षुर्मुनिर्मरीचिः प्रणयादुवाच
अहो नु निष्कारणबन्धुभावमालम्ब्य राजन् दयया जनस्य ।
प्रजापरित्राणविधानभूमिस्तनुस्तवेयं तृणवद्वितीर्णा
क्षयः प्रवृत्तो निरपेक्षवृत्तेस्तवार्थिबन्धोर्निजजीविते ऽपि ।
यदेष कामं कमलानिकायः कायस्त्वयापायपदे नियुक्तः
अप्यस्ति राजन् सुकृतव्रते ऽस्मिन् फलस्पृहा प्राणपणे ऽपि काचित् ।
अस्थार्थिहेतोस्तव पालुभेदखेदाद्विकारं भजते न चेतः
इत्यद्भुताविष्कृतमानसेन मुनीन्द्रमध्ये मुनिना स पृष्टः ।
उवाच संस्तभ्य रुजं प्रयत्नाद्रक्ताभिषिक्तं वदनं प्रमृज्य
फलस्पृहा नास्ति मुने ममान्या किं त्वेक एव प्रचुरो ऽभिलाषः ।
यद्धोरसंसारनिमग्नजन्तुसंतारणायैव भवे भवेयम्
अर्थिप्रिये देहविदारणे ऽस्मिन् नैवास्ति मे को ऽपि विकारलेशः ।
यद्येष सत्यः समयो मयोक्तस्तदस्तु मे स्वस्थमिदं शरीरम्
इत्युक्तमात्रे सहजानुभावे सत्त्वोचिते स त्यधनेन राज्ञा ।
अभूद्वपुः सत्यबलेन तस्य रूढव्रणं तत्क्षणजातरत्नम्
ततः सुरैः शक्रविरिञ्चिमुख्यैर्नातप्रहर्षैर्मुनिभिश्च सर्वैः ।
अभ्यर्थितो ऽपि क्षितिपालनाय भोगाभिलाषी न बभूव भूपः
अवाप्तसंज्ञा मुनिना प्रयुक्ता पद्मावती राजसुतेन सार्धम् ।
पतिं ययावे विरहोपशान्त्यै सिंहासनाक्रान्तिसुखं प्रजानाम्
ततस्तमभ्येत्य कृपाकुलास्ते प्रत्येकबुद्धा जगतो हिताय ।
देहप्रभापूरितदिग्विभागा बभाषिरे हर्षमिवोद्गिरन्तः
चिरादवाप्ते विरहावसाने पुनः परित्यागदशामसह्याम् ।
न राजपुत्रः सहते न देवी दुःखानुबन्धो ह्यसमृन्निपातः
स्वमर्थिने यः रददाति देहमापन्नदुःखप्रशमैकहेतुः ।
कथं स कुर्यात् स्वजने ऽप्युपेक्षां धर्मो ऽप्ययं यस्य परार्थ एव
इत्युक्तमाकर्ण्य नरेश्वरस्तैस्तथेति निश्चित्य धिया कथंचित् ।
व्योम्ना विमानैः स्वपुरीमवाप्य भेजे निजं राज्यपदं सपुत्रः
इति स विपुलसत्त्वः सत्यवान् बोधिसत्त्वः सुचिरविहितराज्यः सौगतं धाम भेजे ।
जिनपुरमणिचैत्यच्छत्ररत्नप्रदीपप्रकटितविविधश्रीर्लक्षणाभ्यस्तबोधिः
इत्याह भगवान् बुद्धः स्ववॄत्तान्तनिदर्शने ।
दानोपदेशे भिक्षूणां सम्यक्संबोधिसिद्धये
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0