अवदानकल्पलता · अध्याय 38
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मूकपङ्ग्ववदानं नाम सप्तत्रिंशः पल्लवः ॥
38. क्षान्यवदानम् ।
ते जयन्ति धृतिशीलिनः परं निर्विकाररुचिसूचिताद्भुताः ।
शेषवत् पृथुलभारनिर्व्यथाः ये वहन्ति सुकृतक्षमाः क्षमाम्
पुरा पुरा पुण्यविपर्ययेण रिपुः प्रजानां जनितप्रकम्पः ।
उदुन्बनामा निबिडोपतापैर्यक्ष क्षयायैव कृतक्षणो ऽभूत्
अकालकालं तमनाथबन्धुर्लोकानुकम्पी भगवान् प्रसह्य ।
शिक्षोपदेशं शरणं प्रपन्नं शमाभिधायी विनये न्ययुङ्क्त
तस्मिन् प्रशान्ते भुवनोपतापे द्रष्टुं प्रहृष्टः सुगतं समेत्य ।
संचारिणं नाकपतिः प्रणम्य तत्कालजातस्मितमित्युवाच
कस्मादकस्मात् स्मितचन्द्रलेखा मुखाम्बुजे भाति तवाद्भुतेयम् ।
अकारणं सत्त्वसुधासमुद्रा न लोकसामान्यतयाम् हसन्ति
श्रुत्वेति वाक्यं त्रिदशेश्वरस्य तत् तं सर्वदर्शी भगवान् बभाषे ।
अस्मिन् प्रदेशे निजपूर्ववृत्तं स्मृत्वा स्म्तं जातमिदं ममेन्द्रं
पुरा मुनिः क्षानिरतिर्वने ऽस्मिन्नुवास निर्वासितरोषदोषः ।
यो ऽभूद्भुवो रागरजःस्वभावे विद्वेषवानिन्दुरिवारविन्दे
अथोत्तराशाधिपतिर्वसन्ते वनान्तरालोकनकौतुकेन ।
सान्तःपुरः केलिसुखाय कामी तदाश्रमोपान्तमहीमवाप
रागी कलिर्नाम स भूमिपालः पादप्रहारैर्वदनासवैश्च ।
लेभे विलासेषु नितम्बिनीनामशोकशोभां बकुलश्रियं च
दिशस्तपोलोपपृथुप्रकोपभ्रूभङ्गवृन्दैरिव तापसानाम् ।
तत्र भ्रमद्भिर्भ्रमरैर्बभूवुः कामाग्निधूमैरिव सान्धकाराह्
लीलाविलोलाः पवनाकुलालीस्तनावनम्राः स्तबका लतानाम् ।
रक्ताधराः पाटलपल्लवानाम् प्रापुर्विलासं ललना लतानाम्
राजाङ्गनाः कौतुकविभ्रमेण वने चरन्त्यस्तमृषिं विलोक्य ।
अचञ्चलध्यानसमाधिसक्तं विमुक्तरागं परिवार्य तस्थुः
तद्देशमभ्येत्य नरेश्वरो ऽथ दृष्ट्वा वभूभिः परिवारितं तम् ।
ईर्ष्याप्रकोपानलदुर्निरीक्ष्यः चिच्छेद तस्याशु स पाणिपादम्
छिन्नाङ्गवर्गो ऽपि स निर्विकारश्चुकोप भूपाय न नाम धीरः ।
न्यवारयत् क्रूरतरं च तस्मै गन्धर्वयक्षोरगदेवसंघम्
ततः प्रयाते नृपतौ पुरं स्वां समेत्य सर्वे मुनयो वनेभ्यः ।
तं तत्र कृतावयवं विलोक्य क्षान्ता अपि क्रोधधुता बभूवुः
शापप्रदानाभिमुखान् निवार्य क्षन्तव्यमित्येव स तानुवाच ।
क्षामासमालिङ्गितमानसानाम् कोपक्रियाभिः क्रियते न सङ्गः
विकारवेगो ऽपि न पाणिपादच्छेदे ममाभूद् यदि वीतमन्योः ।
सत्येन तेनाक्षतदेह एव स्यामित्यवादीत् स पुनः प्रसादी
ततः क्षणात् संगतपाणिपादं रूढव्रणं प्रेत्य सदोदयेन ।
अपूजयत् क्षान्तिगुणं स्तवेन तं देवता सत्त्वसितैश्च पुष्पैः
राजापि तत्किल्बिषकालकूटविस्फोटसंघट्टविनष्टचेष्टः ।
पूरोत्कटावर्तविवर्तमानः संवर्तपाकं नरकं जगाम
यो ऽभूत्पुरा क्षान्तिरतिर्महर्षिः सो ऽहं कलिर्यश्च स देवदत्तः ।
अतीतवृत्तस्मरणेन शक्र नाकारणं जातमिदं स्मितं मे
इति भगवतः श्रुत्वा वाक्यं स विस्मयमानसः
प्रमदविकचव्यक्तोत्साहा वहन्नयनावलीः ।
तरणिकिरणस्पर्शेनेव स्फुटः कमलाकरस्
त्रिदशवसतिं प्रीतः प्रायात् पतिस्त्रिदिवैकसाम्
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0