भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 37

37.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायाम् पूर्णावदानं षट्त्रिंशः पल्लवः ॥
37. मूकपङ्ग्ववदानम् ।
आकिंचन्यसुखाय निःस्पृहतया वैराग्यलक्ष्मीजुषः
सर्वं यान्ति विहाय कायसचिवाः सन्तः प्रशान्त्यै वनम् ।
तत्रापि व्रतडम्बरे परिकरारम्भाय चेत् संचयस्
तत्कः कोशपरिच्छदोपकरणैर्गेहे ऽपराधः कृतः

37.2

जिने जेतवनारामविहाराभिरते पुरा ।
शाक्यराजकुमाराणां प्रव्रज्यासंजुषां पुरः

37.3

चित्रचीवरसत्पात्रयोगपट्टादिसंचयम् ।
प्रभूततरमालोक्य भगवान् समचिन्तयत्

37.4

अहो बतैषां नाद्यापि बन्धहेतुर्निवर्तते ।
अभिमानमयः काये प्रियः परिकरग्रहः

37.5

काये कायपरिष्कारस्तस्योपकरणावली ।
तस्याः परिकरादानमहो नु बन्धशृन्खला

37.6

इति संचिन्त्य भगवान् नैकान्तविहितस्थितिः ।
कारुण्यादुपसन्नानां कुशलाय समुद्यतः

37.7

मासत्रयमुपस्थानं कर्तव्यं येन केनचित् ।
अदर्शनाय भिक्षूणामकरोदिति संविदम्

37.8

प्रवृत्ते नियमे तस्मिन् भिक्षुरारण्यकव्रतः ।
आययावुपसेनाख्यः कार्यार्थं तनुचीवरः

37.9

प्रवारितः स संप्राप्य धन्यः सुगतदर्शनम् ।
कृतकृत्यः क्षस्णं स्थित्वा प्रतस्थे प्रणिपत्य तम्

37.10

व्रजन्तमेत्य पप्रच्छुर्भिक्षवः परिवार्य तम् ।
तवार्य दर्शनमहो दत्तं भगवता कथम्

37.11

मासत्रयं दर्शने ऽस्य नियमः शासनेन यः ।
स कथं भवता भग्नः संघस्योन्मार्गगामिना

37.12

श्रुत्वा तद्वचनं तेषामुपसेनः स्मितोत्तरम् ।
तानुचे न् अमया कश्चित् कृतः समयविप्लवः

37.13

अहमुक्तो भगवता दर्शनावसरे स्वयम् ।
आरण्यकस्य मे भिक्षोर्निषेधो नास्ति दर्शने

37.14

परिच्छदोपकरणत्यागनिर्मुक्तबन्धनाः ।
अवार्यदर्शना वृक्षमूलिकाः पांशुकूलिकाः

37.15

इदमद्य परं प्रातरिति ये संचये रताः ।
पात्रवीचरवर्गेषु तेषां नास्तीह दर्शनम्

37.16

पाथोभिः प्रसरत्तुषारशिशिरैस्तृष्णातुरास्ते परं
ते नित्यं च निधानधाम्नि विवृते ऽप्यन्यादलं दुर्गताः ।
तेषां चन्दनपादपादुपनतः संतापकः पावको
यैरेष प्रशमव्रतोपकरणे बद्धो ऽभिमानग्रहः

37.17

इत्युक्तमुपसेनेन श्रुत्वा ते शाक्यभिक्षवः ।
वैलक्ष्यक्षयितोत्साहाः सहसैव व्यचिन्तयन्

37.18

एतद्भगवतादिष्टमस्मानुद्धिश्य नापरान् ।
विचित्रचीवरचयप्रावारा वयमेव यत्

37.19

विरतेच्छाः प्रियाह् शास्तुर्महेच्छा वयमप्रियाः ।
तस्मादिच्छां परित्यज्य भवामस्तस्य संमताः

37.20

इति संचिन्त्य ते सर्वे चारुचीवरसंचयम् ।
प्रावृत्याभ्यधिकं त्यक्त्वा ययुर्भगवतो ऽन्तिकम्

37.21

इच्छाविरामे भगवान् व्यधात्तेषामनुग्रहम् ।
ज्ञानवज्रेण सत्कायदृष्टिशैलं बिभेद यः

37.22

शाक्यराजकुमाराणां श्रोतःप्राप्तिफलस्पृशाम् ।
भिक्षुभिः पूर्ववृत्तान्तं पृष्टः प्राह तथागतः

37.23

वाराणस्यामभूत्पूर्वं ब्रह्मदत्तो महीपतिः ।
दानार्द्रहस्तो यद्बाहुः क्ष्मामधाद्दिग्द्विपोपमः

37.24

तस्य ब्रह्मावती मुक्तालतेव गुणशालिनी ।
कीर्तिः सत्पुरुषस्येव विश्रुता वनिताभवत्

37.25

प्रतिबिम्बोपमं पत्युः सा सुतं विमलाशया ।
जलक्रीडागता काले सुषुवे दिव्यलक्षणम्

37.26

उदकाख्यः स बालो ऽभूत् संजातः सलिलान्तरे ।
वर्धमानः पितुस्तुल्यं यौवराज्यानोरथैः

37.27

शतानि पञ्चामात्यानां तस्य जन्मदिनं समम् ।
अवापुस्तुल्यरूपाणां पुत्राणाम् शतपञ्चकम्

37.28

निजं जातिस्मरः स्मृत्वा प्राग्वृत्तं स शिशुः शनैः ।
अचिन्तयत् प्राप्तकालं हितं सुकृतमात्मनः

37.29

षष्टिवर्षाणि कृत्वा तु यौवराज्यमहं पुरा ।
अभवं कृच्छ्रसंतप्तश्चिरं नरकसंकटे

37.30

जन्मन्यस्मिन्नपि पुनर्यौवराज्यमुपस्थितम् ।
सर्वथा प्रार्थ्यमानो ऽपि न करिष्यामि पातकम्

37.31

इति संचिन्त्य स चिरं राजभोगपराङ्मुखः ।
पितुरुद्वेगजननीमग्रहीत् पङ्गुमूकताम्

37.32

सर्वलक्षणयुक्तो ऽपि राजवृत्तेरभाजनम् ।
स मूकपङ्गुर्नामाभूद् बन्धूनां दुःखवर्धनः

37.33

प्राप्तेषु मन्त्रिपुत्रेषु शस्त्रशास्त्रबलोदयम् ।
राजपुत्रः प्रवृद्धो ऽपि नोदतिष्ठन्न चावदत्

37.34

पृष्टस्ततः क्षितीशेन वैद्यास्तद्दोषभेषजम् ।
अवदन् वैकल्यं राजन् राजसूनोर्न दृश्यते

37.35

अभ्यासाद्यदि जातो ऽस्य दोषो ऽपि सुखसेविनः ।
तदेष भयसंवेगादुत्तिष्ठति च वक्ति च

37.36

इति वैद्यैरभिहितं तथेत्युक्त्वा क्षितीश्वरः ।
मिथ्यैव वध्यवसुधां भयाय व्यसृजत्सुतम्

37.37

स भर्त्स्यमानह् पुरुषैस्तमुवाच रथस्थितम् ।
अपि कश्चिद्वसत्यस्यां वाराणस्यां न वा जनः

37.38

इति तद्वचनं श्रुत्वा तैर्नीतः स नृपान्तिकम् ।
तत्र पित्रार्थ्यमानो ऽपि मूक एवाभवत् पुनः

37.39

पुनर्वध्यभुवं नीतः शवं दृष्ट्वा जगाद् सः ।
अस्त्येष जीवति शवः किं वा सर्वात्मना मृतः

37.40

श्रुत्वैतत् तैः पितुः पार्श्वे न्यस्तो मौनं व्यधात्पुनः ।
पुनर्वधभयाच्चैव नीतः प्रोवाच तान् पथि

37.41

राशिर्य एष धान्यस्य स हि भुक्तो ऽनुभुज्यते ।
इत्युक्तवाक्यो ऽपि पुनर्नोचे किंचित् पितु परः

37.42

ततः ख्यातप्रतिक्षेपे तस्यादिष्टे महीभुजा ।
सो ऽवदद्वरदानेन वच्मि प्रद्भ्यां व्रजामि च

37.43

अथास्य राज्ञा हृष्टेन वरदाने प्रतिश्रुते ।
स पद्भ्यां स्वयमभ्येत्य स्पष्टं पितरमब्रवीत्

37.44

नाहं पङ्गुर्न मूको ऽहं नैव चाहं जडाशयः ।
किंतु जन्मान्तरक्लेशं स्मृत्वा वैह्वल्यमाश्रितः

37.45

यौवराज्यसुखं भुक्त्वा षष्टिवर्षाण्यहं पुरा ।
षष्टिवर्षसहस्राणि न्यवसं नरकोदरे

37.46

राजभीत्या मया तस्मात् कृतेयं मूकपङ्गुता ।
प्रव्रज्यया ब्रह्मचर्यं चराम्येष वरो मम

37.47

इति तेनोक्तमाकर्ण्य तमुवाच महीपतिः ।
अमूक इत्याप्तधृतिर्विरक्त इति दुःखितः

37.48

धर्ममूलमिदं राज्यं पुत्र न त्यक्तुमर्हसि ।
यज्ञदानप्रजात्राणैः पुण्यपूर्णा नॄपश्रियः

37.49

एकपुत्रस्त्वया पुत्र परित्यागरसादहम् ।
निद्रादरिद्रताम् नीतः शोकशय्यासमाश्रयः

37.50

संपूर्णचन्द्ररुचिरां व्यक्तमौक्तिकहासिनीम् ।
कथं संपदमुत्सृज्य प्रव्रज्याभिमता तव

37.51

कथं शय्याः परित्यज्य प्राज्यराज्यसुखोचिताः ।
वनान्तवासव्यसनी सेवसे पांशुलाः स्थलीः

37.52

कान्तालीलामुकुरमणिमन्मन्दिरीं राजधानीम्
एतां त्यक्त्वाननु वनभुवः संपतद्व्याघ्रघोराः ।
सर्वप्रीत्यै जरदजगराश्वासविप्लुष्टपत्राः
क्लिष्टच्छायाह् प्रविरललतास्ताः कथं ते भवन्ति

37.53

पितुः श्रुत्वेति वचनं राजपुत्रस्तमब्रवीत् ।
दन्तकान्ताधररुचिं वैराग्यं ग्राहयन्निव

37.54

शीतला निर्मलजलाह् संतोषशशिशीतलाः ।
वने वैराग्यसुभगा भुवः कस्य न वल्लभाः

37.55

परदारा इव क्षिप्रसुखावर्जितदुर्जनाः ।
नरकप्रत्ययायामे सापाया न प्रियाः प्रियाः

37.56

ध्यानं मन्त्रः परिज्ञानमिन्द्रियाणां चनिर्जयः ।
राज्ञां हिंसाप्रयत्नेन योगो ऽयं नरकप्रदः

37.57

हसन्त्यः संसारं कुसुमकलिलाः काननभुवः
स्वभावेन प्रीतिं विदधति बुधानां शममयीम् ।
दृढं चिन्ताश्राण्ता व्यजनपवनोच्छ्वासबहुला
विभूतिर्भूपानां शिरःसक्तामनित्यताम्

37.58

अनुजानीहि मां तात व्रजाम्येष तपोवनम् ।
जानीहि सर्वभावानां शिरःसक्तामनित्यताम्

37.59

इति पुत्रवचः श्रुत्वा तत्तथेति विचिन्तयन् ।
उवाचोपचिताश्चर्यस्तं मनीषी महीपतिः

37.60

विवेकविमलं पुत्र त्वमिच्छासि स चेद्वनम् ।
हित्वामे संशयं तावत् पश्चाद्युक्तिं करिष्यसि

37.61

व्रजता बध्यवशुधां तिर्यगुक्तं त्वया वचः ।
प्रचुरं तदभिप्रायं वक्तुमर्हसि तत्त्वतः

37.62

इति क्षितिभुजा पृष्टः सो ऽब्रवीत्तन्मयोदितम् ।
वसत्यत्र न कश्चित् त्वा मद्वधाद्यो निवर्तयेत्

37.63

सुकृती जीवति शवः स पापस्तु मृतो ऽमृतः ।
प्राक् पुण्यं भक्ष्यते मूलात् सधनैर्धान्यराशिवत्

37.64

इत्याशयान्मया तात तदुक्तं वचनं प्रियम् ।
* * * * * * * *

37.65

इति श्रुत्वा क्षितिपतिस्तं परिष्वज्य सादरः ।
उचितं क्रियताम् पुत्र कुशलायेत्यभाषतः

37.66

ततः स पित्रानुज्ञातः साश्रुनेत्रेण काननम् ।
प्रययौ मन्त्रिपुत्राणां सहितः पञ्चभिः शतैः

37.67

महर्षेरन्तिके तत्र प्रव्रज्यां प्राप्य सानुगह् ।
तेषां कालेन सो ऽपश्यत् कुण्डवल्कलसंचयम्

37.68

ततःस संचयद्वेषी तददर्शनसंविदा ।
एकाकी विजने तस्थौ कंचित् कालंमहामतिः

37.69

दर्शनाभाषणे बद्धनियमो ऽपि यदृच्छया ।
प्राप्तं स्वागतमित्युक्त्वा पप्रच्छ कुशलं मृगम्

37.70

पुनश्च पूजितं दृष्ट्वा मुनिं तेन मृगव्रतम् ।
अमात्यतनयाः सर्वे विलक्षाः समचिन्तयन्

37.71

मृगो मृगव्रतश्चायं पूजितौ निष्परिग्रहौ ।
एतावनजिनौ दण्डसंब्ःआराडम्बरोज्झितौ

37.72

एतदर्थमनेनास्मद्दर्शने नियमः कृतः ।
व्रतोपकरणव्यग्रान्नूनमस्यापि वारयेत्

37.73

इति संचिन्त्य सर्वं ते व्रतोपचारसंचयम् ।
नद्यां प्रक्षिप्य वारायां ययुः शुद्धास्तदन्तिकम्

37.74

त्यक्त्वा गृहभूवं तेषामाशयानुशयोचिताम् ।
स धातुं प्रकृतिं ज्ञात्वा विदधे धर्मदेशनाम्

37.75

राजपुत्रः स एवाहं शाक्यास्ते मन्त्रिसूनवः ।
पुनस्त्यागोपदेशो ऽयमद्याप्येषां मया कृतः

37.76

इति शाक्यकुमारवृत्तमेतत् कथितं भिक्षुगणः स्वयं जिनेन ।
अवधार्य परामपूजयत् तां करुणामाश्रितवत्सलस्य तस्य

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc