भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 36

36.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां घोषिलावदानं पञ्चत्रिंशः पल्लवः ॥
36. पूर्णावदानम् ।
विबुधसरसिः पद्मैः शोभिते पङ्कजिन्या शुचिपरिसरजातं स्पृश्यते न स्थले ऽब्जम् (?) ।
सहजपरिचितानां नित्यमन्तर्गतानाम् भवति सितगुणानाम् कारणं नैव जातिः

36.2

श्रावस्त्यां सर्वसत्त्वानां स्वस्तिध्यानपरायणे ।
जिनकल्पद्रुमे जेतवनारामस्थिते पुरा

36.3

शूर्पारकाख्ये नगरे रत्नसंचयसागरः ।
भवो नामाभवत्सार्थपरिर्मतिमतां वरः

36.4

भविलो भवभद्रश्च भवनन्दी च विश्रुताः ।
केतक्यां तस्य जायायां बभूवुस्तनयास्त्रयः

36.5

रोगयोगादुपगरः स कदाचिन्मुमूर्षुताम् ।
पारुष्याद् भृशमुद्विग्नैः पत्नीपुत्रैरुपेक्षितः

36.6

भक्त्या दासी तु तस्यैका परिचर्यापरा परम् ।
मल्लिकाख्याभवत्तस्याः सेवया स्वास्थ्यमाययौ

36.7

स्नेहोपकारप्रणतः कृतज्ञः स तयान्वितः ।
ऋतौ संगममभ्येत्य तस्याः पुत्रमजीजनत्

36.8

यदा तज्जन्मनि पितुः सर्वार्थाः पूर्णताम् ययुः ।
स तदा पूर्णनामाभूद्बालः पूर्णेन्दुसुन्दरः

36.9

ज्येष्ठास्त्रयः कृतिद्वाहा ययुरब्धिं धनार्थिनः ।
पूर्णस्तु भाण्डशालायां पितुश्चक्रे धनार्जनम्

36.10

ततः प्रतिनिवृत्तास्ते प्राप्तार्थः सागरात्पुनः ।
गणनां हेमलक्षाणां कृत्वा स्वमुदिरे पुरम्

36.11

समुद्रगमने तेषाम् यावानासीद्धनागमः ।
पूर्णस्य स्वगृहे पण्यौर्बभूवाभ्यधिकस्ततः

36.12

तद्दृष्ट्वा जनकस्तेषां वृद्धः पर्यन्तवासरे ।
तमूचेहितमायत्यां तृष्णा नैकक्षयोदयः

36.13

दृष्टं भवद्भिः सामुद्रलाभे कृतपरिश्रमैः ।
पूर्णेनोआर्जितं वित्तमक्लेशेन महीयसा

36.14

शुभकर्मविपाकेन भवन्त्यर्था धनार्थिनाम् ।
हस्तात् पलायते ऽन्यस्य प्राप्नोति पतितं परः

36.15

सन्मार्गस्यापरित्यागाद् युक्तायुक्तविवेचनात् ।
देशकालपरिज्ञानात्सतां सर्वत्र संपदः

36.16

भवन्ति स्वगृहे शन्याः सुधियो धर्मभागिनः ।
गत्वा रत्नाकरं चान्ये लभन्ते प्राणसंशयम्

36.17

यत्नेन बोद्धव्या सद्भिः धनस्योपनिष्त्परा ।
अद्रोहशुद्धबुद्धीनां स्वाधीनानां धनाच्छ्रियः

36.18

रक्षणीयो भवद्भिश्च भेदः सततसंहतेः ।
भिन्नात् स्खलति कल्याणं कुलात् कुम्भादिवोदकम्

36.19

अथाभिन्नेन्धनस्याग्नेर्नश्यन्ते सदृशास्त्विषः ।
तथा विपुलवंशस्य भिन्नज्ञातेर्विभूतयाः

36.20

भ्रातॄणां संततो भेदः कथं नाम निवर्तते ।
अध्यापितानां पत्नीभिर्द्वेषविद्यां सदा निशि

36.21

उन्नतानां स्ववशानां द्वैधं तावन्न जायते ।
यावत्कुठारधारेव योषिद्विशति नान्तरम्

36.22

भ्रातुरर्थानुवादेन गुरुं पारुष्यकुत्सया ।
मित्रमेकाभिलाषेण नयन्ति द्वैधतां स्त्रियः

36.23

तद्वदन्ति हसन्त्यो ऽपि भ्रूविलासेन योषितः ।
यत्प्रयाति सुहृत्स्नेहमूलोन्मूलनहेतुताम्

36.24

हितमुक्त्वेति पुत्राणां भूतये ऽभिमतं भवः ।
अनित्यतापरियुक्तः काले निधनमाययौ

36.25

अविभक्ते धने शक्ता देशान्तरधनार्जने ।
ज्येष्ठा बभूवुः पूर्णस्तु गृहे वित्तमचिन्तयत्

36.26

कालेन गृहमाप्तानाम् वस्त्राशनविवादिनाम् ।
स्त्रीमन्त्रदत्तकर्णानां भेदस्तेषामजायत

36.27

वित्ते विभज्यमाने ऽथ् अतैर्विद्वेषवशीकृतेः ।
दासीसुतो ऽयम्त्युक्त्वा नीतः पूर्णो निरंशताम्

36.28

सो ऽपि पूर्णशनः काले शीतसंकुचितं पथि ।
ददर्श ग्रीष्मताप्र् ऽपि विवशं दारुभारकम्

36.29

आदाय दारुमूल्येन स तस्माद्दारुभारकम् ।
दिव्यचन्दनमद्राक्षीद्दहनस्यापि शीतदम्

36.30

सुकृतेनैव महता तेन लब्धमहाधनः ।
स सेव्यः सार्थवाहानां पूज्यो ऽभूत्पृथिवीपतेः

36.31

रत्नाकरं स षट्कृत्वः प्रयातः सर्वदो ऽर्थिनाम् ।
चकार सर्ववणीजां तरशुल्काद्यनुग्रहम्

36.32

स्र्हावस्तीवासिभिः सार्थवणिग्भिः पुनरर्थितः ।
ययौ प्रवहणारूढः समुद्रद्वीपमाशु सः

36.33

प्रत्यावृत्ते प्रवहणे सो ऽथ शुश्राव गायताम् ।
वणिजां स्थाविराः शैलगाथाः सुगतसंश्रयाः

36.34

कस्यैता इति ते तेन पृष्टाः सर्वे बभाषिरे ।
एता भगवता गीता गाथा बुद्धेन धीमता

36.35

इति बुद्धाभिधामेव श्रुत्वा हर्षमवाप सः ।
पुंसां स्ववासनारूढं व्यक्तिमायात्युदीरितम्

36.36

तैर्विस्तरेण कथितामाकर्ण्य भगवत्कथाम् ।
सो ऽभवत्तद्गतमनास्तद्दर्शनसमुत्सुकः

36.37

स शनैर्गृहमागत्य त्यक्त्वा सर्वपरिच्छदम् ।
अनाथपिण्डदं द्रष्टुं श्रावस्त्यां सुहृदं ययौ

36.38

अभिलाषं निवेद्यास्मै प्रव्रज्यायां जितेन्द्रियः ।
जगाम सहितस्तेन भक्त्या भगवतो ऽन्तिकम्

36.39

दृष्ट्वैव तत्र सर्वज्ञं मोहध्वान्तदिवाकरम् ।
तत्पाददर्शनेनैव मेने स कृतकृत्यताम्

36.40

विज्ञाय तस्य भगवान् संकल्पं तमभाषत ।
दशनज्योत्स्नया कुर्वन् विवेकविमला दिशः

36.41

एहि भिक्षि निराशङ्के निर्विपक्षे क्षयोज्झिते ।
आख्याते धर्मविनये ब्रह्मचर्यां चरेप्सितम्

36.42

इति प्रसादशीलेन जिनेनोदीरिते पुरह् ।
प्रव्रज्या सहसैवास्य पपातालक्षिता तनौ

36.43

ततः स शत्रौ मित्रे च प्रशमात् समतां श्रितः ।
शास्तुः शासनमादाय प्रणिपत्य जगाम तम्

36.44

श्रोणापरान्तकं नाम देशं श्रूरजनाश्रयम् ।
स्वयं परीक्षितुं क्षान्तिं जनेन स समाययौ

36.45

ततो दृष्ट्वा तमायान्तं मृगयायाममङ्गलम् ।
लुब्धकश्चापमाकृष्य हन्तुं क्रिधात् समाद्रवत्

36.46

निर्विकारं निरुद्वेगं स तं विगतसाध्वसम् ।
प्रहरेति ब्रुवाणं च दृष्ट्वैव शममाप्तवान्

36.47

शाम्यतस्तस्य सहसा प्रसादी लुब्धकस्य सः ।
धर्मं दिदेश येनासौ बोधिं प्राप सहानुगैः

36.48

स तत्र सुगतार्हाणां सर्वोपस्करसंपदाम् ।
शतानि पzन्च रम्याणां विहाराणामकारयत्

36.49

पूर्णो ऽपि ज्ञानसंपूर्णः प्राप्तिस्त्रिदशपूज्यताम् ।
वैराग्यलक्ष्म्या युक्तो ऽभून्मुनीनां स्पृहणीयया

36.50

अथ तस्याग्रजो भ्राता भविलः क्षीणवित्तताम् ।
कालेनोपगतः प्रायात् सम्दुरं द्रविणाशया

36.51

ततः प्रवहणारूढः सो ऽनुकूलैः समीरणैः ।
गोशीर्षचन्दनवनं प्रापितः स्वल्पवासरैः

36.52

कुठारिकशतैस्तस्मिन् पञ्चभिश्छेत्तुमुद्यते ।
तच्चन्दनवनं दिव्यं भुजङ्गगणासंकुलम्

36.53

तत्स्वामी यक्षसेनानां महेश्वरं इति श्रुतः ।
कोपादुदसृजद् घोरं कालिकाख्यं महानिलम्

36.54

मरुता महता तेन प्रापिताः प्राणसंशयम् ।
चक्रन्दुर्वणिजः सर्वे शर्वशक्रमुखान् सुरान्

36.55

तानार्तरावमुखरान् भविलः सार्थनायकः ।
उवाच संचिन्त्य चिरं पश्चात्तापसमाकुलः

36.56

पूर्णः कनीयान् भ्राता स हितैषी मां पुरावदत् ।
बहुक्लेशो ह्यल्पसुखः क्क गन्तव्यस्त्वयाम्बुधिः

36.57

अकृत्वा धीमतस्तस्य वचनं सत्यदर्शिनः ।
च्युतो ऽहं धनलोभेन घोरे ऽस्मिन् व्यसनार्णवे

36.58

श्रुत्वैतद्वणिजः सर्वे प्रभावं लोकविश्रुतम् ।
पूर्णस्य मनसा ध्यात्वा तमेव शरणं ययुः

36.59

नमस्तुभ्यं जगत्क्लेशविषधोषापहारिणे ।
पूर्णयोदीर्णकरुणासुधासंपूर्णचेतसे

36.60

इत्येकस्वररावेण तेषां संपूरिते ऽम्बरे ।
क्षणेन गत्वा तद्वृत्तं पूर्णः प्राह स्वदेवताः

36.61

श्रोणापरान्तकगतः श्रुत्वा तेषां स विप्लवम् ।
व्योम्ना समाधिसंनद्धः प्राप प्रवहणं क्षणात्

36.62

तस्मिन् पर्यङ्कबन्धनेन स्थितो मेरुरिवाचलह् ।
प्रलयोत्तालवेगस्य गतिं वाहोर्जहार सह्

36.63

पूर्णेन पवनं रुद्धं ज्ञात्वा यक्षगणाग्रणीः ।
तं प्रसाद्य ययौ त्यक्त्वा तेभ्यश्चन्दनकाननम्

36.64

पूर्णप्रसादादादाय भविलश्चन्दनद्रुमान् ।
हृष्टस्तेनैव सहितः शूर्पारं स्वपुरं ययौ

36.65

पूर्णो ऽथ् संमते भ्रातुस्तत्र गोशीर्षचन्दनैः ।
चक्रे चन्दनमालाख्यं प्रासादं सुगतो ऽचितम्

36.66

तत्र पूर्णेन भगवान् ध्यातस्तूर्णं विहाय्सा ।
समाययौ जेतवनादुल्लङ्घ्य शतयोजनीम्

36.67

आगच्छतो भगवतः पुरःप्रसृतया जगत् ।
देहकान्त्या कपिशितं सर्वं हिममिवाभवत्

36.68

पुरोपान्तनिवासिन्यस्तं विलोक्य गृहाङ्गनाः ।
तीव्रचित्तप्रसादेन प्रशमोन्मुखतां ययुः

36.69

कुशलोपचितां तासां भगवान् सत्यदेशनाम् ।
चक्रे भवादृतां कान्तास्ताह् प्रापुः कुशलं ययुः

36.70

ऋद्ध्या भगवतस्तत्र चैत्यं पौराङ्गनाभिधम् ।
ताभिर्विहितमद्यापि वन्दन्ते चैत्यवन्दकाः

36.71

मुनीनां भगवान् कृत्वा तथा वल्कलिनो मुनेः ।
प्रव्रज्यानुग्रहं शुद्धां विदधे धर्मदेशनाम्

36.72

ततश्चन्दनमालाख्यं प्रासादं भगवान् जिनः ।
प्रविश्य स्फाटिकं चक्रे जनसंघभरक्षमम्

36.73

अथ रत्नासनासीनः स तत्र करुणानिधिः ।
विदधे सर्वसत्त्वानां शान्त्यै निर्वाणदेशनाम्

36.74

अत्रान्तरे सानुचरौ मुनीन्द्रौ कृष्णागौतमौ ।
अभ्येत्य धर्मश्रवणेशास्तुः शासनमापतुः

36.75

तत्र कृत्वाथ भगवान् प्रासादस्य प्रतिग्रहम् ।
पुनर्जेतवनं गच्छन्नुद्ययौ सह भिक्षुभिः

36.76

व्रहन् मारीचिलोकस्थाम् मौद्गल्यायनमातरम् ।
सग्दिरा चार्यसत्ये तां धर्ममार्गे न्यवेशयत्

36.77

अथ जेतवनं प्राप्तं भगवन्तं सविस्मयाः ।
पूर्णस्य पुण्यं पप्रच्छुर्भिक्षवः सो ऽप्यभाषत

36.78

काश्यपस्य पुरा सम्यक्संबुद्धस्यान्यजन्मनि ।
विहाराधिकृतः पूर्णः संघोपस्थायको ऽभवत्

36.79

स कदाचिदसंमृष्टां दृष्ट्वा वैहारिकीं भुवम् ।
प्राह प्रव्रजितं तीव्रं क्रोधादुपधिवारिकम्

36.80

दृप्तस्योपधिवारो ऽद्य विहारो ऽस्मिन्नमार्जितः ।
कस्य दासीसुतस्येति ब्रुवाणस्तमभर्त्सयत्

36.81

तेन पारुष्यपापेन भुक्त्वा नरकदुर्गतिम् ।
दासीसुतो ऽभवत् पूर्णः पञ्च जन्मशतानि सः

36.82

संघोपासनमेवास्य पुण्यायाभून्महीयसा ।
अर्हत्त्वं येन निःशेषभवक्लेशोज्झितः श्रितः

36.83

इति प्रभावं कथितं जिनेन पूर्णस्य पुण्योपचयप्रणितम् ।
श्रुत्वाद्भुतं संसदि भिक्षुसंघः पुण्यप्रसंशाभिरतो बभूव

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc