अवदानकल्पलता · अध्याय 35
इति क्षेमेन्द्रविचरितायां बोधिसत्त्वावदानकल्पलतायां गृहपतिसुदत्तावदानं चतुर्स्त्रिशः पल्लवः ॥
35. घोषीलावदानम् ।
फलं समानं लभते स दातुर्याति क्षणं दानसहायतां यः ।
परोपकारप्रणयोद्यतानां नापुण्यकर्मा सचिवत्वमेति
रम्ये पुरा भगवति श्रावस्त्यां जेतकानने ।
अनाथपिण्डदारामविहाराधिरते जिने
कौशाम्ब्यां वत्सनृपतिर्बभूवोदयनाभिधः ।
गायत्यद्याषि यत्कीर्तिर्विद्याधरवधूजनः
अभवद्विषये तस्य कर्मान्ताकरजीवनः ।
गृहस्थः सुधनो नाम धनाधानविचक्षणः
नृपः कदाचिंदास्थाने तं कार्यार्थिनमागतम् ।
वचसैव परिज्ञाय जगाद् विहितादरः
जानाम्यहं गृहपते हिरण्योपचितस्वरम् ।
विपुलः संचयज्ञस्य सुवर्णनिधिरस्ति ते
इत्युक्तः सस्मितं राज्ञा स तमूचे कृताञ्जलिः ।
सत्यमस्त्येव मे राजन् गृहे काञ्चनसंचयः
सद्वृत्तचिन्तानिरते देवे वात्सल्यपेशले ।
किं वा नास्ति जनास्यास्य पितरि त्वयि गोप्तरि
धनिनो यान्त्यधनतां निधनं यान्ति चाधनाः ।
व्याघ्रताम् याति देद्भूभृदामिषाघ्राणनिर्घृणः
निःसङ्कैरर्ज्यते वित्तमर्जितं च विभज्यते ।
विभक्तं भुज्यते स्पष्टं जनैर्धर्मधने नृपे
उपपन्नं वचः श्रुत्वा धीमतस्तस्य भूपतिः ।
तमूचे दशनोद्योतैः प्रसादं दर्शयन्निव
मतिमान् कार्यसचिवस्त्वं मे भवितुमर्हसि ।
धीधूर्यैस्त्वद्विधैरेव धार्यते धरणीभरः
इति राजवचः श्रुत्वा शुधनस्तमभाषत ।
न् अवयं राजसेवासु सभामण्डलपण्डिताः
स्वाच्छन्द्योद्यानविच्छेदः सुनिद्रासुखविक्रयः ।
सेवा हि पुंसां संसारदुःखदैन्यभयंकरः
ईश्वरैर्मस्तकन्यस्तचरणः कृतकृत्यताम् ।
पादपीठ इवायाति सेवको ऽहं स्थितः सदा
सेवायासप्रयासेन प्राप्तानामपि संपदाम् ।
संभोगः पिशुनासङ्गी प्रभुभ्रूभन्गभङ्गुरः
एताश्च नावतिष्ठन्ते प्रयत्नेन धृता अपि ।
दर्पोग्रदुर्ग्रहग्राहदुर्ग्रहा नृपसंपदः
क्षणं नवनवाश्लिषविशेषप्रणयोद्यताः ।
अवाचवाररमणीरमणीया विभूतयः
इत्युक्तप्रतिषेधो ऽपि स राज्ञा सचिवः कृतः ।
अतिक्रामति को नाम प्रभविष्णोः समीहितम्
प्राप्तप्रौढपदं राज्ञा नीतं सर्वाधिकारिताम् ।
विद्वेषदूषिताः सर्वे मन्त्रिणस्तं न सेहिरे
धर्मजिज्ञासया राज्ञा पिशुनप्रेरितेन सः ।
नैवाकरोदसत्कार्यं नियुक्तो ऽपि पुन पुनः
आघातं प्रेक्षितः सो ऽथ मिथ्याकोपेन भूभुजा ।
तथाप्यधर्मसंयुक्तं न शासनमतन्यत
एकजन्मसुखायैव बहुजन्मशतार्दितम् ।
न साधुनिन्दितं कर्म करोमीति जगाद सः
भयधर्मोपधाशुद्धः प्रतिमुक्तः स भूभुजा ।
दानसत्रमविच्छिन्नमकरोदखिलार्थिनाम्
सर्वत्र विश्रुते तस्य दानसत्रे यशस्विनह् ।
कल्पवृक्षादरः पुंसां परं प्रतनुतां ययौ
अत्रान्तरे मुनिगणास्तीर्थार्था दक्षिणापथात् ।
आगता कृच्छ्रकान्तारमविशन् निर्जनं वनम्
तत्र तृष्णातुराः सर्वे मूर्च्छिताः शयनाश्रिताः ।
अयाचन्त जलं मोहादुच्चैर्निश्चेतनानपि
देवगन्धर्वनागेभ्यः कश्चिद्यो ऽत्र दयाम्बुधिः ।
स्थितः प्रयच्छतु जलं सो ऽस्माकमिति ते ऽब्रुवन्
ततः स रत्नकेयूरक्कनत्कङ्कणसद्ध्वनिः ।
भुजस्थमेमभृङ्गारस्तरुमध्याद्विनिर्ययौ
ते तस्मादमृतास्वादं पाणिपद्मावनामितात् ।
आकण्ठं सलिलं पीत्वा जहृषुर्लब्धजीविताः
प्रार्थितः पुनरभ्येत्य पप्रच्छुस्ते सविस्मयाः ।
अदृश्यवृक्षनिलयादुद्भूतं को भवानिति
सो ऽब्रवीद्विश्रुतयशाः श्रावस्त्यामाशयः श्रियः ।
अनाथपिण्डदो नाम सर्वदो ऽस्ति गृहाधिपः
सौचिकेन मया पूर्वं तद्गृहान्तिकवासिना ।
भुजमुद्यभ्य तद्वेश्म दर्शितं नित्यमर्थिनाम्
तेन पुण्येन देवत्वं प्राप्तो ऽत्र विहराम्यहम् ।
बाहुर्मम् विभात्येष दक्षिणः सो ऽर्थिदक्षिणः
ते तमामन्त्र्य मुनयः पुनः संप्रस्थिता वने ।
क्षुधिताः स्निग्धसच्छायं ददृशुः पादपं परम्
तमप्युच्चैरयाचन्त भोजनं तद्वदेव ते ।
उच्चचार च गम्भीरा वाणी विस्मयकारिणी
अत्र पुष्करिणीतीरे द्रोण्यां दिव्यान्नभोजनम् ।
संपूर्णमस्ति तद्गत्वा भुज्यतां यदभीप्सितम्
इति तेन समादिष्टं भुक्त्वा ते दिव्यभोजनम् ।
को भवनिति पप्रच्छुस्तं दिव्यतरुसंश्रयम्
सो ऽप्याचचक्षे श्रावस्त्यां गृहस्थो ऽनाथपिण्डदः ।
अस्ति तस्याहमभवं ब्राह्मणः संघहोजने
चतुरः परिचर्यायां दधिकुम्भप्रचारकः ।
तद्भोजनान्ते संप्राप्ते स्वल्पशेषान्नभोजनः
भिक्षुणां गौरवेच्चारं दृष्ट्वाहं राजभोजनम् ।
आत्मनश्चान्नमक्षारमभवं खिन्नमानसः
अनाथपिण्डदगिरा भोजने गौरवाशया ।
ततो मयाष्टाङ्गयुक्तं गृहीतं पोषधं व्रतम्
असमाप्तव्रतेनाथ भुक्तं लौल्यान्मया निशि ।
तेनाहमभवं लोके विज्ञातः खण्डपोषधः
खण्डेनापि व्रतेनाहं देवपुत्रत्वमागतः ।
इति ते तद्वचः श्रुत्वा मुनयो विस्मिता ययुः
अचिन्तयन् व्रजन्तस्ते तीव्रेण तपसा वयम् ।
सुचिरं केवलं क्लिष्टां नाद्यापि कुशलस्पृशः
अधुना पोषधं प्राप्तुं व्रतमेव यतामहे ।
निरपायसुखोपाये स्वहिते कस्य नादरः
इति संचिन्तयन्तस्ते कौशाम्बीमभितो गताः ।
सुधनस्य गृहं प्रापुर्विश्रुतं गृहमेधिनः
तत्र तेन कृतातिथ्या निवेद्यास्मै तदद्भुतम् ।
अनाथपिण्डदं द्रष्टुं तेनैव सहिता ययुः
श्रावस्त्याम् ते समासाद्य पूजितास्तेन सादरम् ।
अस्मै न्यवेदयन् सर्वं यथादृष्टं यथाश्रुतम्
स तान् व्रतार्थिन सर्वान् सुहृदं सुधनं च तम् ।
निनाय धर्मसचिवः प्रीतो भगवतो ऽन्तिकम्
भगवानपि तद्वाक्याच्चक्रे तेषामनुग्रहम् ।
सत्यदर्शनसंबुद्धा येन ते सुगतिं ययुः
तेषु यातेषु सुधनं पक्षपाताद्रया दृशा ।
विलोक्य भगवान् सम्यग् विदधे ज्ञानभाजनम्
सत्यसंदर्शनावाप्तविशेषकुशलोदयः ।
गत्वा जिनाय कौशाम्ब्याम् स विहारमकारयत्
यस्माद्भगवतादिष्टस्तस्मिन् यातः सहायताम् ।
भिक्षुश्चुन्दाभिधस्तस्मात् सो ऽभूच्चुन्दविहारभूः
राधाभिधा तदा दासी विहारपरिचारिका ।
दयया भगवानस्याः शीर्णवस्त्रं समग्रहीत्
अदासी स्यामिति श्रद्धाप्रणिधानार्पितस्तया ।
स चीवरो भगवतः प्रययावेकवर्णताम्
सुधनस्योज्ज्वलं दृष्ट्वांपुण्यसंभारमद्भुतम् ।
भिक्षुभिर्भगवान् पृष्टस्तत्पूर्वोदयमभ्यधात्
सुन्धानाख्यो गृहपतिर्वाराणस्यामभूत्पुरा ।
नोदारकुzन्जरस्याभूद् यस्य दानपरिक्षयः
अनावृष्टिहते काले तस्य द्वादशवार्षिके ।
अवारितमभूच्छत्रमविच्छिन्नान्नमर्थिनाम्
तस्य पद्माकरो नाम कोषागारपतिर्गृहे ।
दानसाहाय्यकं चक्रे सहस्था हि समृद्धयः
प्रत्येकबुद्धसंघस्य भक्तकालनिवेदकह् ।
धर्मदूताभिधस्तस्य मन्त्री धीमानपस्थितः
कर्मव्याक्षेपतस्तस्य जाते कालव्यतिक्रमे ।
कदाचित् कुकुरस्तेषां कालसंज्ञां व्यधात्पुरः
सुन्धानो ऽद्य स एवाहं कोष्ठिको ऽनाथपिण्डदः ।
संघस्य धर्मदूतो यः स एवोदयनो नृपः
संज्ञानिदेशको यश्च कुकुरः सुधनो ऽपि सः ।
राज्ञा घोषेण विज्ञातो घोषिलापरनामभृत्
चरितमित्युचितं भवभेदिना भगवता कथितं किल भिक्षवः ।
सुकृतसौरभसारसुधारसं सुमनसा श्रवणाञ्जलिभिः पपुः
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0