भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 34

34.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां नन्दोपनन्दावदानं त्रयस्त्रिंशः पल्लवः ॥
34. गृहपतिसुदत्तावदानम् ।
दत्तः परहितभावनया यदु तनुधनकणशेषः ।
अपरिक्षयगुणकल्पनया भवति सुपुण्यविशेषः

34.2

अथ व्यतीते कस्मिंश्चित् काले भगवतो ऽन्तिके ।
नन्दोपनन्दयोर्धर्मदेशनां श्रोतुमाययौ

34.3

राजा प्रसेनजिद्द्रष्टुं भगवन्तमुपागतः ।
ताभ्यामकृतसत्कारप्रणामः कोमपाययौ

34.4

स प्रणम्य जिनं गत्वा प्रदध्यौ निग्रहं तयोः ।
शस्त्रवृष्टिं संसृजन्तौ तौ च व्योम्ना समागतौ

34.5

सर्वज्ञप्रेषितस्तूरणं मौद्गल्यायन एत्य ताम् ।
शस्त्रवृष्टिं नरपतेश्चक्रे पद्मोत्पलावलिम्

34.6

पुनर्गत्वा भगवतः समीपं पृथिवीपतिः ।
संप्राप्तौ क्षमयामास तस्यादेशात् फणीश्वरौ

34.7

अथार्थितः पार्थिवेन भगवान् राजमन्दिरम् ।
भक्तिपूतं ययौ भोक्तुं भक्तं भिक्षुगणैः सह

34.8

भक्ष्येषु पच्यमानेषु रात्रौ तत्राग्निविल्पवः ।
जातो जिनप्रभावेण सहसा शान्तिमाययौ

34.9

भुक्त्वा गते भगवति क्षितिपः स्वपुरे ऽभ्यधात् ।
ज्वलनज्वालनं रात्रौ वारयन् दण्डसंविदा

34.10

अत्राण्तरे गृहपतिः सुदत्तस्यात्मजि युवा ।
मिथ्यादोषदृद्धिबलो नाम राज्ञाभिघातितः

34.11

पूर्वं भगवतः शास्तुः शासनानुग्रहेण सः ।
लब्धज्ञानधृतिः पुत्रदुःखे ऽप्यासीददुःखितः

34.12

अपुत्रः स्वधनं भूरि दीनेभ्यः प्रतिपाद्य सः ।
चकारातिरसादेकपणशेषं शनैः श्रियः

34.13

पणलाभकृताशेषधर्मः स्वल्पप्रदो ऽथ सः ।
अभूद् गृही सुदत्ताख्यो गृहं हि स्वप्लमुच्यते

34.14

कदाचिद्दर्शनायातं भगवान् पुरतः स्थितम् ।
तं स्वल्पदाननाम्नैव लज्जितं दययावदत्

34.15

अल्पदानं गृहपतेर्न लज्जां कर्तुमर्हसि ।
याति श्रद्धार्पितो दानकणः कनकशैलताम्

34.16

पुरा बहुतरं दत्तं वेलमेन द्विजन्मना ।
श्रद्धाविरहसामान्यान्न तथा वृद्धिमाययौ

34.17

यः सर्वं भोजयेद्भक्त्या जम्बुद्वीपगतं जनम् ।
यश्चैकं बोधिसंयुक्तं तस्य पुण्यं ततो ऽधिकम्

34.18

इति वाक्यं भगवतस्तथ्यं श्रुत्वाभिनन्द्य च ।
निजगेहं गृहपतिः प्रययौ प्रणिपत्य तम्

34.19

दीपं दत्वा पठन् रात्रौ ततर् बुद्धानुशासनम् ।
दण्डाय राजपुरुषैः स नीतो ऽग्निप्रवर्तनात्

34.20

दण्डस्य संभवाद्बद्धं बन्धनागारवर्तिनम् ।
तं द्रष्टुमाययुर्देवा रात्रौ शक्रब्रह्मादयः

34.21

स तैर्धनं गॄहाणेति प्रार्थितो नाग्रहीद्यदा ।
तदा धर्मोपदेशो ऽयं प्रवृत्तस्त्स्य मन्दिरे

34.22

राजापि तत्प्रभावेण दृष्ट्वा प्रज्वालितं पुरम् ।
मुक्त्वा तं बन्धनागारान्न ददर्श जलं क्कचित्

34.23

स गतः सुगतं द्रष्टुं कदाचित्तत्पुरः स्थितः ।
नृपं जिनप्रणामाय प्राप्तं पश्चाद् व्यलोकयत्

34.24

अग्रे भगवतश्चक्रे प्रणयं न स भूपतेः ।
जगत्पूज्यस्य पुरतः पूजामर्हति नापरः

34.25

जिनमामन्त्र्य नृपतिः प्रणतः स्वपुरं गतः ।
विवासनं गृहपतेरादिदेश निजात् पुरात्

34.26

प्रसादिनी सुदत्तस्य देवता नृपतिं ततः ।
क्षुद्रजन्तुभिरुत्सृष्टैश्चक्रे दंशविषाकुलम्

34.27

स त्रस्तस्तैर्नृपः प्राप्तः सामात्यान्तः पुरानुगः ।
गत्वा प्रसादयामास सुदत्तम् जिनशासनात्

34.28

इति स सततप्रत्यासत्त्या परामृतनिर्भरं
भगवदुदितं शान्तिं भेजे सुदत्तगृहाधिपः ।
स्वमिव लभते विघ्नयासप्रवासविवर्जितं
विमलमनसामन्तेवासी विवेकमहानिधिम्

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc