भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 30

30.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां काशीसुन्दरावदानं नाम ऊनत्रिंशः पल्लवः ॥
30. सुवर्णपार्श्वावदानम् ।
श्लाष्यः को ऽपि स सत्त्वसारसरलः सौजन्यपुण्यस्थितिर्
निन्द्य को ऽपि स धर्ममार्गगमने विघ्नः कृतघ्नः परम् ।
चित्रं यच्चरितं विचार्य सुचिरं रोमाञ्चचर्चाचितस्
तुल्यं याति जनः सबाष्पनयनस्तद्वर्पने मूकताम्

30.2

देवदत्तप्रसङ्गेन भिक्षुभिर्भगवान् पुरा ।
पृष्टः कथामकथयत् पूर्ववृत्तान्तसंश्रयाम्

30.3

महेन्द्रसेननामाभूद् वाराणस्यां नरेश्वरः ।
ययुः क्षितीश्वराः सर्वे यस्य लक्ष्म्या विलक्षताम्

30.4

चन्द्रप्रभाभवत्तस्य दिव्यकीर्तिरिव प्रिया ।
यस्याः पत्युः प्रभावेण स्वप्नाः सत्यत्वमाययुः

30.5

बभूव समये तस्मिन् मृतयूथपतिर्वने ।
सुवर्णपार्श्व इत्याप्तनामा हेममयच्छविः

30.6

नीलरत्नोदरास्फरमुक्ताहारनिभप्रभा ।
अभूद्दृष्टिच्छटा यस्य भूषणं काननश्रियः

30.7

प्रवालवल्लिशृङ्गस्य चित्ररत्नचितत्वचः ।
तस्याश्चर्यसुधाम्भोधिलहरी रुरुचे रुचिः

30.8

बोधिसत्त्वावतारस्य तस्य कान्तमभूद्वपुः ।
पूर्वं सुकृतचित्रस्य लक्षणं हि सुरूपता

30.9

दीर्घदृष्टिर्बभूवास्य वयस्यो वृद्धवायसः ।
लब्धकान्वेषणत्रासे दिग्विलोकनतत्परः

30.10

तौ कथाभिर्मिथः प्रीत्या विविक्तेषु विजस्रतुः ।
प्राक्पुण्यैर्जायते वाणी तिरश्चामपि माणुषी

30.11

स कदाचिज्जलान्वेषी यथूनाथः सहानुगैः ।
तटिन्या वेणुमालिन्याः पुलिनं समुपाययौ

30.12

तस्य तारतरं श्रुत्वा दीर्घमाक्रन्दनिश्वनम् ।
हरिणा दुद्रुवुः सर्वे ग्रीवावलनविभ्रमैः

30.13

सुवर्णपार्श्वस्तु तदा कृपापाशवशीकृतः ।
तत्रैव निश्चलस्तस्थौ मर्मविद्ध इवेषुणा

30.14

तदुद्धरणसंनद्धं दीर्घदृष्टिं विलोक्य तम् ।
काकः प्रोवाच न सखे युक्तो ऽतं ते समुद्यमः

30.15

पुष्पोपमा विपत्काले कृतार्थाः कुलिशोपमाः ।
कृतमेते न मन्यन्ते स्वकायसुहृदः खलाः

30.16

इत्यसौ वार्यमाणो ऽपि काकेन करुणाकुलः ।
अवतीर्याशु सरितं सरलस्तमतारत(?)

30.17

विमुच्य बन्धनान्यस्य स शृङ्गाभ्यामशङ्कितः ।
तं पादपतितं दीनमवदद्गन्तुमुद्यतम्

30.18

न त्वया कथनीयो ऽहमत्रस्थः कस्यचित्सखे ।
प्रार्थयन्ते सुवर्णं मां चर्मलुब्धा हि लुब्धकाः

30.19

इत्युक्तस्तेन विनयात् तत्तथेत्यभिधाय सः ।
ययौ कुटिलकाख्यस्तं प्रणम्य प्रस्तुतस्तुतिः

30.20

अत्रान्तरे नरपतेः पत्नी चन्द्रप्रभा निशि ।
स्वप्ने ददर्शासनस्थं मृगं सद्धर्मवादिनम्

30.21

सत्य्स्वप्नाथ सा देवी प्रबुद्धा नृपमब्रवीत् ।
सुवर्णहरिणः स्वप्ने देव दृष्टो मयाद्भुतः

30.22

तमहं द्रष्टुमिच्छामि साक्षादुपगतं मृगम् ।
अङ्कादिव मृगाङ्कस्य निर्गतं राहुशङ्कया

30.23

इत्युक्तः प्रणयात्प्रीतो देव्या च पृथिवीपतिः ।
मृगग्रहाय व्यसृजत् लुब्धकान् द्रविणप्रदः

30.24

ततः प्रतिनिवृत्तास्ते वनमन्विष्य लुब्धकाः ।
निष्फलागमनक्रुद्धं सकम्पा जगदुर्नृपम्

30.25

इयतीं जगती देव विचिता निचिताचलैः ।
भ्रान्ता वयमविश्रान्ता न लभ्यस्तद्विधो मृगः

30.26

आश्चर्यरचनाकृष्टलोचनश् चारुलोचनः ।
स्वप्नसंपन्नरूपो ऽसौ हिरण्यहरिणः कुतः

30.27

मनो विनोदने तस्मिन् यदि देव प्रसीदति ।
कुर्वन्तु काञ्चनमृगं कुशलाः के ऽपि शिल्पिनः

30.28

इति श्रुत्वा स नृपतिर्ददद्बहुतरं धनम् ।
मृगान्वेषणसंकल्पे बभूवाभिनिवेशवान्

30.29

ततः कुटिलको ऽभ्येत्य नृपं श्रुत्वा बहुप्रदम् ।
उवाच द्रविणादाने लुब्धकेभ्यो ऽपि लुब्धधीः

30.30

प्रसादः क्रियतां देव मृगं संदर्शयाम्यमह् ।
दृष्टः कनकसाराङ्ग सारङ्गः समया वने

30.31

इत्याकर्ण्य क्षितिपतिः प्रहर्षित्फुल्ललोचनः ।
भद्र संदर्शय क्कासौ क्कासावित्यवदन्मुहुः

30.32

तमेवाग्रेसरं कृत्वा मृगमार्गप्रदर्शकम् ।
ससैन्यः स ययौ स्वच्छच्छत्रचन्द्रोदयाचलः

30.33

दीर्घदृष्टिर्ददर्शाथ काकस्तरुशिरःस्थितः ।
गजवाजिव्रजोदीर्णरेणुप्रवारणं वनम्

30.34

सुवर्णपार्श्वमभ्येत्य जगाद मृययूथपम् ।
हितमुक्तं मया पूर्वं न श्रुतं न कृतं त्वया

30.35

स एष पुरुषः प्राप्तः संनद्धैः सह धन्विभिः ।
मया निवारितेनापि संहारेण न तृप्यते

30.36

अधुना क्क नु गन्तव्यं किं कर्तव्यं भयोद्भवे ।
हितं किमनुवर्तव्यं तुल्यं मर्तव्यमेव वा

30.37

कृतघ्नः क्रूरचरितः क्षुद्रो ऽयं संघपातकह् ।
त्वयैवात्मविनाशाय रक्षितो विषपादपः

30.38

स्वशरीरप्रदस्यापि संहारेण न तृप्यते ।
ससत्त्वसागरग्रासी कृतघ्नो वाडवानलः

30.39

उपकारः कृतघ्नेषु विश्वासः कुटुलात्मसु ।
उपदेशश्च मूर्खेषु कर्तुर्दोषाय केवलम्

30.40

इति काकेन कथिते प्रत्यासन्ने च पार्थिवे ।
अचिन्तयत् प्राप्तकालं हितं यूथस्य यूथपह्

30.41

सुभटानामियं सेना विगाहेद्गहनं महत् ।
करोति मत्प्रसङ्गेन मुहूर्तेनैव निर्मृगम्

30.42

तस्मात्सैन्यप्रधानस्य गच्छामि स्वयमन्तिकम् ।
एकस्यैव वधो मे ऽस्तु सर्वे जीवन्त्वमी मृगाः

30.43

इति निश्चित्य स ययौ समीपं भूपतेर्मृगः ।
परप्राणपरित्राणे तृणं प्राणां महात्मनाम्

30.44

तमायान्तं द्रुतं दृष्ट्वा हृष्टः कुटुलकह् पुरः ।
सो ऽयमित्याशु पाणिभ्याम् राज्ञे दूरे व्यदर्शयत्

30.45

तत्क्षणे द्रोणशापेन वज्रेणेव निपातिना ।
करु परिच्युतौ तस्य पापपादपपल्लवौ

30.46

तद्वृत्तं विस्मितः श्रुत्वा मृगेण कथितं नृपः ।
अभूत्कृतघ्नचरिते धिक्कारमुखराननः

30.47

ततः क्षितिपतिः प्रीत्या परया मृगम् ।
तम् निनाय स्वनगरीं गौरवेण गरीयसा

30.48

राजधानीमथासाद्य तस्मै रत्नासनं नृपः ।
दत्वा सान्तःपुरामात्यस्तस्याग्रे समुपाविशत्

30.49

स बोधिसत्त्वो हरिणस्तस्यां पर्षदि दिव्यधीः ।
धर्मं दिदेश येनाभूज्जनः शिक्षापदान्वितः

30.50

सुवर्णपार्श्वः सारङ्गः सो ऽयमेवाभवं पुरा ।
यो ऽभवत् कुटिलः क्रूरो देवदत्तः स चाधुना

30.51

इति सुकृतचितं भगवता भवभीतिभिदा
कथितमुदारसत्त्वरुचिरस्य ततश्चरितम् ।
प्रशममयं निशम्य कुशलाय स भिक्षुगणः
किमपि बभूव पुण्यपरिपाकविवेकरुचिरः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc