अवदानकल्पलता · अध्याय 31
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुवर्णपार्श्वावदानं त्रिंशः पल्लवः ॥
31. कल्याणकार्यवदानम् ।
प्रत्यक्षलक्षणपरीक्षित एष लोके संलक्ष्यते सुजनदुर्जनयोर्विशेषः ।
अर्कः प्रकाशविशदं विदधाति विश्वमन्धीकरोति निखिलं जगदन्धकारः
सर्वज्ञः पूर्ववृत्तान्तमशेषमवलोकयन् ।
अस्मिन्नेव कथारम्भे भगवान् पुनरब्रवीत्
नृपः पातलिपुत्राख्ये पुरे भूमिपुरंदरः ।
अभूत्पुरंदरो नाम मन्दिरं पुण्यसंपदः
कल्याणकारी तस्याभूत् सूनुर्गुणगणोन्नतः ।
अकल्याणाभिधानश्चद्वितीयो निर्गुणः सुतः
कल्याणकारी सर्वार्थिकरुणाकल्पपादपः ।
छत्रावशेषामकरोद् दाणशीलः श्रियं पितुः
तस्मै मनोरमां नाम पुण्यसेनो महीपतिः ।
दूतं विसृज्य लेखेन स्वसुताम् व् अचसा ददौ
प्रत्यासन्नविवाहो ऽथ नृपं राजसुतो ऽभ्यधात् ।
प्राप्तः परिणयस्तात संप्रत्येष न मे मतः
वात्सल्यपेशलतया मदात्ताः प्रकृतिश्रियः ।
मया दानव्यसनिना कोषस्ते शुषिरीकृतः
तस्मात्प्रवहणेनाहं समुत्तीर्य महोदधिम् ।
रत्नद्वीपं व्रहाम्येव दिव्यरत्नार्जनोद्यतः
दिव्यसंपदमासाद्य करिष्ये दारसंग्रहम् ।
कलत्रमकृतार्थस्य त्रासनं सुखसंपदाम्
इयुक्त्वा स पितुः प्राप्य शासनं चरणानतः ।
जगाहे जलधिं लोलकल्लोलालिङ्गिताम्बरम्
भ्राता तमनुवज्राज सौजन्यव्यञ्जनो ऽनुजः ।
निर्गुणः सगुणद्वेषद्रोहमन्तर्विचिन्तयन्
ज्येष्ठस्तमब्रवीद्वत्स समुद्रे कर्मविप्लवात् ।
अहं ग्राह्यस्त्वया स्कन्धे जाते प्रवहणक्षये
इति भ्रात्रा कृताश्वासस्तथेत्यूवे स तं शठः ।
दोषोद्यतः प्रणयितां खलः समवलम्बते
ततः प्रवाहणारूढः पवनैरनुकूलताम् ।
यातैः पुण्यैरिव प्राप्य रत्नद्वीपं नृपात्मजः
दोव्यरत्नानि संप्राप्य प्रत्यावृत्ते ततः शनैः ।
राजपुत्रे प्रवहणं द्रागभञ्जत् प्रभञ्जनः
भग्ने प्रवहणे तस्मिन् भ्रातरं पूर्वसंविदा ।
स जग्राह शठः कण्ठे तं भुजङ्ग इवानुजः
कर्मवातेरितस्तूर्णं कूलं प्राप्य नृपात्मजः ।
अवाप सहसा निद्रामान्ध्यप्रथमदूतिकाम्
तस्य सुप्तस्य रत्नानि दृष्ट्वा बद्धान्यथानुजः ।
प्रहर्तुं व्यसनच्छिद्रे क्रूरः समुपचक्रमे
उत्पाट्य गाढबद्धस्य स तस्य नयनाम्बुजम् ।
तं तारकं भयाम्भोधौ चकार गततारकम्
आत्तरत्ने गते तस्मिन् वाजसूनुर्गतद्युतिः ।
मातङ्गोन्मूलिताम्भोज इवाभूत्कमलाकरः
स बभूव निरालोकः शोकतीव्रतमोवृतः ।
कृष्णपक्षक्षपारम्भ इव सूर्येन्दुवर्जितः
अत्रान्तरे समायातस्तं देशं गोकुशाधिपः ।
राजपुत्रं विलोक्यान्धमभूत् संक्रान्ततद्व्यथह्
स तं नीत्वा स्वनिलयं परिचर्यापरः पार्ः ।
तस्यासीद्गुणसौजन्यस्नेहावेशवशीकृतः
तत्र शोकसुजां शान्त्यै सदा चेतोविनोदिनीम् ।
वीणां स्वरप्रवीणो ऽसौ पूर्वाभ्यस्तमवादयत्
सत्संगमः पृथुविवेककथाभोयोगः
काव्यासवः प्रियसुहृत्प्रणयो विहारः ।
वीणास्वनह् कुसुमकान्तवनान्तवासः
शोकाग्नितप्तमनसाममृतावगाहः
तस्य गोपपतेः पत्नी तीगवीणाविचक्षणा ।
पश्यन्ती राजतनयं प्रययौ साभिलाषताम्
कृतोपदेशा सततं कुटिला वीणयेव सा ।
मूर्च्छन्ती नवरागेण सोत्कण्ठा समचिन्तयत्
सुभगो ऽयं ममातीव दृशि चित्ते च चर्तते ।
निवर्तते न मे तापः प्रेम्णि चेन्न प्रवर्तते
धन्येयं नखसंपातैः क्कणन्ती रागिणीमुहुः ।
यातास्य वल्लकी पुण्यैरङ्कारोहणयोग्यताम्
इति संचिन्त्य सा स्वैरं तमुवाच सविभमम् ।
स्पृशन्ती तत्कराम्भोजं सकम्पकरपल्लवा
ललनासुलभां लज्जां ममेदं त्वद्गतं मनः ।
अकृतज्ञ इव प्रीतिं न संस्मरति मानद
न शीलं न कुलाचारं नाभिमानं न संशयम् ।
अपेक्षन्ते स्मरक्षिप्ता वैलक्ष्यरहिताः स्त्रियः
प्रणयान्मम सङ्कल्पं सफलं कर्तुमर्हसि ।
भवन्ति मानिताः प्रीत्यै देवता इव योषितः
इति तस्य वचः श्रुत्वा भिन्नस्वरविशृङ्खलम् ।
चपलां राजपुत्रस्तां त्रस्तान्तःकर्णो ऽवदत्
नेयं मातः समुचिता सतः शीलपरिच्युतिः ।
धिक्किल्बिषविषस्पृष्टः नष्टशीलस्य जीवितम्
पराङ्गनापरिष्वङ्गमङ्गैरङ्गीकरोति यः ।
आलिङ्गति पतङ्गो ऽयं नरकाग्निशिखां पुनह्
परोपकारनिरताह् परदारनिरादराः ।
ये ऽप्यहिंसाव्यसनिनस्ते जीवन्ति मृताः परे
इति तेनोक्तमाकर्ण्य साभूद्भग्नमनोरथा ।
निधनाभ्यधिकः प्रीतिप्रतिषेधो हि योषिताम्
ततः स्वपतिमभ्येत्य भुजङ्गी भङ्गमागते ।
मनोरथे मन्युविषं वमन्तीव जगाद सा
परवत्सलता साधो दोषाय सरलस्य ते ।
को ह्यविज्ञातशीलानां स्वाधीनीकुरुते गृहम्
परेषु भृशमाश्वासं स्पृशतस्ते न शोभनम् ।
गुप्तं चित्तं च वित्तं च जनो जानाति कस्य कः
परदारसहस्राक्षस्त्वयान्धः स गृहे धृतः ।
दीनान्धजनवात्सल्यात् पश्य तस्योचितं फलम्
अद्याहं तेन विजने संगमे भृशमर्थिता ।
यद्यस्य नयने स्यातां स्यात् कथं मे पलायनम्
इत्युक्तः स तया कोपात्तप्तो गोपपतिर्भृशम् ।
द्वरे निष्कास्य तं चक्रे गेहं चित्तं च शीतलम्
पिता त्यजति यत्पुत्रं सुहृन्मित्रं निहन्ति यत् ।
बन्धुच्छेदासिधाराणां तद्दाराणां विजृम्भितम्
भ्रुवोर्दृशोर्यत्कौटिल्यं यत्तैक्ष्ण्यं यच्च चापलम् ।
कुचयोर्यच्च काठिन्यं तत्सर्वं हृदि योषिताम्
कल्याणकारिसार्थेन पथः संतारितं शनैः ।
पितरि त्रिदिवं याते शुश्राव भ्रातरं नृपम्
स पुरं पुण्यसेनस्य श्वशुरस्य महीपतेः ।
कालेन प्राप्प दूराध्वक्लेशप्रशमबान्धवम्
अत्रान्तरे सुता तत्र महीभर्तुर्मनोरमा ।
वाचा दत्ता पुरा यस्मै तस्मिन्नब्धिच्युते श्रुते
आहूतेषु नरेन्द्रेषु निविष्टेषु यथाक्रमम् ।
आरुह्य रत्नशिबिकां स्वयंवरभुवं ययौ
विलोकयन्ती भूपालान् सा शनैश्चललोचना ।
यदृच्छयागतं तत्र राजपुत्रं ददर्श तम्
अन्धो ऽपि तस्याः सहस् आस ययौ प्रियतां दृशोः ।
ग्रहमध्ये कुमुद्वत्या मेघान्धो ऽपि प्रियः शशी
नृपेषु प्रतियातेषु विलक्षेष्वफलागमात् ।
महीपतिसुतान्तस्तं वव्रे गुणविनिर्गतम्
सापु हारं परिक्षिप्य कण्ठे तस्यायतेक्षणा ।
शनकौर्मधुरालापा त्वद्वशास्मीत्युवाच तम्
स्त्रीवृत्तचकितः सो ऽपि विजने तामभाषत ।
प्रज्ञादरिद्रया नेदं स्त्रिया युक्तं कृतं त्वया
स्मरसौहार्दमित्रेषु पद्मनेत्रेषु राजसु ।
स्थितेषु वन्ध्यजन्मान्धः कस्मादस्मि वृतस्त्वया
अन्यवक्र्क्रावलोकिन्यो जायाश्चक्षुष्मतामपि ।
वधूः किं पुनरन्धस्य दिने ऽप्यन्याभिसारिका
ललनाभिर्न मे कृत्यं प्रत्ययस्तासु नास्ति मे ।
कुलकूलनिपातिन्यो निम्नगाः कुटिलाः स्तियः
इत्युक्ता तेन परुषं लज्जालोला नृपात्मजा ।
तमूचे नाथ सर् वत्र न शङ्कां कर्तुमर्हसि
दृष्टदोषः क्कचिन्नार्याम् यदि त्वमतिशङ्कितः ।
अदुष्टापि त्वया नाम तद्व्याप्ता क्रियते कथम्
त्वय्येव यदि मे प्रीतिरनन्यशरणम् मनः ।
तेन सत्येन ते नेत्रमेकं भवतु निर्मलम्
इत्युक्तमात्रे सुदृशा दक्षिणं तस्य लेचनम् ।
सत्यानुभावेनाभूत्तत्प्रफुल्लकमलोपमम्
राजपुत्रः प्रहृष्टो ऽथ ताम् प्रसाद्य सिलोचनाम् ।
उवाच तन्मुखाम्भोजलावण्यगुणचिस्मित्ः
कल्याणकारी सुभगः स एवाहं नृपात्मजः ।
यस्मौ पुरा त्वं गुरुणा वचसा प्रतिपादिता
स एवाहं यदि परं निर्वैरः पाटने दृशः ।
तेन सत्येन नयनं स्वस्थं भवतु मे ऽपरम्
सत्योपयाचनेनेति सहसैवास्य लोचनम् ।
द्वितीयमपि वैमल्यमवाप सह चेतसा
ततो विदितवृत्तेन पुण्यसेनेन भूभुजा ।
कृतसाहाय्यकः प्राप स्वराज्य स प्रियासखः
कल्याण्कारी यः सो ऽहं देवदत्तः स चानुजः ।
तेन पूर्वानुभावेन तद्विधो ऽद्यापि वर्तते
इत्युदारमुपकारनिर्मलं बोधिसत्त्वचरितं निशम्य ते ।
भिक्षवः खल्विचेष्टितं च तत्तुल्यमप्रतिमविस्मयं ययुः
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0